द्रोणपर्व
अध्यायः १५९
सञ्जय उवाच।
उदीर्यमाणं तद्दृष्ट्वा पाण्डवानां महद्बलम्।
अविषह्यं च मन्वानः कर्णं दुर्योधनोऽब्रवीत्।।
अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल।
त्रायस्व समरे कर्ण सर्वान्योधान्महारथान्।।
पाञ्चालैर्मत्स्यकैकेयैः पाण्डवैश्च महारथैः।
वृतान्समन्तात्सह्क्रुद्धैर्निः श्वसद्भिरिवोरगैः।।
एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः।
शक्रोपमाश्च बहवः पाञ्चालानां रथव्रजाः।।
कर्ण उवाच।
परित्रातुमिह प्राप्तो यदि पार्थं पुरन्दरः।
तमप्याशु पराजित्य ततो हन्ताऽस्मि पाण्डवम्।।
सत्यं ते प्रतिजानामि समाश्वसिहि भारत।
हन्तास्मि पाण्डुतनयान्पाञ्चालांश्च समागतान्।।
जयं ते प्रतिदास्यामि वासवस्येव पावकिः।
प्रियं तव मया कार्यमिति जीवामि पार्थिव।।
सर्वेषामेव पार्थानां फल्गुनो बलवत्तरः।
तस्यामोघां विमोक्ष्यामिशक्तिं शक्रविनिर्मितां।।
तस्मिन्हते महेष्वासे भ्रातरस्तस्य मानद।
तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः।।
मयि जीवति कौरव्य विषादं मा कृथाः क्वचित्।
अहं जेष्यामि समरे सहितान्सर्वपाण्डवान्।।
पाञ्चालान्केकयांश्चैव वृष्णींश्चापि समागतान्।
बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम्।।
सञ्जय उवाच।
एवं ब्रुवाणं कर्णं तु कृपः शारद्वतोऽब्रवीत्।
स्मयन्निव महाबाहुः सूतपुत्रमिदं वचः।।
शोभनं शोभनं कर्ण सनाथः कुरुपुङ्गवः।
त्वया नाथेन राधेय वचसा यदि सिध्यति।।
बहुशः कत्थसे कर्ण कौरवस्य समीपतः।
न तु ते विक्रमः कश्चिद्दृश्यते फलमेव वा।।
समागमः पाण्डुसुतैर्दृष्टस्ते बहुशो युधि।
सर्वत्र निर्जितश्चासि पाण्डवैः सूतनन्दन।।
हियमाणे तदा कर्ण गन्धर्वैर्धृतराष्ट्रजे।
तदाऽयुध्यन्त सैन्यानि त्वमेकोऽग्रेऽपलायिथाः।।
विराटनगरे चापि समेताः सर्वकौरवाः।
पार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः।।
एकस्याप्यसमर्थस्त्वं फल्गुनस्य रणाजिरे।
कथमुत्सहसे जेतुं सकृष्णान्सर्वपाण्डवान्।।
अब्रुवन्कर्ण युध्यस्व कत्थसे बहु सूतज।
अनुक्त्वा विक्रमेद्यस्तु तद्वै सत्पुरुषव्रतम्।।
गर्जित्वा सूतपुत्र त्वं शारदाभ्र इवाजलः।
निष्फलो दृश्यसे कर्ण तच्च राजा न बुध्यते।।
तावद्गर्जस्व राधेय यावत्पार्थं न पश्यसि।
आरात्पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं पुनः।।
त्वमनासाद्य तान्बाणान्फल्गुनस्य विगर्जसि।
पार्थसायकविंद्धस्य दुर्लभं गर्जितं तव।।
बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः।
धनुषा फल्गुनः शूरः कर्णः शूरो मनोरथैः।
