द्रोणपर्व

अध्यायः १५७

Drona Parva (Sanskrit) · Adhyaya 157
अक्षर का आकार

सञ्जय उवाच।

प्रायोपविष्टे तु हते पुत्रे सात्यकिना तदा।
सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत्।।

क्षत्रधर्मः परो दृष्टो यस्तु देवैर्महात्मभिः।
तं त्वं सात्वत सन्तज्य दस्युधर्मे कथं रतः।।

पराङ्मुखाय दीनाय न्यस्तशस्त्राय याचते।
क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे।।

द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ।
प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत।।

कथं प्रायोपविष्टाय पार्थेन च्छिन्नबाहवे।
नृशंसं बत दीनं च तादृशं कृतवानसि।।

कर्ममस्तस्य दुर्वृत्त फलं प्राप्नुहि संयुगे।
अद्य छेत्स्यामि ते मूढ शिरो विक्रम्य पत्रिणा।।

शपे सात्वत पुत्राभ्यामिष्टेन सुकृतेन च।
अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम्।।

अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम्।
न हन्यां नरके घोरे पतेयं वृष्णिपांसन।।

एवमुक्त्वा सुसङ्क्रुद्धः सोमदत्तो महाबलः।
दध्मौ शङ्खं च तारेण सिंहनादं ननाद च।।

ततः कमलपत्राक्षः सिंहदंष्ट्रो दुरासदः।
सात्यकिर्भृशसङ्क्रुद्धः सोमदत्तमथाब्रवीत्।।

कौरवेय न मे त्रासः कथञ्चिदपि विद्यते।
त्वया सार्धमथान्यैश्च युध्यतो हृदि कश्चन।।

यदि सर्वेण सैन्येन गुप्तो मां योधयिष्यसि।
तथापि न व्यथा काचित्त्वयि स्यान्मम कौरव।।

युद्धसारेण वाक्येन असतां सम्मतेन च।
नाहं भीषयितुं शक्यः क्षत्रवृत्ते स्थितस्त्वया।।

यदि तेऽस्ति युयुत्साऽद्य मया सह नराधिप।
निर्दयो निशितैर्बाणैः प्रहर प्रहरामि ते।।

हतो भूरिश्रवा वीरस्तव पुत्रो महारथः।
शलश्चैव महाराज भ्रातृव्यसनकर्षितः।।

त्वां चाप्यद्य वधिष्यामि सहपुत्रं सबान्धवम्।
तिष्ठेदानीं रणे यत्तः कौरवोऽसि महारथः।।

यस्मिन्दानं दमः शौचमहिंसा हीर्धृतिः क्षमा।
अनपायानि सर्वाणि नित्यं राज्ञि युधिष्ठिरे।।

मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा।
सकर्णसौबलः सङ्ख्ये विनाशमुपयास्यसि।।

शपेऽहं कृष्णचरणैरिष्टापूर्तेन चैव ह।
यदि त्वां ससुतं पापं न हन्यां युधि रोषितः।।

अपयास्यसि चोत्त्यक्त्वा रणं मुक्तो भविष्यसि।।

एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ।
प्रवृत्तौ शरसम्पातं कर्तुं पुरुषसत्तमौ।।

ततो रथसहस्रेण नागानामयुतेन च।
दुर्योधनः सोमदत्तं परिवार्य व्यवस्थितः।।

शकुनिश्च सुसङ्क्रुद्धः सर्वशस्त्रभृतां वरः।
पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः।
श्यालस्तव महाबाहुर्वज्रसंहननो युवा।।

साग्रं शतसहस्रं तु हयानां तस्य धीमतः।
सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत।।

रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम्।
तं छाद्यमानं विशिखैर्दृष्ट्वा सन्नतपर्वभिः।।

धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम्।
`अभ्यरक्षन्महाबाहुः सात्वतं सत्यविक्रमम्'।।

चण्डवाताभिसृष्टानामुदधीनामिव स्वनः।
आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम्।।

विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः।
सात्यकिर्नवभिश्चैनमवधीत्कुरुपुङ्गवम्।।

