द्रोणपर्व

अध्यायः १५६

Drona Parva (Sanskrit) · Adhyaya 156
अक्षर का आकार

धृतराष्ट्र उवाच।

तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि।
अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा।।

दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम।
यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत।।

निहते सैन्धवे वीरे भूरिश्रवसि चैव ह।
यदाऽभ्यगान्महातेजाः पाञ्चालानपराजितः।।

किममन्यत दुर्धर्षे प्रविष्टे शत्रुतापने।
दुर्योधनस्तु किं कृत्यं प्राप्तकालममन्यत।।

के च तं वरदं वीरमन्वयुर्द्विजसत्तमम्।
के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः।
के पुरस्तादवर्तन्त निघ्नन्तः शास्त्रवान्रणे।।

मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान्।
शिशिरे कम्पमाना वै कृशा गाव इव प्रभो।।

प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः।
कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान्।।

सर्वेषु योधेषु च सङ्गतेषु
रात्रौ समेतेषु महारथेषु।
संलोड्यमानेषु पृथग्बलेषु
के वस्तदानीं मतिमन्त आसन्।।

हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि।
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान्।।
तेषां संलोड्यमानानां पाण्डवैर्हतचेतसाम्।
अन्धे तमसि मग्नानामभवत्का मतिस्तदा।।

प्रहृष्टांश्चाप्युदग्रांश्च सन्तुष्टांश्चैव पाण्डवान्।
शंससीहाप्रहृष्टांश्च विभ्रष्टांश्चैव मामकान्।।

कथमेषां तदा तत्र पार्थानामपलायिनाम्।
प्रकाशमभवद्रात्रौ कथं कुरुषु सञ्जय।।

सञ्जय उवाच।

रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे।
द्रोणमभ्यद्रवन्सर्वे पाण्डवाः सह सोमकैः।।

ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान्।
सम्प्रैषयत्प्रेतलोकं सर्वानिषुभिराशुगैः।।

तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः।
तान्सर्वान्प्रेषयामास पितृलोकं स भारत।।

प्रमथ्नन्तं तदा वीरान्भारद्वाजं महारथम्।
अभ्यवर्तत सङ्क्रुद्धः शिबी राजा प्रतापवान्।।

तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथम्।
विव्याध दशभिर्द्रोणः सर्वपारशवैः शितैः।।

तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः।
सारथिं चास्य भुल्लेन स्मयमानो न्यपातयत्।।

तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः।
अथाऽस्य सशिरस्त्राणं शिरः कायादपाहरत्।।

ततोऽस्य सारथिं क्षिप्रमन्यं दुर्योधनोऽदिशत्।
स तेन सङ्गृहीताश्वः पुनरभ्यद्रवद्रिपून्।।

कलिङ्गानामनीकेन कालिङ्गस्य सुतो रणे।
पूर्वं पितृवधात्क्रुद्धौ भीमसेनमुपाद्रवत्।।

स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः।
विशोकं त्रिभिरानर्च्छद्वजमेकेन पत्रिणा।।

कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः।
रथाद्रथमभिद्रुत्य मुष्टिनाऽभिजघान ह।।

तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा।
सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक्।।

`तस्मिन्हते तदा तेन सिंहनादो महानभूत्।
पाञ्चालानां महाराज साधुसाध्विति पाण्डवम्'।।

तं कर्णो भ्रातरश्चास्य नामृष्यन्त परन्तप।
ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः।।

ततः शत्रुरथं त्यक्त्वा भीमो द्रुमरथं गतः।
द्रुमं चास्यन्तमनिशं मुष्टिना समपोथयत्।।

`यथा काचमणिर्न्यस्तो मुष्टिनैकेन लीलया।
स हतः सर्वथा चूर्णो रक्तमेवोदपद्यत।।

तथा चूर्णमभूत्तत्र कर्णभ्राता द्रुमस्तथा'।
स तदा पाण्‍डुपुत्रेण बलिनाऽभिहतोऽपतत्।।

तं निहत्य महाराज भीमसेनो महाबलः।
जयरातरथं प्राप्य मुहुः सिंह इवानदत्।।

जयरातं तु चरणे गृह्य भीमो महाबलः।
सूतं चास्य महाबाहुर्गृह्य राजंस्तथैव च।।

पादयोर्गृह्य तौ वीरौ भीमः कर्णस्य पश्यतः।
भूमावाविद्ध्य जघ्ने स तौ च प्राणैर्व्ययुज्यताम्।।

कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत्।
ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः।।

कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः।
तामापतन्तीं चिच्छेद शकुनिस्तैलपायिना।।

एतत्कृत्वा महत्कर्म रणेऽद्भुतपराक्रमः।
पुनः स्वरथमास्थाय दुद्राव तव वाहिनीम्।।

तमायान्तं जिघांसन्तं भीमं क्रुद्धमिवान्तकम्।
न्यवारयन्महाबाहुं तव पुत्रा विशाम्पते।
महता शरवर्षेण च्छादयन्तो महारथाः।।

दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे।
सारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम्।।

दुर्मदस्तु ततो यानं दुष्कर्णस्यावचक्रमे।
तावेकरथमारूढौ भ्रातरौ परतापनौ।

सङ्ग्रामशिरसो मध्ये भीमं द्वावप्यधावताम्।
यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम्।।

ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ।
रथमेकं समारुह्य भीमं बाणैरविध्यताम्।।

ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च।
कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः।।

दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम्।
पादप्रहारेण धरां प्रावेशयदरिन्दमः।।

ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ।
मुष्टिनाऽऽहत्य सङ्क्रुद्धौ ममर्द चरणेन ह।।

ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाऽब्रुवन्।
रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु युध्यति।।

एवमुक्त्वा पलायन्ते सर्वे भारत पार्थिवाः।
विसंज्ञा वाहयन्वाहान्न च द्वौ सह धावतः।।

ततो बले भृशलुलिते निशामुखे
सुपूजितो नृपवृषभैर्वृकोदरः।
महाबलः कमलविबुद्धलोचनो
युधिष्ठिरं नृपतिमपूजयद्बली।।

ततो यमौ द्रुपदविराटकेकया
युधिष्ठिरश्चापि परां मुदं ययुः।
वृकोदरं भृशमनुपूजयंश्च ते
यथान्धके प्रतिनिहते हरं सुराः।।

ततः सुतास्ते वरुणात्मजोपमा
रुपान्विताः सह गुरुणा महात्मना।
वृकोदरं सरथपदातिकुञ्जरा
युयुत्सवो भृशमभिपर्यवारयन्।।

`ततो यमौ द्रुपदसुताः ससैनिका
युधिष्ठिरद्रुपदविराटसात्वताः।
घटोत्कचो जयविजयौ द्रुमो वृकः
ससृञ्जयास्तव तनयानवारयन्'।।

ततोऽभवत्तिमिरघनैरिवावृते
महाभये भयदमतीव दारुणम्।
निशामुखे वृकबलगृध्रमोदनं
महात्मना नृपवर युद्धमद्भुतम्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे षट्‌पञ्चाशदधिकशततमोऽध्यायः।। 156 ।।