द्रोणपर्व

अध्यायः १६६

Drona Parva (Sanskrit) · Adhyaya 166
अक्षर का आकार

सञ्जय उवाच।

वर्तमाने तदा रौद्रे रात्रियुद्धे विशाम्पते।
सर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः।।

अब्रवीत्पाण्डवांश्चैव पाञ्चालांश्चैव सोमकान्।
अभिद्रवत संयात द्रोणमेव जिघांसया।।

राज्ञस्ते वचनाद्राजन्पाञ्चालाः सृञ्जयास्तथा।
द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान्रवान्।।

तान्वयं प्रतिगर्जन्तः प्रत्युद्याताः स्म हर्षिताः।
यथाशक्ति यथोत्साहं यथासत्वं च संयुगे।।

कृतवर्मा तु हार्दिक्यो युधिष्ठिरमुपाद्रवत्।
द्रोणं प्रति समायान्तं मत्तो मत्तमिव द्विपम्।।

शैनेयं शरवर्षाणि विकिरन्तं समन्ततः।
अभ्ययात्कौरवो राजन्भूरिः सङ्ग्राममूर्धनि।।

सहदेवमथायान्तं द्रोणप्रेप्सुं महारथम्।
कर्णो वैकर्तनो राजन्वारयामास पाण्‍डवम्।।

भीमसेनमथायान्तं व्यादितास्यामिवान्तकम्।
स्वयं दुर्योधनो राजा प्रतीपं मृत्युमाव्रजत्।।

नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम्।
शकुनिः सौबलो राजन्वारयामास सत्वरः।।

शिखण्डिनमथायान्तं रथेन रथिनां वरम्।
कृपः शारद्वतो राजन्वारयामास संयुगे।।

प्रतिविन्ध्यमथायान्तं मयूरसदृशैर्हयैः।
दुःशासनो महाराज यत्तो यत्तमवारयत्।।

भैमसेनिमथायान्तं मायाशतविशारदम्।
अश्वत्थामा महाराज राक्षसं प्रत्यषेधयत्।।

द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम्।
वारयामास समरे द्रोणप्रेप्सुं महारथम्।।

विराटं द्रुतमायान्तं द्रोणस्य निधनं प्रति।
मद्रराजः सुसङ्क्रुद्धो वारयामास भारत।।

शतानीकमथायान्तं नाकुलिं रभसं रणे।
चित्रसेनो रुरोधाशु शरैर्द्रोणपरीप्सया।।

अर्जुनं च युधांश्रेष्ठं प्राद्रवन्तं महारथम्।
अलायुधो महाराज राक्षसेन्द्रो न्यवारयत्।।

तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान्रणे।
धृष्टद्युम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारयत्।।

तथाऽन्यान्पाण्डुपुत्राणां समायातान्महारथान्।
तावका रथिनो राजन्वारयामासुरोजसा।।

गजारोहा गजैस्तूर्णं सन्निपत्य महामृधे।
योधयन्तः स्म दृश्यन्ते शतशोऽथ सहस्रशः।।

निशीथे तुरगा राजन्द्रावयन्तः परस्परम्।
समदृश्यन्त वेगेन पक्षवन्तो यथाऽद्रयः।।

सादिनः सादिभिः सार्धं प्रासशक्त्यृष्टिपाणयः।
समागच्छन्महाराज विनदन्तः पृथक्पृथक्।।

नरास्तु बहवस्तत्र समाजग्मुः परस्परम्।
गादाभिर्मुसलैश्चैव नानाशस्त्रैश्च संयुगे।।

कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम्।
वारयामास सङ्क्रुद्धो वेलेवोद्वृत्तमर्णवम्।।

युधिष्ठिरस्तु हार्दिक्यं विद्व्वा पञ्चभिराशुगैः।
पुनर्विव्याध विंशत्या तिष्ठतिष्ठेति चाब्रवीत्।।

कृतवर्मा तु सङ्क्रुद्धो धर्मपुत्रस्य मारिष।
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः।।

अथान्यद्धनुरादाय धर्मपुत्रो महारथः।
हार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत्।।

माधवस्तु रणे विद्धो धर्मपुत्रेण मारिष।
प्राकम्पत च रोषेण सप्तभिश्चार्दयच्छरैः।।

तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य च।
प्राहिणोन्निशितान्बाणान्पञ्च राजञ्छिलाशितान्।।

ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम्।
प्राविशन्धरणीं भित्त्वा वल्मीकमिव पन्नगाः।।

अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम्।
विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः।।

तस्य शक्तिममेयात्मा पाण्डवो भुजगोपमाम्।
चिक्षेप भरश्रेष्ठ रथे न्यस्य महद्धनुः।।

सा हेमचित्रा महती पाण्डवेयेन प्रेरिता।
निर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम्।।

एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः।
हार्दिक्यं छादयामास शरैः सन्नतपर्वभिः।।

ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी।
व्यश्चसूतरथं चक्रे निमेषार्धाद्युधिष्ठिरम्।।

ततस्तु पाण्डवो ज्येष्ठः खङ्गं चर्म समाददे।
तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे।।

तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम्।
प्रैषयत्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः।।

तमापतन्तं सहसा धर्मराजभुजच्युतम्।
द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्निव।।

ततः शरशतेनाजौ धर्मपुत्रमवाकिरत्।
कवचं चास्य सङ्क्रुद्धः शरैस्तीक्ष्णैरदारयत्।।

हार्दिक्यशरसञ्छन्नं कवचं तन्महाधनम्।
व्यशीर्यत रणे राजंस्ताराजालमिवाम्बरात्।।

स च्छिन्नधन्वा विरथः शीर्णवर्मा शरार्दितः।
अपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः।।

कृतवर्मा तु निर्जित्य धर्मात्मानं युधिष्ठिरम्।
पुनर्द्रोणस्य जुगुपे चक्रमेव महात्मनः।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे षट्‌षष्ट्यधिकशततमोऽध्यायः।। 166 ।।