द्रोणपर्व
अध्यायः १६३
सञ्जय उवाच।
सोमदत्तं तु सम्प्रेक्ष्य विधुन्वानं महद्धनुः।
सात्यकिः प्राह यन्तारं सोमदत्ताय मां वह।।
न ह्यहत्वा रणे शत्रुं सोमदत्तं महाबलम्।
निवर्तिष्ये रणात्सूत सत्यमेतद्वचो मम।।
ततः सम्प्रैषयद्यन्ता सैन्धवांस्तान्मनोजवान्।
तुरङ्गामाञ्छङ्खवर्णान्सर्वशब्दातिगान्रणे।।
तेऽवहन्युयुधानं तु मनोमारुतरंहसः।
यथेन्द्रं हरयो राजन्पुरा दैत्यवधोद्यतम्।।
तमापतन्तं सम्प्रेक्ष्य सात्वतं रभसं रणे।
सोमदत्तो महाबाहुरसम्भ्रान्तो न्यवर्तत।।
विमुञ्चञ्छरवर्षाणि पर्जन्य इव वृष्टिमान्।
छादयामास शैनेयं जलदो भास्करं यथा।।
असम्भ्रान्तश्च समरे सात्यकिः कुरुपुङ्गवम्।
छादयामास बाणौघैः समन्ताद्भरतर्षभ।।
सोमदत्तस्तुतं षष्ट्या विव्याधोरसि माधवम्।
सात्यकिश्चापि तं राजन्नविध्यत्सायकैः शितैः।।
तावन्योन्यं शरैः कृत्तौ व्यराजेतां नरर्षभौ।
सुपुष्पौ पुष्पसमये पुष्पिताविव किंशकौ।।
रुधिरोक्षितसर्वाङ्गौ कुरुवृष्णियशस्करौ।
परस्परमवेक्षेतां दहन्ताविव लोचनैः।।
रथमण्डलमार्गेषु चरन्तावरिमर्दनौ।
घोररूपौ हितावास्तां वृष्टिमन्ताविवाम्बुदौ।।
शरसम्भिन्नगात्रौ तु सर्वतः शखलीकृतौ।
श्वाविधाविव राजेन्द्र दृश्येतां शरविक्षतौ।।
सुवर्णपुङ्खैरिषुभिराचितौ तौ व्यराजताम्।
खद्योतैरावृतौ राजन्प्रावृषीव वनस्पती।।
सम्प्रदीपितसर्वाङ्गौ सायकैस्तैर्महारथौ।
अदृश्येतां रणे क्रुद्धावुल्काभिरिव कुञ्जरौ।।
ततो युधि महारज सोमदत्तो महारथः।
अर्धचन्द्रेम चिच्छेद माधवस्य महद्धनुः।।
अथैनं पञ्चविंशत्या सायकानां समार्पयत्।
त्वरमाणस्त्वराकाले पुनश्च दशभिः शरैः।।
अथान्यद्धनुरादाय सात्यकिर्वेगवत्तरम्।
पञ्चभिः सायकैस्तूर्णं सोमदत्तमविध्यत।।
ततोऽपरेण भल्लेन ध्वजं चिच्छेद काञ्चनम्।
बाह्लीकस्य रणे राजन्सात्यकिः प्रहसन्निव।।
सोमदत्तस्त्वसम्भ्रान्तो दृष्ट्वा केतुं निपातितम्।
शैनेयं पञ्चविंशत्या सायकानां समाचिनोत्।।
सात्वतोऽपि रणे क्रुद्धः सोमदत्तस्य धन्विनः।
धनुश्छिच्छेद भल्लेन क्षुरप्रेण शितेन ह।।
अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम्।
आचिनोद्बहुधा राजन्भग्नदंष्ट्रमिव द्विपम्।।
अथान्यद्धनुरादाय सोमदत्तो महारथः।
सात्यकिं छादयामास शरवृष्ट्या महाबलः।।
सोमदत्तं तु सङ्क्रुद्धो रणे विव्याध सात्यकिः।
सात्यकिं शरजालेन सोमदत्तोऽप्यपीडयत्।।
दशभिः सात्वतस्यार्थे भीमोऽहन्बाह्लिकात्मजम्।
सोमदत्तोप्यसम्भ्रान्तो भीममार्च्छच्छितैः शरैः।।
ततस्तु सात्वतस्यार्थे भीमसेनो नवं दृढम्।
मुमोच परिघं घोरं सोमदत्तस्य वक्षसि।।
तमापतन्तं वेगेन परिघं घोरदर्शनम्।
द्विधा चिच्छेद समरे प्रहसन्निव कौरवः।।
स पपात द्विधा च्छिन्न आयसः परिघो महान्।
महीधरस्येव महच्छिखरं वज्रदारितम्।।
ततस्तु सात्यकी राजन्सोमदत्तस्य संयुगे।
धनुश्चिच्छेद भल्लेन हस्तावापं च पञ्चभिः।।
ततश्चतुर्भिश्च शरैस्तूर्णं तांस्तुरगोत्तमान्।
समीपं प्रेषयामास प्रेतराजस्य भारत।।
