द्रोणपर्व

अध्यायः १६०

Drona Parva (Sanskrit) · Adhyaya 160
अक्षर का आकार

सञ्जय उवाच।

तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम्।
खङ्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम्।।

ततः परमसङ्क्रुद्धः सिंहो मत्तमिव द्विपम्।
प्रेक्षतः कुरुराजस्य द्रौणिः कर्णं समभ्ययात्।।

अश्वत्थामोवाच।

यदर्युनगुणांस्तथ्यान्कीर्तयानं नराधम।
शूरं द्वेषात्सुदुर्बुद्धे त्वं भर्त्सयसि मातुलम्।।

विकत्थमानः शौर्येण सर्वलोकधनुर्धरम्।।
दर्पोत्सेधगृहीतोऽद्य न कञ्चिद्गणयन्मृधे।।

क्व ते वीर्यं क्व चास्त्राणि यं त्वां निर्जित्य संयुगे।
गाण्डीवधन्वा हतवान्प्रेक्षतस्ते जयद्रथम्।।

येन साक्षान्महादेवो योधितः समरे पुरा।
तमिच्छसि वृथा जेतुं सूताधम मनोरथैः।।

यं हि कृष्णेन सहितं सर्वशस्त्रभृतां वरम्।
जेतुं न शक्ताः सहिताः सेन्द्रा अपि सुरासुराः।।

लोकैकवीरमजितमर्जुनं सूत संयुगे।
किं पुनस्त्वं सुदुर्बुद्धे सहैभिर्वसुधाधिपैः।।

कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम।
एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते।।
सञ्जय उवाच।

तमुद्यतं तु वेगेन राजा दुर्योधनः स्वयम्।
न्यवारयन्महातेजाः कृपश्च द्विपदां वरः।।

कर्ण उवाच।

शूरोऽयं समरश्लाघी दुर्मतिश्च द्विजाधमः।
आसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम।।

अश्वत्थामोवाच।

तैवतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते।
दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति।।

दुर्योधन उवाच।

अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद।
कोपः खलु न कर्तव्यः सूतपुत्रं कथञ्चन।।

त्वयि कर्णे कृपे द्रोणे मद्रराजेऽथ सौबले।
महत्कार्यं समासक्तं प्रसीद द्विजसत्तम।।

एते ह्यभिमुखाः सर्वे राधेयेन युयुत्सवः।
आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समन्ततः।।

सञ्जय उवाच।

प्रसाद्यमानस्तु ततो राज्ञा द्रौणिर्महामनाः।
प्रससाद महाराज क्रोधवेगसमन्वितः।।

ततः कृपोऽप्युवाचेदमाचार्यः सुमहामनाः।
सौम्यस्वभावाद्राजनेन्द्र क्षिप्रमागतमार्दवः।।

कृप उवाच।

तवैतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते।
दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति।।

सञ्जय उवाच।

ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः।
आजग्मुः सहिताः कर्णं तर्जयन्तः समन्ततः।।

कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान्।
कौरवाग्र्यैः परिवृतः शक्रो देवगणैरिव।
पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः।।

ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः।
भीषणं सुमहाराज सिंहनादविराजितम्।।

ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः।
दृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन्।।

अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे।
युध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम।।

अन्ये तु दृष्ट्वा राधेयं क्रोधरक्रेक्षणाऽब्रुवन्।
हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः।
सर्वैः पार्थिवशार्दूलैर्नानेनार्थोऽस्ति जीवता।

अत्यन्तवैरी पार्थानां सततं पापपूरुषः।
एष मूलमनर्थानां दुर्योधनमते स्थितः।।

घ्नतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन्।
महता शरवर्षेण च्छादयन्तो महारथाः।
वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः।।

तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान्महारथान्।
न विव्यथे सूतपुत्रो न च त्रासमगच्छत।।

दृष्ट्वा सागस्कल्पं तमुद्धूतं सैन्यसागरम्।
पिप्रीषुस्तव पुत्राणां सङ्ग्रामेष्वपराजितः।।

सायकौधेन बलवान्क्षिप्रकारी महाबलः।
वारयामास तत्सैन्यं समन्ताद्भरतर्पभ।।

ततस्तु शरवर्षेण पार्थिवास्तमवारयन्।
धनुम्पि ते विधुन्वानाः शतशोऽथ सहस्रशः।
अयोधयन्त राधेयं शक्रं दैत्यगणा इव।।

शरवर्पं तु तत्कर्णः पार्थिवैः समुदीरितम्।
शरवर्षेण महता समन्ताद्व्यकिरत्प्रभो।।

तद्युद्धमभवत्तेषां कृतप्रतिकृतैषिणाम्।
यथा देवासुरे युद्धे शक्रस्य सह दानैवः।।

तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम्।
यदेनं सर्वतो यत्ता नाप्नुवन्ति परे युधि।।

