द्रोणपर्व

अध्यायः १६४

Drona Parva (Sanskrit) · Adhyaya 164
अक्षर का आकार

सञ्जय उवाच।

वर्तमाने यथा यद्धे घोररूपे भयावहे।
तमसा संवृते लोके रजसा च महीपते।।

नापश्यन्त रणे योधाः परस्परमवस्थिताः।
अनुमानेन संज्ञाभिर्युद्धं तद्ववृधे महत्।।

नरनागाश्वमथनं परमं रोमहर्षणम्।
द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः।
अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम।।

वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः।
तमसा संवृते चैव समन्ताद्विप्रदुद्रुवुः।।

ते सर्वतो विद्रवन्तो योधा विध्वस्तचेतनाः।
अहन्यन्त महाराज धावमानाश्च संयुगे।।

महारथसहस्राणि जघ्नुरन्योन्यमाहवे।
अन्ये तमसि मूढानि पुत्रस्य तव मन्त्रिते।।

ततः सर्वाणि सैन्यानि सेनागोपाश्च भारत।
व्यमुह्यन्त रणे तत्र तमसा संवृते सति।।

धृतराष्ट्र उवाच।

तेषां संलोड्यमानानां पाण्डवैर्विहतौजसाम्।
अन्धे तमसि मग्नानामासीत्किं वो मनस्तदा।।

कथं प्रकाशस्तेषां वा मम सैन्यस्य वा पुनः।
बभूव लोके तमसा तथा सञ्जय संवृते।।

सञ्जय उवाच।

ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै।
सेनागोप्तॄनथादिश्य पुनर्व्यूहमकल्पयत्।।

द्रोणः पुरस्ताज्जघने तु शल्य--
स्तथा द्रौणिः कृतवर्मा सौबलश्च।
स्वयं तु सर्वाणि बलानि राज--
न्राजाऽभ्ययाद्गोपयन्वै निशायाम्।।

उवाच सर्वांश्च पदातिसङ्घा--
न्दुर्योधनः पार्थिवसान्त्वपूर्वम्।
उत्सृज्य सर्वे परमायुधानि
गृह्णीत हस्तैर्ज्वलितान्प्रदीपान्।।

ते चोदिताः पार्थिवसत्तमेन
ततः प्रहृष्टा जगृहुः प्रदीपान्।।

देवर्षिगन्धर्वसुरर्षिसङ्घा
विद्याधराश्चाप्सरसां गणाश्च।
नागाः सयक्षोरगकिन्नराश्च
हृष्टा दिविस्था जगृहुः प्रदीपान्।।

दिग्धैर्वतेभ्यश्च समापतन्तो--
ऽदृश्यन्त दीपाः ससुगन्धितैलाः।
विशेषतो नारदपर्वताभ्यां
सम्बोध्यमानाः कुरुपाण्डवार्थम्।।

सा भूय एव ध्वजिनी विभक्ता
व्यरोचताग्निप्रभया निशायाम्।
महाधनैराभरणैश्च दिव्यैः
शस्त्रैश्च दीप्तैरपि सम्पतद्भिः।।

रथेरथे पञ्च विदीपकास्तु
प्रदीपकास्तत्र गजे त्रयश्च।
प्रत्यश्वमेकश्च महाप्रदीपः
कृतास्तु तैः पाण्डवैः कौरवेयैः।।

क्षणेन सर्वे विहिताः प्रदीपा
व्यादीपयन्तो ध्वजिनीं तवासु।।

सर्वास्तु सेना व्यतिसेव्यमानाः
पदातिभिः पावकतैलहस्तैः।
प्रकाश्यमाना ददृशुर्निशायां
यथान्तरिक्षे जलदास्तडिद्भिः।।

प्रकाशितायां तु ततो ध्वजिन्यां
द्रोणोऽग्निकल्पः प्रतपन्सपत्नान्।
रराज राजेन्दर सुवर्णवर्मा
मध्यं गतः सूर्य इवांशुमाली।।

जाम्बूनदेष्वाभरणेषु चैव
निष्केषु शुद्धेषु शरासनेषु।
पीतेषु शस्त्रेषु च पावकस्य
प्रतिप्रभास्तत्र तदा बभूवुः।।