सारथेश्च शिरः कायाद्भल्लेन नतपर्वणा।
जहार नरशार्दूलः प्रहसञ्छिनिपुङ्गवः।।
ततः शरं महाघोरं ज्वलन्तमिव पावकम्।
मुमोच सात्वतो राजन्स्वर्णपुङ्गं शिलाशितम्।।
स विमुक्तो बलवता शैनेयेन शरोत्तमः।
घोरस्तस्योरसि विभो निपपाताशु भारत।।
सोऽतिविद्धो महाराज सात्वतेन महारथः।
सोमदत्तो महाबाहुर्निपपात ममार च।।
तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः।
महता शरवर्षेण युयुधानमुपाद्रवन्।।
छाद्यमानं शरैर्दृष्ट्वा युयुधानं युधिष्ठिरः।
पाण्डवाश्च महाराज सह सर्वैः प्रभद्रकैः।
महत्या सेनया सार्धं द्रोणानीकमुपाद्रवन्।।
ततो युधिष्ठिरः क्रुद्धस्तावकानां महाबलम्।
शरैर्विद्रावयामास भारद्वाजस्य पश्यतः।।
सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम्।
अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः।।
ततः सुनिशितैर्बाणैः पार्थं विव्याध सप्तभिः।
युधिष्ठिरोऽपि सङ्क्रुद्धः प्रतिविव्याध पञ्चभिः।।
सोऽतिविद्धो महाबाहुः सृक्विणी परिसंलिहन्।
युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च।।
स च्छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः।
अन्यदादत्त वेगेन कार्मुकं समरे दृढम्।।
ततः शरसहस्रेण द्रोणं विव्याध पार्थिवः।
साश्वसूतध्वजरथं तदद्भुतमिवाभवत्।।
ततो मुहूर्तं व्यथितः शरपातप्रपीडितः।
निषसाद रथोपस्थे द्रोणो भरतसत्तम।।
प्रतिलभ्य ततः संज्ञां मुहूर्ताद्द्विजसत्तमः।
क्रोधेन महताऽऽविष्टो वायव्यास्त्रमवासृजत्।।
असम्भ्रान्तस्ततः पार्थो वायव्येनैव वीर्यवान्।
तदस्त्रमस्त्रेण रणे स्तम्भयामास भारत।।
चिच्छेद च धनुर्दीर्घं ब्राह्मणस्य च पाण्डवः।
ततोऽन्यद्धनुरादत्त द्रोणः क्षत्रियमर्दनः।
तदप्यस्य शितैर्भल्लैश्चिच्छेद कुरुपुङ्गवः।।
ततोऽब्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम्।।
युधिष्ठिर महाबाहो यत्त्वां वक्ष्यामि तच्छ्रणु।
उपारमस्व युद्धे त्वं द्रोणाद्भरतसत्तम।।
यतते हि सदा द्रोणो ग्रहणे तव संयुगे।
नानुरूपमहं मन्ये युद्धमस्य त्वया सह।।
योऽस्य सृष्टो विनाशाय स एवैनं हनिष्यति।
परिवर्ज्य गुरुं याहि यत्र राजा सुयोधनः।।
राजा राज्ञा हि योद्धव्यो नाराज्ञा युद्धमिष्यते।
तत्र त्वं गच्छ कौन्तेय हस्त्यश्वरथसंवृतः।।
यावन्मात्रेण च मया सहायेन धनञ्जयः।
भीमश्च रथशार्दूलो युध्यते कौरवैः सह।।
वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः।
मुहूर्तं चिन्तयित्वा तु ततो दारुणमाहवम्।।
प्रायाद्द्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः।
विनिघ्नंस्तावकान्योधान्व्यादितास्य इवान्तकः।।
रथघोषेण महता नादयन्वसुधातलम्।
पर्जन्य इव धर्मान्ते नादयन्वै दिशो दश।
भीमस्य निघ्नतः शत्रून्पार्ष्णिं जाग्रह पाण्डवः।।
द्रोणोऽपि पाण्डुपाञ्चालान्व्यधमद्रजनीमुखे।
`नादयंस्तलघोषेण तव सैन्यानि मारिष'।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे त्रिषष्ट्यधिकशततमोऽध्यायः।। 163 ।।