तोषितो येन रुद्रोऽपि कः पार्थं प्रतिघातयेत्।।
एवं संरुषितस्तेन तदा शारद्वतेन ह।
कर्णः प्रहरतां श्रेष्ठः कृपं वाक्यमथाब्रवीत्।।
शूरा गर्जन्ति सततं प्रावृषीव वलाहकाः।
फलं चाशु प्रयच्छन्ति बीजमुप्तमनूषरे।।
दोषमत्र न पश्यामि शूराणां रणमूर्धनि।
तत्तद्विकत्थमानानां भारं चोद्वहतां मृधे।।
यं भारं पुरुषो वोढुं मनसा हि व्यवस्यति।
दैवमस्य ध्रुवं तत्र साहाय्यायोपपद्यते।।
व्यवसायद्वितीयोऽहं मनसा भारमुद्वहन्।
हत्वा पाण्डुसुतानाजौ सकृष्णान्सहसात्वतान्।
गर्जामि यद्यहं विप्र तव किं तत्र नश्यति।।
वृथा शूरा न गर्जन्ति सजला इव तोयदाः।
सामर्थ्यमात्मनो ज्ञात्वा ततो गर्जन्ति पण्डिताः।।
सोऽहमद्य रणे यत्तौ सहितौ कृष्मपाण्डवौ।
उत्सहामि रणे जेतुं ततो गर्जामि गौतम।।
पश्य त्वं गर्जितस्यास्य फलं मे विप्र सानुगान्।
हत्वा पाण्डुसुतानाजौ सहकृष्णान्ससात्वतान्।
दुर्योधनाय दास्यामि पृथिवीं हतकण्टकाम्।।
कृप उवाच।
मनोरथप्रलापा मे न ग्राह्यास्तव सूतज।।
सदा क्षिपसि वै कृष्णौ धर्मराजं च पाण्डवम्।
ध्रुवस्तत्र जयः कर्ण यत्र युद्धविशारदौ।।
देवगन्धर्वयक्षाणां मनुष्योरगरक्षसाम्।
दंशितानामपि रणे अजेयौ कृष्णपाण्डवौ।।
ब्रह्मण्यः सत्यवाग्दान्तो गुरुदैवतपूजकः।
नित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतः।।
धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः।
भ्रातरश्चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः।।
गुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः।
सम्बन्धिनश्चेन्द्रवीर्याः स्वनुर्ताः प्रहारिणः।।
धृष्टद्युम्नः शिखण्डी च दौर्मुखिर्जनमेजयः।
चन्द्रसेनो रुद्रसेनः कीर्तिधर्मा ध्रुवो धरः।।
वसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुतेजनः।
द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रवित्।।
येषामर्थाय संयत्तो मत्स्यराजः सहानुजः।
शतानीकः सूर्यदत्तः श्रुतानीकः श्रुतध्वजः।।
बलानीको जयानीको जयाश्वो रथवाहनः।
चन्द्रोदयः समरथो विराटभ्रातरः शुभाः।।
यमौ च द्रौपदेयाश्च राक्षसश्च घटोत्कचः।
येषामर्थाय युध्यन्ते न तेषां विद्यते क्षयः।।
एते चान्ये च बहवो गणाः पाण्डुसुतस्य वै।।
कामं खलु जगत्सर्वं सदेवासुरमानुषम्।
सयक्षराक्षसगणं सभूतभुजगद्विपम्।
निःशेषमस्त्रवीर्येण कुर्वाते भीमफल्गुनौ।।
युधिष्ठिरश्च पृथिवीं निर्दहेद्धोरचक्षुषा।।
अप्रमेयबलः शौरिर्येषामर्थे च दंशितः।
कथं तान्संयुगे कर्ण जेतुमुत्सहसे परान्।।
महानपनयस्त्वेष नित्यं हि तव सूतज।