गदाश्च शैक्याः परिघाश्च शुभ्रा
रथेषु शक्त्यश्च विवर्तमानाः।
प्रतिप्रभारश्मिभिराजमीढ
पुनःपुनः सञ्जनयन्ति दीपान्।।

छत्राणि वालव्यजनानि खङ्गा
दीप्ता महोल्काश्च तथैव राजन्।
व्याघूर्णमानाश्च सुवर्णमाला
व्यायच्छतां तत्र तदा विरेजुः।।

शस्त्रप्रभाभिश्च विराजमानं
दीपप्रभाभिश्च तदा बलं तत्।
प्रकाशितं चाभरणप्रभाभि--
र्भृशं प्रकाशं नृपते बभूव।।

पीतानि शस्त्राण्यसृगुक्षितानि
वीरावधूतानि तनुच्छदानि।
दीप्तां प्रभां प्राजनयन्त तत्र
तपात्यये विद्युदिवान्तरिक्षे।।

प्रकम्पितानामभिधातवेगै--
रभिघ्नतां चापततां जवेन।
वक्राण्यकाशन्त तदा नराणां
वाय्वीरितानीव महाम्बुजानि।।

महावने दारुमये प्रदीप्ते
यथा प्रभा भास्करस्यापि नश्येत्।
तथा तदाऽऽसीद्वजिनी प्रदीप्ता
महाभया भारत भीमरूपा।।

तत्संप्रदीप्तां बलमस्मदीयं
निशाम्य पार्थास्त्वरितास्तथैव।
सर्वेषु सैन्येषु पदातिसङ्घा--
नचोदयंस्तेऽपि चक्रुः प्रदीपान्।।

गजेगजे सप्त कृपाः प्रदीपा
रथेरथे चैव दश प्रदीपाः।
द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये
ध्वजेषु चान्ये जघनेषु चान्ये।।

सेनासु सर्वासु च पार्श्वतोऽन्ये
पश्चात्पुरस्ताच्च समन्ततश्च।
मध्ये तथाऽन्ये ज्वलिताग्निहस्ता
व्यदीपयन्पाण्डुसुतस्य सेनाम्।।

मध्ये तथाऽन्ये ज्वलिताग्निहस्ताः
सेनाद्वयेऽपि स्म नरा विचेरुः।।

सर्वेषु सैन्येषु पदातिसङ्घा
विमिश्रिता हस्तिरथाश्वबृन्दैः।
व्यदीपयंस्ते ध्वजिनीं प्रदीप्ता--
स्तथा बलं पाण्डवेयाभिगुप्तम्।।

तेन प्रदीप्तेन तथा प्रदीप्तं--
बलं तवासीद्बलवद्बलेन।
भाः कुर्वता भानुमता ग्रहेण
दिवाकरेणाग्निरिवाभिगुप्तः।।

तयोः प्रभाः पृथिवीमन्तरिक्षं
सर्वा व्यतिक्रम्य दिशश्च वृद्धाः।
तेन प्रकाशेन भृशं प्रकाशं
बभूव तेषां तव चैव सैन्यम्।।

तेन प्रकाशेन दिवं गतेन
सम्बोधिता देवगणाश्च राजन्।
गन्धर्वयक्षासुरसिद्धसङ्घाः
समागमन्नप्सरसश्च सर्वाः।।

तद्देवगन्धर्वसमाकुलं च
यक्षासुरेन्द्राप्सरसां गणैश्च।
हतैश्च शूरैर्दिवमारुहद्भि--
रायोधनं दिव्यकल्पं बभूव।।

रथाश्वनागाकुलदीपदीप्तं
संरब्धयोधं हतविद्रुताश्वम्।
महद्बलं व्यूढरथाश्वनागं
सुरासुरव्यूहसमं बभूव।।

तच्छक्तिसङ्घाकुलचण्‍डवातं
महारथाभ्रं गजवाजिघोषम्।
शस्त्रौगवर्षं रुधिराम्बुधारं
निशि प्रवृत्तं रथदुर्दिनं तत्।।

तस्मिन्महाग्निप्रतिमो महात्मा
सन्तापंयन्पाण्डवान्विप्रमुख्यः।
गभस्तिभिर्मध्यगतो यथाऽर्को
वर्षात्यये तद्वदभून्नरेन्द्र।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे चतुःषष्ठ्यधिकशततमोऽध्यायः।। 164 ।।