द्रोणपर्व
अध्यायः १५५
धृतराष्ट्र उवाच।
यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो बली।
उक्ता दुर्योधनं मन्दं मम शास्त्रातिगं सुतम्।।
प्रविश्य विचरन्तं च रथे शूरमवस्थितम्।
कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन्।।
केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महाहवे।
के चोत्तरमरक्षन्त निघ्नतः शास्त्रवान्बहून्।।
के चास्य पृष्ठतोऽन्वासन्वीरा वीरस्य योधिनः।
के पुरस्तादवर्तन्त रथिनस्तस्य शत्रवः।।
मन्ये तानस्पृशच्छीतमतिवेलमनार्तवम्।
मन्ये ते समवेपन्त गावो वै शिशिरे यथा।।
यत्प्राविशन्महेष्वासः पाञ्चालानपराजितः।
नृत्यन्स रथमार्गेषु सर्वशस्त्रभृतां वरः।।
निर्दहन्सर्वसैन्यानि पाञ्चालानां रथर्षभः।
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान्।।
सञ्जय उवाच।
सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च।
सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम्।।
तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः।
पृथक्चमूभ्यां संयत्तौ द्रोणमेवाभ्यधावताम्।।
तथैव नकुलो धीमान्सहदेवश्च दुर्जयः।
धृष्टद्युम्नः शतानीको विराटश्च सकेकयः।
मात्स्याः साल्वाः ससेनाश्च द्रोणमेव ययुर्युधि।।
द्रुपदश्च तथा राजा पाञ्चालैरभिरक्षितः।
धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत।।
द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः।
ससैन्यास्ते न्यवर्तन्त द्रोणमेव महाद्युतिम्।।
प्रभद्रकाश्च पाञ्चालाः षट्सहस्राः प्रहारिणः।
द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम्।।
तथेतरे नरव्याघ्राः पाण्डवानां महारथाः।
सहिताः सन्न्यवर्तन्त द्रोणमेव द्विजर्षभम्।।
तेषु शूरेषु युद्धाय गतेषु भरतर्षभ।
बभूव रजनी घोरा भीरूणां भयवर्धिनी।।
योधानामशिवा रौद्रा राजन्नन्तकगामिनी।
कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा।।
तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः।
न्यवेदयन्भयं घोरं सज्वालकबलैर्मुखैः।।
उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम्।
विशेषतः कौरवाणां ध्वजिन्यामतिदारुणाः।।
ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान्।
भेरीशब्देन महता मृदङ्गानां स्वनेन च।।
गजानां बृंहितैश्चापि तुरङ्गाणां च हेषितैः।
खुरशब्दनिपातैश्च तुमुलः सर्वतोऽभवत्।।
ततः समभवद्युद्धं सन्ध्यायामतिदारुणम्।
द्रोणस्य च महाराज सृञ्जयानां च सर्वशः।।
तमसा चावृते लोके न प्राज्ञायत किञ्चन।
सैन्येन रजसा चैव समन्तादुत्थितेन ह।।
नरस्याश्वस्य नागस्य समसज्जत शोणितम्।
नापश्याम रजो भौमं कश्मलेनाभिसंवृताः।।
रात्रौ वंशवनस्येव दह्यमानस्य पर्वते।
घोरश्चटचटाशब्दः शस्त्राणां पततामभूत्।।
मृदङ्गानकनिर्ह्रादैर्झर्झरैः पटहैस्तथा।
फेत्कारैर्हेषितैः शब्दैः सर्वमैवाकुलं बभौ।।
नैव स्वे न परे राजन्प्राज्ञायन्त तमोवृते।
उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे।।
भौमं रजोऽथ राजेन्द्र शोणितेन प्रणाशितम्।
शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽनशत्।।
ततः सा भारती सेना मणिहेमविभूषिता।
द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ।।
गोमायुबलसङ्घुष्टा शक्तिध्वजसमाकुला।
वारणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता।।
तत्राभवन्महाशब्दस्तुमुलो रोमहर्षणः।
समावृण्वन्दिशः सर्वा महेन्द्राशनिनिःस्वनः।।
सा निशीथे महाराज सेनाऽदृश्यत भारती।
अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता।।
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः।
निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः।।
ऋष्टिशक्तिगदाबाणमुसलप्रासपट्टसाः।
सम्पतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः।।
दुर्योधनपुरोवातां रथनागवलाहकाम्।
वादित्रघोषस्तनितां चापविद्युद्व्वजैर्वृताम्।।
द्रोणपाण्डवपर्जन्यां खङ्गशक्तिगदाशनिम्।
शरधारास्त्रपवनां शस्त्रपातोष्मसङ्कुलाम्।।
घोरां विस्मापनीमुग्रां जीवितच्छिदमप्लुवाम्।
तां प्राविशन्नतिभयां नदीं युद्धचिकीर्षवः।।
तस्मिन्रात्रिमुखे घोरे महाशब्दनिनादिते।
भीरूणां त्रासजनने शूराणां हर्षवर्धने।।
रात्रियुद्धे महाघोरे वर्तमाने सुदारुणे।
द्रोणमभ्यद्रुवन्क्रुद्धाः सहिताः पाण्डुसृञ्जयाः।।
ये ये प्रमुखतो राजन्नावर्तन्त महारथाः।
तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षयम्।।
तानि नागसहस्राणि रथानामयुतानि च।
पदातिहयसङ्घानां प्रयुतान्यर्बुदानि च।
द्रोणेनैकेन नाराचैर्निर्भिन्नानि निशामुखे।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे पञ्चपञ्चाशदधिकशततमोऽध्यायः।। 155 ।।