सोऽतिविद्धो बलवता समरे दृढधन्विना।
रथोपस्थं समासाद्य मुमोह गतचेतनः।।

तं विमूढं समालक्ष्य सारथिस्त्वरयाऽन्वितः।
अपोवाह रणाद्वीरं सोमदत्तं महारथम्।।

तं विसंज्ञं समालक्ष्य युयुधानशरार्दितम्।
अभ्यद्रवत्ततो द्रोणो यदुवीरजिघांसया।।

तमायान्तमभिप्रेक्ष्य युधिष्ठिरपुरोगमाः।
परिवव्रुर्महात्मानं परीप्सन्तो यदूत्तमम्।।

ततः प्रववृते युद्धं द्रोणस्य सह पाण्डवैः।
बलेरिव सुरैः पूर्वं त्रैलोक्यजयकाङ्क्षया।।

ततः सायकजालेन पाण्डवानीकमावृणोत्।
भारद्वाजो महातेजा विव्याध च युधिष्ठिरम्।।

सात्यकिं दशभिर्बाणैर्विंशत्या पार्षतं शरैः।
भीमसेनं च नवभिर्नकुलं पञ्चभिस्तथा।।

सहदेवं तथाऽष्टाभिः शतेन च शिखण्डिनम्।
द्रौपदेयान्महाबाहुः पञ्चभिः पञ्जभिः शरैः।।

विराटं मत्स्यमष्टाभिर्द्रुपदं दशभिः शरैः।
युधामन्युं त्रिभिः षड्भिरुत्तमौजसमाहवे।
अन्यांश्च सैनिकान्विद्व्वा युधिष्ठिरमुपाद्रवत्।।

ते वध्यमाना द्रोणेन पाण्डुपुत्रस्य सैनिकाः।
प्राद्रवन्वै भयाद्राजन्सार्तनादा दिशो दश।।

काल्यमानं तु तत्सैन्यं दृष्ट्वा द्रोणेन फल्गुनः।
किञ्चिदागतसंरम्भो गुरुं पार्थोऽभ्ययाद्द्रुतम्।।

दृष्ट्वा द्रोणं तु बीभत्सुमभिधावन्तमाहवे।
सन्न्यवर्तत तत्सैन्यं पुनर्यौधिष्ठिरं बलम्।।

ततो युद्धमभूद्भूयो भारद्वाजस्य पाण्डवैः।।

द्रोणस्तव सुतै राजन्सर्वतः परिवारितः।
व्यधमत्पाण्डुसैन्यानि तूलराशिमिवानलः।।

तं ज्वलन्तमिवादित्यं दीप्तानलसमद्युतिम्।
राजन्ननिशमत्यन्तं दृष्ट्वा द्रोणं शरार्चिषम्।।

मण्डलीकृतधन्वानं तपन्तमिव भास्करम्।
दहन्तमहितान्सैन्ये नैनं कश्चिदवारयत्।।

योयो हि प्रमुखे तस्य तस्थौ द्रोणस्य पुरूषः।
तस्यतस्य शिरश्छित्त्वा ययुर्द्रोणशराः क्षितिम्।।

एवं सा पाण्डवी सेना वध्यमाना महात्मना।
प्रदुद्राव पुनर्भीता पश्यतः सव्यसाचिनः।।

सम्प्रभग्नं बलं दृष्ट्वा द्रोणेन निशि भारत।
गोविन्दमब्रवीज्जिष्णुर्गच्छ द्रोणरथं प्रति।।

ततो रजतगोक्षीरकुन्देन्दुसदृशप्रभान्।
चोदयामास दाशार्हो हयान्द्रोणरथं प्रति।।

भीमसेनोऽपि तं दृष्ट्वा यान्तं द्रोणाय फल्गुनम्।
स्वसारथिमुवाचेदं द्रोणानीकाय मां वह।।

सोऽपि तस्य वचः श्रुत्वा विशोकोऽवहयद्वयान्।
पृष्ठतः सत्यसन्धस्य जिष्णोर्भरतसत्तम।।

