द्रोणपर्व
अध्यायः १५८
सञ्जय उवाच।
द्रुपदस्यात्मजान्दृष्ट्वा कुन्तिभोजसुतांस्तथा।
द्रोणपुत्रेण निहतान्राक्षसांश्च सहस्रशः।।
युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः।
युयुधानश्च संयत्ता युद्धायैव मनो दधुः।।
सोमदत्तः पुनः क्रुद्धो दृष्ट्वा सात्यकिमाहवे।
महता शरवर्षेण च्छादयामास भारत।।
ततः समभवद्युद्धमतीव भयवर्धनम्।
त्वदीयानां परेषां च घोरं विजयकाङ्क्षिणाम्।।
तं दृष्ट्वा समुपायान्तं रुक्मपुङ्खैः शिलाशितैः।
दशभिः सात्वतस्यार्थे भीमो विव्याध सायकैः।।
सोमदत्तोऽपि तं वीरं शतेन प्रत्यविध्यत।
सात्वतस्त्वभिसंक्रुद्धः पुत्राधिभिरभिप्लुतम्।।
वृद्धं वृद्धगुणैर्युक्तं ययातिमिव नाहुषम्।
विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातनैः।
शक्त्या चैनं विनिर्भिद्य पुनर्विव्याध सप्तभिः।।
ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम्।
मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि।।
सात्वतोऽप्यग्निसङ्काशं मुमोच शरमुत्तमम्।
सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि।।
युगपत्पेततुर्वीर घोरौ परिघमार्गणौ।
शरीरे सोमदत्तस्य स पपात महारथः।।
व्यामोहिते तुनये बाह्लीकस्तमुपाद्रवत्।
विसृजञ्छरवर्षाणि कालवर्षीव तोयदः।।
भीमोऽथ सात्वतस्यार्थे बाह्लीकं नवभिः शरैः।
प्रातिपेयं महात्मानं विव्याध रणमूर्धनि।।
प्रातिपेयस्तु सङ्क्रुद्धः शक्तिं भीमस्य वक्षसि।
निचखान महाबाहुः पुरन्दर इवाशनिम्।।
स तथाऽभिहतो भीमश्चकम्पे च मुमोह च।
प्राप्य चेतश्च बलवान्गदामस्मै ससर्ज ह।।
सा पाण्डवेन प्रहिता बाह्लीकस्य शिरोऽहरत्।
स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट्।।
तस्मिन्विनिहते वीरे बाह्लीके पुरुषर्षभ।
पुत्रास्तेऽभ्यर्दयन्भीमं दश दाशरथेः समाः।।
नागदत्तो दृढरथो महाबाहुरयोभुजः।
दृढः सुहस्तो विरजाः प्रमाथ्युग्रोऽनुयाय्यपि।।
तान्दृष्ट्वा चुक्रुधे भीमो जगृहे भारसाधनान्।
एकमेकं समुद्दिश्य पातयामास मर्मसु।।
ते विद्धा व्यसवः पेतुः स्यन्दनेभ्यो हतौजसः।
चण्डवातप्रभग्नास्तु पर्वताग्रान्महीरुहाः।।
नाराचैर्दशभिर्भीमस्तान्निहत्य तवात्मजान्।
कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत्।।
ततो वृकरथो नाम भ्राता कर्णस्य विश्रुतः।
जघान भीमं नाराचैस्तमप्यभ्यद्रवद्बली।।
ततः सप्तरथान्वीरः श्यालानां तव भारत।
निहत्य भीमो नाराचैः शतचन्द्रमपोथयत्।।
अमर्षयन्तो निहतं शतचन्द्रं महारथम्।
शकुनेर्भ्रातरो वीरा गवाक्षः शरभो विभुः।।
सुभगो भानुदत्तश्च शूराः पञ्च महारथाः।
अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडयन्।।
स ताड्यमानो नाराचैर्वृष्टिवेगैरिवाचलः।
जघान पञ्चभिर्बाणैः पञ्चैवातिरथान्बली।।
तान्दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः।।
ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातयत्।।
मिषतः कुम्भयोनेस्तु पुत्राणां तव चानघ।।
अम्बष्ठान्मालवाञ्छूरांस्त्रिगर्तान्सशिबीनपि।
प्राहिणोन्मृत्युलोकाय क्रुद्धो युद्धे युधिष्ठिरः।।
अभीषाहाञ्छूरसेनान्बाह्लीकान्सवसातिकान्।
निहत्य पृथिवीं राजा चक्रे शोणितकर्दमाम्।।
यौधेयान्मालवान्राजन्मद्रकाणां गणान्युधि।
प्राहिणोन्मृत्युलोकाय शूरान्बाणैर्युधिष्ठिरः।।
हताहरत गृह्णीत विध्यत व्यवकृन्तत।
इत्यासीत्तुमुलः शब्दो युधिष्ठिररथं प्रति।।
सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम्।
चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत्।।
द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम्।
विव्याध सोऽपि तद्दिव्यमस्त्रमस्त्रेण जघ्निवान्।।
तस्मिन्विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे।
वारुणं याम्यमाग्नेयं त्वाष्ट्रं सावित्रमेव च।
चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम्।।
क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः।
जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन्।।
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसम्भवः।।
प्रादुश्चक्रेऽस्त्रमैन्द्रं वै प्राजापत्यं च भारत।
जिघांसुर्धर्मतनयं तव पुत्रहिते रतः।।
पतिः कुरूणां गजसिंहगामी
विशालवक्षाः पृथुलोहिताक्षः।
प्रादुश्चकारास्त्रमहीनतेजा
माहेन्द्रमस्त्रं स जघान तेन।।
विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः।
युधिष्ठिरवधं प्रेप्सुर्ब्राह्ममस्त्रमुदैरयत्।।
ततो नाज्ञासिषं किञ्चिद्धोरेण तमसाऽऽवृते।
सर्वभूतानि च परं त्रासं जग्मुर्महीपते।।
ब्रह्मास्त्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः।
ब्रह्मास्त्रेणैव राजेन्द्र तदस्त्रं प्रत्यवारयत्।।
ततः सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ।
द्रोणपार्थौ महेष्वासौ सर्वयुद्धविशारदौ।।
ततः प्रमुच्य कौन्तेयं द्रोणो द्रुपदवाहिनीम्।
व्यधमत्क्रोधताम्राक्षो वायव्यास्त्रेण भारत।।
ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात्।
पश्यतो भीमसेनस्य पार्थस्य च महात्मनः।।
ततः किरीटी भीमश्च सहसा सन्न्यवर्तताम्।
महद्ध्यां रथवंशाभ्यां परिगृह्य बलं तदा।।
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं च वृकोदरः।
भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम्।।
केकयाः सृञ्जयाश्चैव पाञ्चालाश्च महौजसः।
अन्वगच्छन्महाराज मात्स्याश्च सह सात्वतैः।।
ततः सा भारती सेना वध्यमाना किरीटिना।
तमसा निद्रया चैव पुनरेव व्यदीर्यत।।
द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च।
नाशक्यन्त महाराज योधा वारयितुं तदा।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे अष्टपञ्चाशदधिकशततमोऽध्यायः।। 158 ।।