द्रोणपर्व

अध्यायः १६५

Drona Parva (Sanskrit) · Adhyaya 165
अक्षर का आकार

सञ्जय उवाच।

प्रकाशिते तदा लोके रजसा तमसावृते।
समाजग्मुरथो वीराः परस्परवधैषिणः।।

ते समेत्य रणे राजञ्शस्त्रप्रासासिधारिणः।
परस्परमुदैक्षन्त परस्परकृतागसः।।

प्रदीपानां सहस्रैश्च दीप्यमानैः समन्ततः।
रत्नाचितैः स्वर्णदण्डैर्गन्धतैलावसिञ्चितैः।।

देवगन्धर्वदीपाद्यैः प्रभाभिरधिकोज्ज्वलैः।
विरराज तदा भूमिर्ग्रहैर्द्यौरिव भारत।।

उल्काशतैः प्रज्वलितै रणभूमिर्व्यराजत।
दह्यमानेव लोकानामभावे च वसुन्धरा।।

व्यदीप्यन्त दिशः सर्वाः प्रदीपैस्तैः समन्ततः।
वर्षाप्रदोषे खद्योतैर्वृता वृक्षा इवाबभुः।।

असज्जन्त ततो वीरा विरेष्वेव पृथक्पृथक्।
नागा नागैः समाजग्मुस्तुरगा हयसादिभिः।
रथा रथवरैरेव समजग्मुर्मुदा युताः।।

तस्मिन्रात्रिमुखे घोरे तव पुत्रस्य शासनात्।
चतुरङ्गस्य सैन्यस्य सम्पातश्च महारनभूत्।।

ततोऽर्जुनो महाराज कौरवाणामनीकिनीम्।
व्यधमत्त्वरया युक्तः क्षपयन्सर्वपार्थिवान्।।

धृतराष्ट्र उवाच।

तस्मिन्प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम्।
अमृष्यमाणे दुर्धर्षे कथमासीन्मनो हि वः।।

किमकुर्वत सैन्यानि प्रविष्टे परषीडने।
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत।।

के चैनं समरे वीरं प्रत्युद्ययुररिन्दमाः।
द्रोणं च के व्यरक्षन्त प्रविष्टे श्वेतवाहने।।

केऽरक्षन्दक्षिणं चक्रं के च द्रोणस्य सव्यतः।
के पृष्ठतश्चाप्यभवन्वीरा वीरान्विनिघ्नतः।
के पुरस्तादगच्छन्त निघ्नन्तः शास्त्रवान्रणे।।

यत्प्राविशन्महेष्वासः पाञ्चालनापराजिताः।
नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान्।।

यो ददाह शरैर्द्रोणः पाञ्चालानां रथव्रजान्।
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान्।।

अव्यग्रानेव हि परान्कथयस्यपराजितान्।
हृष्टानुदीर्णान्सङ्ग्रामे न तथा सूत मामकान्।।

हतांश्चैव विदीर्णांश्च विप्रकीर्णांश्च शंससि।
रथिनो विरथांश्चैव कृतान्युद्वेषु मामकान्।।

सञ्जय उवाच।

द्रोणस्य मतमाज्ञाय योद्वुकामस्य तां निशाम्।
दुर्योधनो महाराज वश्यान्भ्रातॄनुवाच ह।।

कर्णं च वृषसेनं च मद्रराजं च कौरव।
दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः।।

द्रोणं यत्ताः पराक्रान्ताः सर्वे रक्षन्तु पृष्ठतः।
हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा।।

त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः।
तांश्चैव पुरतः सर्वान्पुत्रस्ते समचोदयत्।।

दुर्योधन उवाच।

आचार्यो हि सुसंयत्तो भृशं यत्ताश्च पाण्डवाः।
तं रक्षत सुसंयत्ता निघ्नन्तं शास्त्रवान्रणे।।

द्रोणो हि बलवान्युद्धे क्षिप्रहस्तः प्रतापवान्।
निर्जयेत्त्रिदशान्युद्धे किमु पार्थान्ससोमकान्।।

ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः।
द्रोणं रक्षत पाञ्चालाद्धृष्टद्युम्नान्महारथात्।।

पाण्‍डवीयेषु सैन्येषु न तं पश्याम कञ्चन।
यो योधयेद्रणे द्रोणं धृष्टद्युम्नादृते पुमान्।।

तस्मात्सर्वात्मना मन्ये भारद्वाजस्य रक्षणम्।
सुगुप्तः पाण्डवान्हन्यात्सृञ्जयांश्च ससोमकान्।।

सृञ्जयेष्वथ सर्वेषु निहतेषु चमूमुखे।
धृष्टद्युम्नं रमे द्रौणिर्हनिष्यति न संशयः।।

तथाऽर्जुनं च राधेयो हनिष्यति महारथः।
भीमसेनमहं चापि युद्धेजेष्यामि दीक्षितः।
शेषांश्च पाण्डवान्योधाः प्रसभं हीनतेजसः।।

सोयं मम जयो व्यक्तो दीर्घकालं भविष्यति।
तस्माद्रक्षत सङ्ग्रामे द्रोणमेव महारथम्।।

इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्याधनस्तव।
व्यादिदेश तथा सैन्यं तस्मिंस्तमसि दारुणे।।

ततः प्रववृते युद्धं रात्रौ भरतसत्तम।
उभयोः सेनयोर्घोरं परस्परजिगीषया।।

अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः।
नानाशस्त्रसमावायैरन्योन्यं समपीडयन्।।

द्रौणिः पाञ्चालराजं च भारद्वाजश्च सृञ्जयान्।
छादयांचक्रिरे सङ्ख्ये शरैः सन्नतपर्वभिः।।

पाण्डुपाञ्चालसैन्यानां कौरवाणां च भारत।
आसीन्निष्टानको घोरो निघ्नतामितरेतरम्।।

नैवास्माभिस्तथा पूर्वैर्दृष्टपूर्वं तथाविधम्।
युद्धं यादृशमेवासीत्तां रात्रि सुभयावहम्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे पञ्चषष्ट्यधिकशततमोऽध्यायः।। 165 ।।