द्रोणपर्व

अध्यायः १५२

Drona Parva (Sanskrit) · Adhyaya 152
अक्षर का आकार

धृतराष्ट्र उवाच।

सिन्धुराजे हते तात समरे सव्यसाचिना।
तथैव भूरिश्रवसि किमासीद्वो मनस्तदा।।

दुर्योधनेन च द्रोणस्तथोक्तः कुरसंसदि।
किमुक्तवान्परं तस्मात्तन्ममाचक्ष्व सञ्जय।।

सञ्जय उवाच।

निष्टानको महानासीत्सैन्यानां तव भारत।
सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च।।

मन्त्रितं तव पुत्रस्य ते सर्वमवमेनिरे।
येन मन्त्रैण निहताः शतशः क्षत्रियर्षभाः।।

द्रोणस्तु तद्वचः श्रुत्वा पुत्रस्य तव दुर्मनाः।
मुहूर्तमिव च ध्यात्वा भृशमार्तोऽभ्यभाषत।।

द्रोण उवाच।

दुर्योधन किमेवं मां वाक्शरैरुपकृन्तसि।
अजय्यं सततं सङ्ख्ये ब्रुवाणं सव्यसाचिनम्।।

एतेनवार्जुनं ज्ञातुमलं कौरव संयुगे।
यच्छिखण्ड्यवधीद्भीष्मं पाल्यमानः किरीटिना।।

अवध्यं निहतं दृष्ट्वा संयुगे देवदानवैः।
तदैवाज्ञासिषमहं नेयमस्तीति भारती।।

यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्म हि।
तस्मिन्निपतिते भीष्मे कं शेषं पर्युपास्महे।।

यान्स्म तान्ग्लहते तात शकुनिः कुरुसंसदि।
अक्षान्न तेऽक्षा निशिता बाणास्ते शत्रुतापनाः।

`अक्षांस्तु मन्यसे बाणाञ्छोभमानाञ्छिताञ्शरान्'
त एते घ्नन्ति नस्तात विशिखाः पार्थचोदिताः।
तांस्तदाऽऽख्यायमानस्त्वं विदुरेण न बुद्धवान्।।

यास्ता विलपतश्चापि विदुरस्य महात्मनः।
धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः।।

तदिदं वर्तते घोरमागतं वैशसं महत्।
तस्यावमानाद्वाक्यस्य दुःशासनकृतेन च।।

योऽवमन्य वचः पथ्यं सुहृदामाप्तकारिणाम्।
स्वमतं कुरुते मूढः स शोच्यो नचिरादिव।।

यच्च नः प्रेक्षमाणानां कृष्णामानाय्य तत्सभाम्।
अनर्हन्तीं कुले जातां सर्वधर्मानुचारिणीम्।।

तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं महत्।
नोचेत्पापं परे लोके त्वमृच्छेथास्ततोऽधिकम्।।

यच्च तान्पाण्डवान्द्यूते विषमेण विजित्य ह।
प्राव्राजयस्तदाऽरण्ये रौरवाजिनवाससः।।

पुत्राणामिव चैतेषां धर्ममाचरतां सदा।
द्रुह्येत्को नु नरो लोके मदन्यो ब्राह्मणब्रुवः।।

पाण्डवानामयं कोपस्त्वया शकुनिना सह।
आहृतो धृतराष्ट्रस्य सम्मते कुरु संसदि।।

दुःशासनेन संयुक्तः कर्णेन परिवर्धितः।
क्षत्तुर्वाक्यमनादृत्य त्वयाऽब्यस्तः पुनः पुनः।।

`स हि नः क्रोधवृक्षश्च कृतमूलो महात्मनाम्।
तस्य पुष्पफले राजन्नुपभुङ्क्ष्व महाबल'।।

यत्ताः सर्वे पराभूताः पर्यवारयतार्जुनम्।
सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः।।

कथं त्वयि च कर्णे च कृपे शल्ये च जीवति।
अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत्।।

युध्यन्तः सर्वराजानस्तेजस्विन उपासते।
सिन्धुराजं परित्रातुं वो मध्ये कथं हतः।।

मय्येव हि विशेषेण तथा दुर्योधन त्वयि।
आशंसत परित्राणमर्जुनात्स महीपतिः।।

ततस्तस्मिन्परित्राणमलब्धवति फल्गुनात्।
न किञ्चिदनुपश्यामि जीवितस्थानमात्मनः।।

मज्जन्तमिव चात्मानं धृष्टद्युम्नस्य संयुगे।
पश्याम्यहत्वा पाञ्चालान्सह तेन शिखण्डिना।।

तन्मां किमभितप्यन्तं वाक्शरैरेव कृन्तसि।
अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत।।

सौवर्णं सत्यसन्धस्य ध्वजमक्लिष्टकर्मणः।
अपश्यन्युधि भीष्मस्य कथमाशंससे जयम्।।

मध्ये महारथानां किं शेषं तत्र मन्यसे।
हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे।।

कृप एव च दुर्धर्षो यदि जीवति पार्थिव।
यो नागात्सिन्धुराजस्य वर्त्म तं पूजयाम्यहम्।।

यत्रापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै।
दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम्।।

अवध्यकल्पं सङ्ग्रामे देवैरपि सवासवैः।
न ते वसुन्धराऽस्तीति तदाहं चिन्तये नृप।।

इमानि पाण्डवानां च सृज्जयानां च भारत।
अनीकान्याद्रवन्ते मां सहितान्यद्य भारत।।

नाहत्वा सर्वपाञ्चलान्कवचस्य विमोक्षणम्।
कर्ताऽस्मि समरे कर्म धार्तराष्ट्र हितं तव।।

राजन्ब्रूयाः सुतं मे त्वमश्वत्थामानमाहवे।
न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता।।

यच्च पित्राऽनुशिष्टोऽसि तद्वचः परिपालय।
आनृशंस्ये दमे सत्ये चार्जवे च स्थिरो भव।।

धर्मार्थकामकुशलो धर्मार्थावप्यपीडयन्।
धर्मप्रधानकार्याणि कुर्याश्चेति पुनः पुनः।।

चक्षुर्मनोभ्यां सन्तोष्या विप्राः पूज्याश्च शक्तितः।
न चैषां विप्रियं कार्यं ते हि वह्निशिखोपमाः।।

एष त्वहमनीकानि प्रविशाम्यरिसूदन।
रणाय महते राजंस्त्वया वाक्शरपीडितः।।

त्वं च दुर्योधन बलं यदि शक्तोऽसि पालय।
रात्रावपि च योद्धव्याः संरब्धाः कुरुसृञ्जयाः।।

एवमुक्त्वा ततः प्रायाद्द्रोणः पाण्वसृञ्जयान्।
मुष्णन्क्षत्रियतेजांसि नक्षत्राणामिवांशुमान्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे द्विपञ्चाशदधिकशततमोऽध्यायः।। 152 ।।