तौ दृष्ट्वा भ्रातरौ यत्तौ द्रोणानीकमभिद्रुतौ।
पाञ्चालाः सृञ्जया मात्स्याश्चेदिकारूशकोसलाः।
अन्वगच्छन्महाराज केकयाश्च महारथाः।।

ततो राजन्नभूद्वोरः सङ्ग्रामो रोमहर्षणः।।

बीभत्सुर्दक्षिणं पार्श्वमुत्तरं च वृकोदरः।
महद्भ्यां रथबृन्दाभ्यां बलं जगृहतुस्तव।।

तौ दृष्ट्वा पुरुषव्याघ्रौ भीमसेनधनञ्जयौ।
धृष्टद्युम्नोऽभ्ययाद्राजन्सात्यकिश्च महाबलः।।

चण्डवाताभिपन्नानामुदधीनामिव स्वनः।
आसीद्राजन्बलौघानां तदाऽन्योन्यमभिघ्नतां

सौमदत्तिवधात्क्रुद्धो दृष्ट्वा सात्यकिमाहवे।
द्रौणिरभ्यद्रवद्राजन्वधाय कृतनिश्चयः।।

तमापतन्तं सम्प्रेक्ष्य शैनेयस्य रथं प्रति।
भैमसेनिः सुसङ्क्रुद्धः प्रत्यमित्रमवारयत्।।

कार्ष्णायसं महाघोरमृक्षचर्मपरिच्छदम्।
महान्तं रथमास्थाय त्रिंशन्नल्वान्तरान्तरम्।।

विक्षिप्तयन्त्रसन्नाहं महामेघौघनिःस्वनम्।
युक्तं गजनिभैर्वाहैर्न हयैर्नापि वारणैः।।

विक्षिप्तपक्षचरणविवृताक्षेण कूजता।
ध्वजेनोच्छ्रितदण्डेन गृध्रराजेन राजितम्।।

लोहितार्द्रपताकं तु आन्त्रमालाविभूषितम्।
अष्टचक्रसमायुक्तमास्थाय विपुलं रथम्।।

शूलमुद्गरधारिण्या शैलपादपहस्तया।
रक्षसां घोररूपाणामक्षौहिण्या समावृतः।।

तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः।
युगान्तकालसमये दण्डहस्तमिवान्तकम्।।

ततस्तं गिरिशृङ्गाभं भीमरूपं भयावहम्।
दंष्ट्राकरालोग्रमुखं शङ्कुकर्णं महाहनुम्।।

ऊर्ध्वकेशं विरूपाक्षं दीप्तास्यं निम्नितोदरम्।
महाश्वभ्रगलद्वारं किरीटच्छन्नमूर्धजम्।।

त्रासनं सर्वभूतानां व्यात्ताननभिवान्तकम्।
वीक्ष्य दीप्तमिवायान्तं रिपुविक्षोभकारिणम्।।

तमुद्यतमहाचापं राक्षसेन्द्रं घटोत्कचम्।
भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी।
वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी।।

घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः।
प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम्।।

ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः।
सन्ध्याकालाधिकबलैः प्रयुक्ता राक्षसैः क्षितौ।।

आयसानि च चक्राणि भुशुण्ड्यः प्रासतोमराः।
पतन्त्यविरताः शूलाः शतघ्न्यः पट्टसास्तथा।।

तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः।
तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः।।

तत्रैकोऽस्त्रबलश्लाघी द्रौणिर्मानी न विव्यथे।
व्यधमच्च शरैर्मायां घटोत्कचविनिर्भिताम्।।

विहतायां तु मायायाममर्षी स घटोत्कचः।
विससर्ज शरान्घोरांस्तेऽश्वत्थामानमाविशन्।
भुजङ्गा इव वेगेन वल्मीकं क्रोधमूर्च्छिताः।।

ते शरा रुधिराक्ताङ्गा भित्त्वा शारद्वतीसुतम्।
विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः।।

अश्वत्थामा तु सङ्क्रुद्धो लघुहस्तः प्रतापवान्।
घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः।।

घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु।
चक्रं शतसहस्रारमगृह्णाद्व्यथितो भृशम्।।

क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम्।
अश्वत्थाम्नि स चिक्षेप भैमसेनिर्जिघांसया।।

वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः।
अभाग्यस्येव सङ्कल्पस्तन्मोघमपतद्भुवि।।

घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम्।
द्रौणिं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम्।।

घटोत्कचसुतः श्रीमान्भिन्नाञ्जनचयोपमः।
रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट्।।

पौत्रेण भीमसेनस्य शरैरञ्जनपर्वणा।
बभौ मेघेन धाराभिर्गिरिर्मेरुरिवावृतः।।

अश्वत्थामा त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः।
ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः।।

द्वाभ्यां तु रथयन्तारौ त्रिभिश्चास्य त्रिवेणुकम्।
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान्।।

विरथस्योद्यतं हस्ताद्धेमबिन्दुभिराचितम्।
विशिखेन सतीक्ष्णेन खङ्गमस्य द्विधाऽकरोत्।।

गदा हेमाङ्गदा राजंस्तूर्णं हैडिम्बिसूनुना।
भ्राम्योत्क्षिप्ताशरैःसापि द्रौणिनाभ्याहताऽपतत्।।

ततोऽन्तरिक्षमुत्प्लुत्य कालमेघ इवोन्नदन्।
ववर्षाञ्जनपर्वा स द्रुमवर्षं नभस्तलात्।।

ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि।
मार्गणैरभिविव्याध धनं सूर्य इवांशुभिः।।

सोऽवतीर्य पुरस्तस्थौ रथे हेमविभूषिते।
महीगत इवात्युग्रः श्रीमानञ्जनपर्वतः।।

तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम्।
जघानाञ्जनपर्वाणं महेश्वर इवान्धकम्।।

अथ दृष्ट्वा हतं पुत्रमश्वत्थाम्ना महाबलम्।
द्रौणेः सकाशमभ्येत्य रोषात्प्रस्फुरिताधरः।।

प्राह वाक्यमसम्भ्रान्तो वीरं शारद्वतीसुतम्।
दहन्तं पाण्डवानीकं वनमग्निमिवोच्छ्रितम्।।

घटोत्कच उवाच।

तिष्ठतिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि।
त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा।।

अश्वत्थामोवाच।

गच्छ वत्स सहान्यैस्त्वं युध्यस्वामरविक्रम।
न हि पुत्रेण हैडिम्ब पिता न्याय्यः प्रबाधितुम्।।

कामं खलु न रोषो मे हैडिम्बे विद्यते त्वयि।
किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत।।

सञ्जय उवाच।

श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकसमन्वितः।
अश्वत्थामानमायस्तो भैमसेनिरभाषत।।

किमहं कातरो द्रौणे पृथग्जन इवाहवे।।
यन्मां भीषयसे वाग्भिरसदेतद्वचस्तव।।

भीमात्खलु समुत्पन्नः कुरूणां विपुले कुले।
पाण्डवानामहं पुत्रः समरेष्वनिवर्तिनाम्।।

रक्षसामधिराजोऽहं दशग्रीवसमो बले।
तिष्ठतिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि।।

युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे।।

इत्युक्त्वा क्रोधताम्राक्षो राक्षसः सुमहाबलः।
द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी।।

रथाक्षमात्रैरिषुभिरभ्यवर्षद्धटोत्कचः।
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः।।

शरवृष्टिं शरैर्द्रौणिरप्राप्तां तां व्यशातयत्।
ततोन्तरिक्षे बाणानां सङ्ग्रामोऽन्य इवाभवत्।।

अथास्त्रसम्मर्दकृतैर्विस्फुलिङ्गैस्तदा बभौ।
विभावरीमुखे व्योम खद्योतैरिव चित्रितम्।।

निशाम्य निहतां मायां द्रौणिना रणमानिना।
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः।।

सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसङ्कटैः।
शूलप्रासासिमुसलजलप्रस्रवणो महान्।।