निवार्य च शरौघांस्तान्पार्थिवानां महारथः।
युगेष्वीषासु च्छत्रेषु ध्वजेषु च हयेषु च।
आत्मनामाङ्कितान्घोरान्राधेयः प्राहिणोच्छरान्।।

ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः।
बभ्रुमुस्तत्र तत्रैव गावः शीतार्दिता इव।।

हयानां वध्यमानानां गजानां रथिनां तथा।
तत्रतत्राभ्यवेक्षाम सङ्घान्कर्णेन ताडितान्।।

शिरोभिः पतितै राजन्बाहुभिश्च समन्ततः।
आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम्।।

हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशः।
बभूवायोधनं रौद्रं वैवस्वतपुरोपमम्।।

ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम्।
अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह।।

युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः।।

पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम्।
कार्तिकेयेन विध्वस्तामासुरीं पृतनामिव।।

दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमता।
अभियात्येष बीभत्सुः सूतपुत्रजिघांसया।।

तद्यथा प्रेक्षमाणानां सूतपुत्रं महारथम्।
न हन्यात्पाण्डवः सङ्ख्ये तथा नीतिर्विधीयतां।।

ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः।
प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया।
आयान्तं वीक्ष्य कौन्तेयं शक्रं दैत्यचमूमिव।।

बीभत्सुरपि राजेन्द्र पाञ्चालैरभिसंवृतः।
प्रत्युद्ययौ तदा कर्णं यथा वृत्रं शतक्रतुः।।

धृतराष्ट्र उवाच।

संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमोपमम्।
कर्णो वैकर्तनः सूत प्रत्यपद्यत्किमुत्तरम्।।

यो ह्यस्पर्धत पार्थेन नित्यमेव महारथः।
आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणम्।।

स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम्।
कर्णो वैकर्तनः सूत किमुत्तरमपद्यत।।

सञ्जय उवाच।

आयान्तं पाण्डव दृष्ट्वा गजं प्रतिगजो यथा।
असम्भ्रान्तो रणे कर्णः प्रत्युदीयाद्धनञ्जयम्।।

तमापतन्तं वेगेन वैकर्तनमजिह्मगैः।
छादयामास पार्थोऽथ कर्णस्तु विजयं शरैः।।

स कर्णं शरजालेन च्छादयामास पाण्‍डवः।
ततः कर्णः सुसंरब्धः शरैस्त्रिभिरविध्यत।।

तस्य तल्लाघवं पार्थो नामृष्यत महाबलः।।

तस्मै बाणाञ्शिलाधौतान्प्रसन्नाग्रानजिह्मगान्।
प्राहिणोत्सूतपुत्राय त्रिशतं शत्रुतापनः।।

विव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान्।
सव्ये भुजाग्रे बलवान्नाराचेन हसन्निव।।

तस्य विद्धस्य बाणेन कराच्चापं पपात ह।।

पुनरादाय तच्चापं निमेषार्धान्महाबलः।
छादयामास बाणौघैः फल्गुनं कृतहस्तवत्।।

शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत।
व्यधमच्छरवर्षेण स्मयन्निव धनञ्जयः।।

तौ परस्परमासाद्य शरवर्षेण पार्थिव।
छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ।।

तदद्भुतं महद्युद्धं कर्णपाण्डवयोर्मृधे।
क्रुद्धयोर्वासिताहेतोर्वन्ययोर्गजयोरिव।।

ततः पार्थो महेष्वासो दृष्ट्वा कर्णस्य विक्रमम्।
मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयाऽन्वितः।।

अश्वांश्च चतुरो भल्लैरनयद्यमसादनम्।
सारथेश्च शिसः कायादहरच्छत्रुतापनः।।

अथैनं छिन्नधन्वानं हताश्वं हतसारथिम्।
विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः।।

हताश्वात्तु रथात्तूर्णमवप्लुत्य नरर्षभः।
आरुरोह रथं तूर्णं कृपस्य शरपीडितः।।

स नुन्नोऽर्जुनबाणौघैराचितः शल्यको यथा।
जीवितार्थमभिप्रेप्सुः कृपस्य रथमारुहत्।।

राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ।
धनञ्जयशरैर्नुन्नाः प्राद्रवन्त दिशो दश।।

द्रवतस्तान्समालोक्य राजा दुर्योधनो नृप।
निवर्तयामास तदा वाक्यमेतदुवाच ह।।

अलं द्रुतेन वः शूरास्तिष्ठध्वं क्षत्रियर्षभाः।
एष पार्थवधायाहं स्वयं गच्छामि संयुगे।
अहं पार्थान्हनिष्यामि सपाञ्चालान्ससोमकान्।।

