द्रोणपर्व
अध्यायः १५१
सञ्जय उवाच।
सैन्धवे निहते राजन्पुत्रस्तव सुयोधनः।
[अश्रुपूर्णमुखो दीनो निरुत्साहो द्विषज्जये।।
दुर्मना निःश्वसन्दुष्टो भग्नदंष्ट्र इवोरगः।
आगस्कृत्सर्वलोकस्य पुत्रस्तेऽर्तिं परामगात्।।
दृष्ट्वा तत्कदनं घोरं स्वबलस्य कृतं महत्।
जिष्णुना भीमसेनेन सात्वतेन च संयुगे।।
स विवर्णः कृशो दीनो बाष्पविप्लुतलोचनः।]
अमन्यतार्जुनसमो न योद्धा भुवि विद्यते।।
न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च।
पार्थस्य सम्मखे स्थातुं पर्याप्ता इति मारिष।।
निर्जित्य हि रणे पार्थः सर्वान्मम महारथान्।
अवधीत्सैन्धवं सङ्ख्ये न च कश्चिदवारयत्।।
सर्वथा हतमेवेदं कौरवाणां महद्बलम्।
न ह्यस्य विद्यते त्राता साक्षादपि पुरन्दरः।।
यमुपाश्रित्य सङ्ग्रामे कृतः शस्त्रसमुद्यमः।
स कर्णो निर्जितः सङ्ख्ये हतश्चैव जयद्रथः।।
`परुषाणि सभामध्ये प्रोक्तवान्यो हि पाण्डवान्।
स कर्णो निर्जितः सङ्ख्ये सैन्धवश्च निपातितः।।
यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम्।
तृणवत्तमहं मन्ये स कर्णो निर्जितो युधि।।
एवं क्लान्तमना राजन्नुपायाद्रोणमीक्षितुम्।
आगस्कृत्सर्वलोकस्य पुत्रस्ते भरतर्षभ।।
ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत्।
परान्विजयतश्चापि धार्तराष्ट्रान्निमज्जतः।।
दुर्योधन उवाच।
पश्य मूर्धाभिषिक्तानामाचार्य कदनं महत्।
कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम्।।
तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः।
पाञ्चाल्यैः सहितः सर्वैः सेनाग्रमभिवर्तते।।
अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना।
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः।।
अस्मद्विजयकामानां सुहृदामुपकारिणाम्।
गन्ताऽस्मि कथमानृण्यं गतानां यमसादनम्।।
ये मदर्थं परीप्सन्ते वसुधां वसुधाधिपाः।
ते हित्वा वसुधैश्वर्यं वसुधामधिशेरते।।
सोऽहं कापुरुषः क-त्वा मित्राणां क्षयमीदृशम्।
अश्वमेधसहस्रेण पावितुं न समुत्सहे।।
मम लुब्धस्य पापस्य तथा धर्मापचायिनः।
व्यायामेन जिगीषन्तः प्राप्ता वैवस्वतक्षयम्।।
कथं पतितवृत्तस्य पृथिवी सुहृदां द्रुहः।
विवरं नाशकद्दातुं मम पार्थिवसंसदि।।
योऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम्।
शयानं नाशकं त्रातुं भीष्ममायोधने हतम्।।
तं मामनार्यपुरुषं मित्रद्रुहमधार्मिकम्।
किं वक्ष्यति हि दुर्धर्षः समेत्य परलोकजित्।।
जलसन्धं महेष्वासं पश्य सात्यकिना हतम्।
मदर्थमुद्यतं शूरं प्राणांस्त्यक्त्वा महारथम्।।
काम्भोजं निहतं दृष्ट्वा तथालम्बुसमेव च।
अन्यान्बहूंश्च सुहृदो जीवितार्थोऽद्य को मम।।
व्यायच्छन्तो हताः शूरा मदर्थे ये पराङ्मुखाः।
यतमानाः परं शक्त्या विजेतुमहितान्मम।।
तेषां गत्वाऽहमानृण्यमद्य शक्त्या परन्तप।
तर्पयिष्यामि तानेव जलेन यमुनामनु।।
सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर।
इष्टापूर्तेन च शपे वीर्येण च सुतैरपि।।
निहत्य तान्रमे सर्वान्पाञ्चालान्पाण्डवैः सह।
सान्तिं लब्धाऽस्मि तेषां वा रणे गन्ता सलोकताम्
सोऽहं तत्र गमिष्यामि यत्र ते पुरुषर्षभाः।
हता मदर्थे सङ्ग्रामे युध्यमानाः किरीटिना।।
न हीदानीं सहाया मे परीप्सन्त्यनुपस्कृताः।
श्रेयो हि पाण्डून्मन्यन्ते न तथास्मान्महाभुज।।
स्वयं हि मृत्युर्विहितः सत्यसन्धेन संयुगे।
भवानुपेक्षां कुरुते शिष्यत्वादर्जुनस्य हि।।
अतो विनिहताः सर्वे येऽस्मज्जयचिकीर्षवः।
कर्णमेव तु पश्यामि सम्प्रत्यस्मज्जयैषिणम्।।
यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः।
मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति।।
तादृग्रूपं कृतमिदं मम कार्यं सुहृत्तमैः।
मोहाल्लुब्धस्य पापस्य जिह्मस्य धनमीहतः।।
यौ मे युद्धस्य कृत्यस्य जिह्माचारैः समीयतुः।
हतो जयद्रथश्चैव सौमदत्तिश्च विर्यवान्।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः।।
सोऽहमद्य गमिष्यामि यत्र ते पुरुषर्षभाः।
हता मदर्थे सङ्ग्रामे युध्यमानाः किरीटिना।।
न हि मे जीवितेनार्थस्तानृते पुरुषर्षभान्।
आचार्यः पाण्डुपुत्राणामनुजानातु नो भवान्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे एकपञ्चाशदधिकशततमोऽध्यायः।। 151 ।।