तमञ्जनगिरिप्रख्यं द्रौणिर्दृष्ट्वा महीधरम्।
प्रपतद्भिश्च बहुभिः शस्त्रसङ्घैर्न विव्यथे।।

ततो हसन्निव द्रौणिर्वज्रमस्त्रमुदैरयत्।
स ते नास्त्रैण शैलेन्द्रः क्षिप्तः क्षिप्रं व्यनश्यत।।

ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि।
अश्मवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद्रणे।।

अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः।
व्यधमद्द्रोणतनयो नीलमेघं समुत्थितम्।।

स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वशः।
शतं रथसहस्राणां जघान द्विपदां वरः।।

स दृष्ट्वा पुनरायान्तं रथेनायतकार्मुकम्।
घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम्।।

सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः।
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि।।

विकृतास्यशिरोग्रीवैर्हिडिम्बानुचरैः सह।
पौलस्त्यैर्यातुधानैश्च तामसैश्चेन्द्रविक्रमैः।।

नानाशस्त्रधरैर्वीरैर्नानाकवचभूषणैः।
महाबलैर्भीमरवैः संरम्भोद्वृत्तलोचनैः।।

उपस्थितैस्ततो युद्धे राक्षसैर्युद्धदुर्मदैः।
विषण्णमभिसम्प्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत्।।

तिष्ठ दुर्योधनाद्य त्वं न कार्यः सम्भ्रमस्त्वया।
सहैभिर्भ्रातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः।।

निहनिष्याम्यमित्रांस्त न तवास्ति पराजयः।
सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम्।।

दुर्योधन उवाच

न त्वेतदद्भुतं मन्ये यत्ते महदिदं मनः।
अस्मासु च परा भक्तिस्तव गौतमिनन्दन।।

सञ्जय उवाच।

अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत्।
वृतं रथसहस्रेण हयानां रणशोभिनाम्।।

षष्ट्या रथसहस्रैश्च प्रयाहि त्वं धनञ्जयम्।
कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च।।

उदीच्याः कृतवर्मा च पुरुमित्रः सुतापनः।
दुःशासनो निकुम्भश्च कुण्डभेदी पराक्रमः।।

पूरञ्जयो दृढरथः पताकी हेमकम्पनः।
शल्यारुणीन्द्रसेनाश्च सञ्जयो विजयो जयः।।

कमलाक्षः परक्राथी जयवर्मा सुदर्शनः।
एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट्।।

जहि भीमं यमौ चोभौ धर्मराजं च मातुल।
असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता।।

दारितान्द्रौणिना बाणैर्भृशं विक्षतविग्रहान्।
जहि मातुल कौन्तेयानसुरानिव पावकिः।।

सञ्जय उवाच।

एवमुक्तो ययौ शीघ्रं पुत्रेण तव सौबलः।
पिप्रीषुस्ते सुतान्राजन्दिधक्षुश्चैव पाण्डवान्।।

अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे।
विभावर्यां सुतुमुलं शक्रप्रह्लादयोरिव।।

ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम्।
जघानोरसि सङ्क्रुद्धौ विषाग्निप्रतिमैर्दृढैः।।

स तैरभ्याहतो गाढं शरैर्भीमसुतेरितैः।
चचाल रथमध्यस्थो वातोद्धूत इव द्रुमः।।

भूयश्चाञ्जलिकेनाथ मार्गणेन महाप्रभम्।
द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः।।

ततोऽन्यद्द्रौणिरादय धनुर्भारसहं महत्।
ववर्ष विशिखांस्तीक्ष्णान्वारिधारा इवाम्बुदः।।

ततः शारद्वतीपुत्रः प्रेषयामास भारत।
सुवर्णपुङ्खाञ्छत्रुघ्नान्खचरान्खचरं प्रति।।

तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम्।
सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम्।।

विधम्य राक्षसान्बाणैः साश्वसूतरथद्विपान्।
ददाह भगवान्वह्निर्भूतानीव युगक्षये।।

स दग्ध्वाऽक्षौहिणीं बामैर्नैर्ऋतीं रुरुचे नृप।
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः।।

युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्बणः।
रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान्।।

ततो घटोत्कचः क्रुद्धो रक्षसां भीमकर्मणाम्।
द्रौणिं हतेति महतीं चोदयामास तां चमूम्।।

घटोत्कचस्य तामाज्ञां प्रतिगृह्याथ राक्षसाः।
दंष्ट्रोज्ज्वला महावक्त्रा घोररूपा भयानकाः।।

व्यात्तानना घोरजिह्वाः क्रोधताम्रेक्षणा भृशम्।
सिंहनादेन महता नादयन्तो वसुन्धराम्।।

हन्तुमभ्यद्रवन्द्रौणिं नानाप्रहरणायुधाः।
शक्तीः शतघ्नीः परिघानशनीः शूलपट्टशान्।।

खङ्गान्गदाभिण्डिपालान्मुसलानि परश्वथान्।
प्रासानसींस्तोमरांश्च कणपान्कम्पनाञ्छितान्।।

स्थूलान्भुशुण्ड्यश्मगदास्थूणान्कार्ष्ण्यायसांस्तथा।
मुद्गराँश्च महाघोरान्समरे शत्रुदारणान्।।

द्रौणिमूर्धन्यसन्त्रस्ता राक्षसा भीमविक्रमाः।
चिक्षिपुः क्रोधताम्राक्षाः शतशोऽथ सहस्रशः।।

तच्छस्त्रवर्षं सुमहद्द्रोणपुत्रस्य मूर्धनि।
पतमानं समीक्ष्याऽथ योधास्ते व्यथिताऽभवन्।।

द्रोणपुत्रस्तु विक्रान्तस्तद्वर्षं घोरमुच्छ्रितम्।
शरैर्विध्वंसयामास वज्रकल्पैः शिलाशितैः।।

ततोऽन्यैर्विशिखैस्तूर्णं स्वर्णपुङ्खैर्महामनाः।
निजघ्ने राक्षसान्द्रौणिर्दिव्यास्त्रप्रतिमन्त्रितैः।।

तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम्।
सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम्।।

ते राक्षसाः सुसङ्क्रुद्धा द्रोणपुत्रेण ताडिताः।
क्रुद्धाः स्म प्राद्रवन्द्रौणिं जिघांसन्तो महाबलः।।

तत्राद्भुतमिमं द्रौणिर्दर्शयामास विक्रमम्।
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत।।

यदेको राक्षसीं सेनां क्षणाद्द्रौणिर्महास्त्रवित्।
ददाह ज्वलितैर्बाणै राक्षसेन्द्रस्य पश्यतः।।

स हत्वा राक्षसानीकं रराज द्रौणिराहवे।
युगान्ते सर्वभूतानि संवर्तक इवानलः।।

तं दहन्तमनीकानि शरैराशीविषोपमैः।
तेषु राजसहस्रेषु पाण्डवेयेषु भारत।।

नैनं निरीक्षितुं कश्चिदशक्नोद्द्रौणिमाहवे।
ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात्।।

स पुनर्भरतश्रेष्ठ क्रोधादुद्धान्तलोचनः।
तलं तलेन संहत्य सन्दश्य दशनच्छदम्।।

स्व सूतमब्रवीत्क्रुद्धो द्रोणपुत्राय मां वह।
स ययौ घोररूपेण सुपताकेन भास्वता।।

द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः।
स विनद्य महानादं सिंहवद्भीमविक्रमः।।

चिक्षेपाविद्ध्य सङ्ग्रामे द्रोणपुत्राय राक्षसः।
अष्टघण्टां महाघोरामशनिं देवनिर्मिताम्।।

तामवप्लुत्य जग्राह द्रौणिर्न्यस्य रथे धनुः।
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवप्लुप्लुवे।।

साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा।
विवेश वसुधां भित्त्वा साऽशनिर्भृशदारुणा।।

द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन्।
यदप्लुत्य जग्राह घोरां शङ्करनिर्मिताम्।।

धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप।
धनुर्घोरं समादाय महदिन्द्रायुधोपमम्।
मुमोच निशितान्बाणान्पुनर्द्रौणेर्महोरसि।।