अद्य मे युध्यमानस्य सह गाण्डीवधन्वना।
द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये।।

अद्य मद्बाणजालानि विमुक्तानि सहस्रशः।
द्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः।।

अद्य बाणमयं वर्षं सृजतो मम धन्विनः।
जीमूतस्येव घर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः।।

जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिः।
तिष्ठध्वं समरे शूरा भयं त्यजत फल्गुनात्।।

न हि मद्वीर्यमासाद्य फल्गुनः प्रसहिष्यति।
यथा वेलां समासाद्य सागरो मकरालयः।।

इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतः।
फल्गुनं प्रतिदुर्धर्षः क्रोधात्संरक्तलोचनः।।

तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदा।
अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह।।

एष राजा महाबाहुरमर्षी क्रोधमूर्च्छितः।
पतङ्गवृत्तिमास्थाय फल्गुनं योद्धुमिच्छति।।

यावन्नः पश्यमानानां प्राणान्पार्थेन संगतः।
न जह्यात्पुरुषव्याघ्रस्तावद्वारय कौरवम्।।

यावत्फल्गुनबाणानां गोचरं नाद्य गच्छति।
कौरवः पार्थिवो वीरस्तावद्वारय संयुगे।।

यावत्पार्थशरैर्घोरैर्निर्मुक्तोरगसन्निभैः।
न भस्मीक्रियते राजा तावद्युद्धान्निवार्यताम्।।

अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानद।
स्वयं युद्धाय यद्राजा पार्थं यात्यसहायवान्।।

दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना।
युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः।।

मातुलेनैवमुक्तस्तु द्रौणिः शस्त्रभृतां वरः।
दुर्योधनमिदं वाक्यं त्वरितः समभाषत।।

मयि जीवति गान्धारे न युद्धं गन्तुमर्हसि।
मामनादृत्य कौरव्य तव नित्यं हितैषिणम्।।

न हि सम्भ्रमः कार्यः पार्थस्य विजयं प्रति।
अहमावारयिष्यामि पार्थं तिष्ठ सुयोधन।।

दुर्योधन उवाच।

आचार्यः पाण्डुपुत्रान्वै पुत्रवत्परिरक्षति।
त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम्।।

मम वा मन्दभाग्यत्वान्मन्दस्ते विक्रमो युधि।
धर्मराजप्नियार्थं वा द्रौपद्या वा न विद्म तत्।।

धिगस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः।
सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः।।

को हि शस्त्रविदां मुख्यो महेश्वरसमो युधि।
शत्रुं न क्षपयेच्छक्तो यो न स्याद्गौतमीसुतः।।

अश्वत्थामन्प्रसीदस्व नाशयैतान्ममाहितान्।
तवास्त्रगोचरे शक्ताः स्थातुं देवा न दानवाः।।

पाञ्चालान्सोमकांश्चैव जहि द्रौणे सहानुगान्।
वयं शेषान्हनिष्यामस्त्वयैव परिरक्षिताः।।

एते हि सोमका विप्र पाञ्चालाश्च यशस्विनः।
मम सैन्येषु सङ्क्रुद्धा विचरन्ति दवाग्निवत्।।

तान्वारय महाबाहो केकयांश्च नरोत्तम।
पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना।।

अश्वत्थामंस्त्वरायुक्तो याहि शीघ्रमरिन्दम।
आदौ वा यदि वा पश्चात्तवेदं कर्म मारिष।।

त्वमुत्पन्नो महाबाहो पाञ्चालानां वधं प्रति।
करिष्यसि जगत्सर्वमपाञ्चालं किलोद्यतः।।

एवं सिद्धाऽब्रुवन्वाचो भविष्यति च तत्तथा।
तस्मात्त्वं पुरुषव्याघ्र पाञ्चालाञ्जहि सानुगान्।।

न तेऽस्त्रगोचरे शक्ताः स्थातुं देवाः सवासवाः।
किमु पार्थाः सपाञ्चालाः सत्यमेतद्ब्रवीमि ते।।

न त्वां समर्थाः सङ्ग्रामे पाण्डवाः सह सोमकैः।
बलाद्योधयितुं वीर सत्यमेतद्ब्रवीमि ते।।

गच्छगच्छ महाबाहो न नः कालात्ययो भवेत्।
इयं हि द्रवते सेना पार्तसायकपीडिता।।

शक्तो ह्यसि महाबाहो दिव्येन स्वेन तेजसा।
निग्रहे पाण्डुपुत्राणां पाञ्चालानां च मानद।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे षष्ट्यधिकशततमोऽध्यायः।। 160 ।।