द्रोणपर्व

अध्यायः १४८

Drona Parva (Sanskrit) · Adhyaya 148
अक्षर का आकार

सञ्जय उवाच।

एवस्मिन्नेव काले तु त्वरमाणे दिवाकरे।
अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः।।

पार्थ पार्थ शिरो ह्येनद्यत्कृते न पतेद्भुवि।
श्रूयतां तद्यथावृत्तं कारणं सैन्धवं *प्रति।।

वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः।
स च घोरेण तपसा दैन्धवं प्राप्तवान्सुतम्।।

जयद्रथममित्रघ्नं वागुवाचाशरीरिणी।
नृपमन्तर्हिता वाणी मेघदुन्दुभिनिःस्वना।।

तवात्मजो मनुष्येन्द्र कुलशीलदमादिभिः।
गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः।
क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः।।

शिरश्छेत्स्यति सङ्क्रुद्धः शत्रुश्चालक्षितो भुवि।।

एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिन्दमः।
ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिचोदितः।।

सङ्ग्रामे युध्यमानस्य वहतो महतीं धुरम्।
धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः।।

तस्यापि शतधा मूर्धा फलिष्यति न संशयः।
`यदि चेदस्ति मे लाभस्तपसो वा दमस्य वा'।।

एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम्।
वृद्धक्षत्रो वनं यातस्तपश्चोग्रं समास्थितः।।

सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम्।
स्यमन्तपञ्चकादस्माद्बहिर्वानरकेतन।।

तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे।
दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा।।

सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज।
उत्सङ्गे पातयस्वास्य वृद्धक्षत्रस्य भारत।।

अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले।
तवापि शतधा मूर्धा फलिष्यति न संशयः।।

यथा चेदं न जानीयात्स राजा तपसि स्थितः।
तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः।।

न ह्यसाध्यमकार्यं वा विद्यते तव किञ्चन।
समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन।।

`यथैतत्सैन्धवशिरः शरैरेव धनञ्जय।
वृद्धक्षत्रे पतत्येव तथा नीतिर्विधीयताम्'।।

सञ्जय उवाच।

ततः सुमहदाश्चर्यं तत्रापश्याम भारत।
स्यमन्तपञ्चकाद्बाह्यं शिरो यद्व्यहरत्ततः।।

एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः।
सन्ध्यामुपास्ते तेजस्वी सम्बन्धी तव मारिष।।

उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम्।
सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत्।।

तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम्।
वृद्धक्षत्रस्य नृपतेरलक्षितमरिन्दम।।

कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य भारत।
प्रोत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्वरातलम्।।

ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतले।
गते तस्यापि शतधा मूर्धाऽगच्छदरिन्दम।।

ततः सर्वाणि सैन्यानि विस्मयं जग्मुरुत्तमम्।
वासुदेवश्च बीभत्सुं प्रशशंस महारथम्।।

`ततो दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम्।
कर्मणा तेन पार्थस्य विस्मिताः सर्वदेवताः।।

सर्वदा समरे यस्य गोप्ता नित्यं जनार्दनः।
कथं तस्य जयो न स्यादिति भूतानि मेनिरे।।

एतदर्थं शिरस्तस्य व्यापयामास पाण्डवः।
स्यमन्तपञ्चकाद्बाह्यं शरैरेव यथाक्रमम्।।

कृत्वा तच्च महत्कर्म निहत्य च जयद्रथम्।
अस्त्रं पाशुपतं पार्थः संहर्तुमुपचक्रमे।।

संहरत्यपि कौन्तेये तदस्त्रं तत्र भारत।
ववौ शीतः सुगन्धश्च पवनो ह्लादयन्निव।।

संहारं च प्रमोक्षं च दृष्ट्वा तत्र दिवौकसः।
विस्मयं परमं जग्मुः प्रशशंसुश्च पाण्डवम्।।

एवमस्त्रेण तान्वीरो योधयित्वा धनञ्जयः।
जयद्रथशिरः पश्चाद्व्यापयामास पाण्डवः।।

तच्छिरश्च्यावमानं तु ददृशुस्तावका युधि।
शल्यकर्णकृपा राजन्मोहिताः सव्यसाचिना।।

शिरसि च्याविते तस्य शरैराशीविषोपमैः।
पश्चात्कायोऽपतद्भूमिं शोचयन्सर्वपार्थिवान्।।

दृष्ट्वा तु निहतं सङ्ख्ये सिन्धुराजं महारथम्।
पुत्राणां तव नेत्रेभ्यो दुःखादास्रं प्रवर्तत'।।

ततो विनिहते राजन्सिन्धुराजे किरीटिना।
तमस्तद्वासुदेवेन संहृतं भरतर्षभ।।

पश्चाज्ज्ञातं महीपाल तव पुत्रैः सहानुगैः।
वासुदेवप्रयुक्तेयं मायेति नृपसत्तम।।

एवं स निहतो राजन्पार्थेनामिततेजसा।
अक्षौहिणीरष्ट हत्वा जामाता तव सैन्धवः।।

हतं जयद्रथं दृष्ट्वा तव पुत्रा नराधिप।
दुःखादश्रूणि मुमुचुर्निराशाश्चाभवञ्जये।।

ततो जयद्रथे राजन्हते पार्थेन केशवः।
दध्मौ शङ्खं महाबाहुरर्जुनश्च परन्तपः।।

भीमश्च वृष्णिसिंहश्च युधामन्युश्च भारत।
उत्तमौजाश्च विक्रान्तः शङ्खान्दध्मुः पृथक्पृथक्।।

श्रुत्वा महान्तं तं शब्दं धर्मराजो युधिष्ठिरः।
सैन्धनं निहतं मेने फल्गुनेन महात्मना।।

ततो वादित्रघोषेण स्वान्योधान्पर्यहर्षयत्।
अभ्यवर्तत सङ्ग्रामे भारद्वाजं युयुत्सया।।

ततः प्रववृते राजन्नस्तं गच्छति भास्करे।
द्रोणस्य सोमकैः सार्धं सङ्ग्रामो रोमहर्षणः।।

ते तु सर्वे प्रयत्नेन भारद्वाजं जिघांसवः।
सैन्धवे निहते राजन्नयुध्यन्त महारथाः।।

पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च।
अयोधयंस्तु ते द्रोणं जयोऽन्मत्तास्ततस्ततः।।

अर्जुनोऽपि ततो योधांस्तावकान्रथसत्तमान्।
अयोधयन्महाबाहुर्हत्वा सैन्धवकं नृपम्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिसयुद्धे अष्टचत्वारिंशदधिकशततमोऽध्यायः।। 148 ।।