धृष्टद्युम्नस्त्वसम्भ्रान्तो मुमोचाशीविषोपमान्।
सुवर्णपुङ्खान्विशिखान्द्रोणपुत्रस्य वक्षसि।।

ततो मुमोच नाराचान्द्रौणिस्तांश्च सहस्रशः।
तावप्यग्निशिखप्रख्यैर्जुघ्नतुस्तस्य मार्गणान्।।

अतितीव्रं महद्युद्धं तयोः पुरुषसिंहयोः।
योधानं प्रीतिजननं द्रौणेश्च भरतर्षभ।।

ततो रथसहस्रेण द्विरदानां शतैस्त्रिभिः।
षड्भिर्वाजिसहस्रैश्च भीमस्तं देशमागमत्।।

ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम्।
अयोधयत धर्मात्मा द्रौणिरक्लिष्टविक्रमः।।

तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम्।
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत।।

निमेषान्तरमात्रेण साश्वसूतरथद्विपाम्।
अक्षौहिणीं राक्षसानां शितैर्बाणैरशातयत्।।

मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च।
यमयोर्धर्मपुत्रस्य विजयस्याच्युतस्य च।।

प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः।
निपेतुर्द्विरदा भूमौ सशृङ्गा इव पर्वताः।।

निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः।
रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः।।

क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ।
द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये।।

प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम्।।
छत्रहंसावलीजुष्टां फेनचामरमालिनीम्।।

कङ्कगृघ्रमहाग्राहां नैकायुधझषाकुलाम्।
विस्तीर्णगजपाषाणां हताश्वमकराकुलाम्।।

रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम्।
शरमीनां महारौद्रां प्रासशक्त्यृष्टिडुण्डुभाम्।।

मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम्।
केशशैवलकल्माषां भीरूणां कश्मलावहाम्।।

नागेन्द्रहययोधानां शरीरव्ययसम्भवाम्।
शोणितौघमहाघोरां द्रौणिः प्रावर्तयन्नदीम्।।

योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम्।
प्रयान्तीं सुमहाघोरां यमराष्ट्रमहोदधिम्।।

निहत्य राक्षसान्बाणैर्द्रौणिर्हैडिम्बिमार्दयत्।
पुनरप्यतिसङ्क्रुद्धः सवृकोदरपार्षतान्।।

स नाराचगणैः पार्थान्द्रौणिर्विद्धा महाबलः।
जघान सुरथं नाम द्रुपदस्य सुतं विभुः।।

पुनः शत्रुञ्जयं नाम द्रुपदस्यात्मजं रणे।
बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान्।।

श्रुताह्वयं च राजानं द्रौणिर्निन्ये यमक्षयम्।
त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुङ्खैर्हेममालिनम्।।

जघान स पृषध्रं च चन्द्रसेनं च मारिष।
कुन्तिभोजसुतांश्चासौ दशभिर्दश जघ्निवान्।।

अस्वत्थामा सुसङ्क्रुद्धः सन्धायोग्रमजिह्मगम्।
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम्।
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम्।।

स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः।
विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते।।

तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः।
द्रौणेः सकाशाद्राजेन्द्र व्यपनिन्ये रथोत्तमम्।।

ततः पराङ्मुखनृपं सैन्यं यौधिष्ठिरं नृप।
पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह।
पूजितः सर्वभूतेषु तव पुत्रैश्च भारत।।

अथ शरशतभिन्नकृत्तदेहै--
र्हतपतितैः क्षणदाचरैः समन्तात्।
निधनमुपगतैर्मही कृताऽभू--
द्गिरिशिखरैरिव दुर्गमाऽतिरौद्रा।।

तं सिद्धगन्धर्वपिशाचसङ्घा
नागाः सुपर्णाः पितरो वयांसि।
रक्षोगणा भूतगणाश्च द्रौणि--
मपूजयन्नप्सरसः सुराश्च।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे सप्तपञ्चाशदधिकशततमोऽध्यायः।। 157 ।।