द्रोणपर्व
अध्यायः १५३
सञ्जय उवाच।
ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः।
अमर्षवशमापन्नो युद्धायैव मनो दधे।
अब्रवीच्च तदा कर्णं पुत्रो दुर्योधनस्तव।।
पश्य कृष्णसहायेन पाण्डवेन किरीटिना।
आचार्यविहितं व्यूहं भित्त्वा देवैः सुदुर्भिदम्।।
तव व्यायच्छमानस्य द्रोणस्य च महात्मनः।
मिषतां योधमुख्यानां सैन्धवो विनिपातितः।।
पश्य राधेय पृथ्वीशाः पृथिव्यां प्रवरा युधि।
पार्थेनैकेन निहताः सिंहेनेवेतरे मृगाः।।
मम व्यायच्छमानस्य समरे शत्रुसूदन।
अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह।।
कथं वै युध्यमानस्य द्रोणस्य युधि फल्गुनः।
भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे।।
प्रतिज्ञाया गतः पारं हत्वा सैन्धवमर्जुनः।।
पश्य राधेय पृथ्वीशान्पृथिव्यां पातितान्बहून्।
पार्थेन निहतान्सङ्ख्ये महेन्द्रोपमविक्रमान्।।
अनिच्छतः कथं वीर द्रोणस्य युधि पाण्डवः।
भिन्द्यात्सुदुर्भिदं व्यृहं यतमानस्य शुप्मिणः।।
दयितः फल्गुनो नित्यमाचार्यस्य महात्मनः।
ततोऽस्य दत्तवान्द्वारमयुद्धेनैव शत्रुहन्।।
अभयं सिन्धुराजाय दत्त्वा द्रोणः परन्तपः।
प्रादात्किरीटिने द्वारं पश्यन्निर्गुणतां मयि।।
यद्यदास्यदनुज्ञां वै पूर्वमेव गृहान्प्रति।
प्रम्थातुं सिन्धुराजस्य न भवेज्जीवितक्षयः।।
जयद्रथो जीवितार्थी गच्छमानो गृहान्प्रति।
मयाऽनार्येण संरुद्धो द्रोणात्प्राप्याभयं रणे।।
`रक्षामि सैन्धवं युद्धे नैनं प्राप्स्यति फल्गुनः।
मम सैन्यविनाशाय रुद्धो विप्रेण सैन्धवः।।
तस्य मे मन्दभाग्यस्य यतमानस्य संयुगे।
हतानि सर्वसैन्यानि हतो राजा जयद्रथः।।
पश्य योधवरान्कर्ण शतशोऽथ सहस्रशः।
पार्थनामाङ्कितैर्वाणैः सर्वे नीता यमक्षयम्।।
कथमेकरथेनाजौ बहूनां नः प्रपश्यताम्।
विपन्नः सैन्धवो राजा योधाश्चैव सहस्रशः'।।
अद्य मे भ्रातरः क्षीणाश्चित्रसेनादयो रणे।
भामसनं समासाद्य पश्यतां नोदुरात्मनाम्।।
कर्ण उवाच।
आचार्यं मा विगर्हस्व शक्त्याऽसौ युध्यते द्विजः।
यथाबलं यथोत्साहं त्यक्त्वा जीवितमात्मनः।।
यद्येनं समतिक्रम्य प्रविष्टः श्वेतवाहनः।
नात्र सूक्ष्मोऽपि दोषःस्यादाचार्यस्य कथञ्चन।।
कृती दक्षो युवा शूरः कृतास्त्रो लघुविक्रमः।
दिव्यास्त्रयुक्तमास्थाय रथं वानरलक्षणम्।।
कृष्णेन च गृहीताश्वमभेद्यकचावृतः।
गाण्डीवमजरं दिव्यं धनुरादाय वीर्यवान्।।
प्रवर्षन्निशितान्बाणान्बाहुद्रविणदर्पितः।
यदर्जुनोऽभ्ययाद्द्रोणमुपपन्नं हि तस्य तत्।।
आचार्यः स्थविरो राजञ्शीघ्रयाने तथाऽक्षमः।
बाहुव्यायामचेष्टायामशक्तस्तु नराधिप।।
तेनैवमभ्यतिक्रान्तः श्वेताश्वः कृष्णसारथिः।
तस्य दोषं न पश्यामि द्रोणस्यानेन हेतुना।।
अजय्यान्पाण्डवान्मन्ये द्रोणोनास्त्रविदा मृधे।
तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः।।
सततं चेष्टमानानां निकृत्या विक्रमेण च।
दैवादिष्टोऽन्यथाभावो न मन्ये विद्यते क्वचित्।।
यतो नो युध्यमानानां परं शक्त्या सुयोधन।
सैन्धवो निहतो युद्धे दैवमत्र परं स्मृतम्।।
परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे।
हत्वाऽस्माकं पौरुषं वै दैवं पश्चात्करोति नः।।
दैवोपसृष्टपुरुषो यत्कर्म कुरुते क्वचित्।
कृतं कृतं हि तत्तस्यट दैवेन विनिपात्यते।।
यत्कर्तव्यं मनुष्येण व्यवसायवता सदा।
तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता।।
निकृत्या वञ्चिताः पार्था विषयोगैश्च भारत।
दग्धा जतुगृहे चापि द्यूतेन च पराजिताः।।
राजनीतिं समाश्रित्य प्रहिताश्चैव काननम्।
यत्नेन च कृतं तत्तद्दैवेन विनिपातितम्।।
युध्यस्व यत्नमास्थय दैवं कृत्वा निरर्थकम्।
यततस्तव तेषां च दैवं मार्गेण यास्यति।।
न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित्।
दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह।।
दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा।
अनन्यकर्म दैवं हि जागर्ति स्वपतामपि।
`तेन युक्तो हि पुरुषः कार्याकार्ये नियुज्यते'।।
बहूनि तव सैन्यानि योधाश्च बहवस्तव।
न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत।।
तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः।
शङ्के दैवस्य तत्कर्म पौरुषं येन नाशितम्।।
सञ्जय उवाच।
एवं संभाषमाणानां बहु तत्तज्जनाधिप।
पाण्डवानामनीकानि समदृश्यन्त संयुगे।।
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्।
तावकानां परैः सार्धं राजन्दुर्मन्त्रिते तव।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे त्रिपञ्चाशदधिकशततमोऽध्यायः।। 153 ।।