यस्त्वमुत्सहसे योद्धुं समरे शौरिणा सह।।
सञ्जय उवाच।
एवमुक्तस्तु राधेयः प्रहसन्भरतर्षभ।
अब्रवीच्च तदा कर्णो गुरं शारद्वतं कृपम्।।
सत्यमुक्तं त्वया ब्रह्मन्पाण्डवान्प्रति यद्वचः।
एते चान्ये च बहवो गुणाः पाण्डुसुतेषु वै।।
अजय्याश्च रणे पार्था देवैरपि सवासवैः।
सदैत्ययक्षगन्धर्वैः पिशाचोरगराक्षसैः।।
तथापि पार्थाञ्जेष्यामि शक्त्या वासवदत्तया।
मम ह्यमोघा दत्तेयं शक्तिः शक्रेण वै द्विज।
एतया निहनिष्यामि सव्यसाचिनमाहवे।।
हते तु पाण्डवे कृष्णे भ्रातरश्चास्य सोदराः।
अनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथञ्चन।।
तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा।
अयत्नात्कौरवेन्द्रस्य वशे स्थास्यति गौतम्।।
सुनीतैरिह सर्वार्थाः सिध्यन्ते नात्र संशयः।
एतमर्थमहं ज्ञात्वा ततो गर्जामि गौतम।।
त्वं तु विप्रश्च वृद्धश्च अशक्तश्चापि संयुगे।
कृतस्नेहश्च पार्थेषु मोहान्मामवमन्यसे।।
यद्येवं वक्ष्यसे भूयो ममाप्रियमिह द्विज।
ततस्ते खङ्गमुद्यम्य जिह्वां छेत्स्यामि दुर्मते।।
यच्चापि पाण्डवान्विप्र स्तोतुमिच्छसि संयुगे।
भीषयन्सर्वसैन्यानि कौरवेयांश्च दुर्मते।।
अत्रापि शृणु मे वाक्यं यथावद्ब्रुवतो द्विज।
दुर्योधनश्च द्रोणश्च शकुनिर्दुर्मुखो जयः।।
दुःशासनो वृषसेनो मद्राजस्त्वमेव च।
सोमदत्तश्च भूरिश्च तथा द्रौणिर्विविंशतिः।।
तिष्ठेयुर्दंशिता यत्रा सर्वे युद्धविशारदाः।
जयेदेतान्नरः को नु शक्रतुल्यबलोऽप्यरिः।।
शूराश्च हि कृतास्त्राश्च बलिनः स्वर्गलिप्सवः।
धर्मज्ञा युद्धकुशला हन्युर्युद्धे सुरानपि।।
एते स्थास्यन्ति सङ्ग्रामे पाण्डवानां वधार्थिनः।
जयमाकाङ्क्षमाणा हि कौरवेयस्य दंशिताः।।
दैवायत्तमहं मन्ये जयं सुबलिनामपि।
यत्र भीष्मो महाबाहुः शेते शरशताचितः।।
विकर्णश्चित्रसेनश्च बाह्लीकोऽथ जयद्रथः।
भूरिश्रवा जयश्चैव जलसन्धः सुदक्षिणः।।
शलश्च रथिनां श्रेष्ठो भगदत्तश्च वीर्यवान्।
एते चान्ये च राजानो देवैरपि सुदुर्जयाः।।
निहताः समरे शूराः पाण्डवैर्बलवत्तराः।
किमन्यद्दैवसंयोगान्मन्यसे पुरुषाधम।।
यांश्च तांस्तौषि सततं दुर्योधनरिपून्द्विज।
तेषामपि हताः शूराः शतशोऽथ सहस्रशः।।
क्षीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह।
प्रभावं नात्र पाश्यामि पाण्डवानां कथञ्चन।।
यस्तान्बलवतो नित्यं मन्यसे त्वं द्विजाधम।
यतिष्येऽहं यथाशक्ति योद्धुं तैः सह संयुगे।
दुर्योधनहितार्थाय जयो दैवे प्रतिष्ठितः।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे एकोनषष्ट्यधिकशततमोऽध्यायः।। 159 ।।