द्रोणपर्व
अध्यायः १४७
सञ्जय उवाच।
श्रुत्वा निनादं धनुषश्च तस्य
विस्पषृमुत्कष्टमिवान्तकस्य।
शक्राशनिस्फोटसमं सुघोरं
विकृष्यमाणस्य धनञ्जयेन।।
त्रासोद्विग्नं तथोद्धान्तं त्वदीयं तद्बलं नृप।
युगान्तवातसङ्क्षुब्धं चलद्वीचितरङ्गितम्।
प्रलीनमीनमकरं सागराम्भ इवाभवत्।।
`मध्यन्दिनगतं सूर्यमापतन्तमिवाम्बरे।
न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम्'।।
स रणे व्यचरत्पार्थः प्रेक्ष्यमाणो धनञ्जयः।
युगपद्दिक्षु सर्वासु सर्वाण्यस्त्राणि दर्शयन्।।
आददानं महाराज सन्दधानं च पाण्डवम्।
उत्कर्षन्तं सृजन्तं च न स्म पश्याम लाघवात्।।
[ततः क्रुद्धो महाबाहुरैन्द्रमस्त्रं दुरासदम्।
प्रादुश्चक्रे महाराज त्रासयन्सर्वभारतान्।।
ततः शराः प्रादुरासन्दिव्यास्त्रप्रतिमन्त्रिताः।
प्रदीपाश्च शिखिमुखाः शतशोऽथ सहस्रशः।।
आकर्णपूर्णनिर्मुक्तैरग्न्यर्कांशुनिभैः शरैः।
नभोऽभवत्तद्दुष्प्रेक्ष्यमुल्काभिरिव संवृतम्।।
ततः शस्त्रान्धकारं तत्कौरवैः समुदीरितम्।
अशक्यं मनसाऽप्यन्यैः पाण्डवः सम्भ्रमन्निव।।
नाशयामास विक्रम्य शरैर्दिव्यास्त्रमन्त्रितैः।
नैशं तमोंशुभिः क्षिप्रं दिनादाविव भास्करः।।
ततस्तु तावकं सैन्यं दीप्तैः शरगभस्तिभिः।
आक्षिपत्पल्वलाम्बूनि निदाघार्क इव प्रभुः।।
ततो दिव्यास्त्रविदुषा प्रहिताः सायकांशवः।
समाप्लवन्द्विषत्सैन्यं लोकं भागोरिवांशवः।।
अथापरे समुत्सृष्टा विशिखास्तिग्मतेजसः।
हृदयान्याशु वीराणां विविशुः प्रियबन्धुवत्।।
य एनमीयुः समरे त्वद्योधाः शूरमानिनः।
शलभा इव ते दीप्तमग्निं प्राप्य ययुः क्षयम्।।
एवं स मृद्रञ्शत्रूणां जीवितानि यशांसि च।
पार्थश्चचार सङ्ग्रामे मृत्युर्विग्रहवानिव।।
स किरीटानि वस्त्राणि साङ्गदान्विपुलान्भुजान्।
सकुण्डलयुगान्कर्णान्केषाञ्चिदहरच्छरैः।।
सतोमरान्गजस्थानां सप्रासान्हयसादिनाम्।
सचर्मणः पदातीनां रथिनां च सधन्वनः।
सप्रतोदान्नियन्तॄणां बाहूंश्चिच्छेद पाण्डवः।।
प्रदीप्तोग्रशरार्जिष्मान्बभौ तत्र धनञ्जयः।
सविस्फुलिङ्गाग्रशिखो ज्वलन्निव हुताशनः।।
तं देवराजप्रतिमं सर्वशस्त्रभृतां वरम्।
युगपद्दिक्षु सर्वासु रथस्थं पुरुषर्षभम्।।
निक्षिपन्तं महास्त्राणि प्रेक्षणीयं धनञ्जयम्।
नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनादिनम्।।
निरीक्षितुं न शेकुस्ते यत्नवन्तोऽपि पार्थिवाः।
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे।।
दीप्तोग्रसम्भृतशरः किरीटी विरराज ह।
वर्षास्विवोदीर्णजलः सेन्द्रधन्वाम्बुदो महान्।।
महास्त्रसंप्लुवे तस्मिञ्जिष्णुना सम्प्रवर्तिते।
सुदुस्तरे महाघोरे ममज्जुर्योधपुङ्गवाः।।
उत्कृत्तवदनैर्देहैः शरीरैः कृत्तबाहुभिः।
भुजैश्च पाणिनिर्मुक्तैः पाणिभिर्व्यङ्गुलीकृतैः।।
कृत्ताग्रहस्तैः करिभिः कृत्तदन्तैर्मदोत्कटैः।
हयैश्च विधुरग्रीवै रथैश्च शकलीकृतैः।।
निकृत्तान्त्रैः कृत्तपादैस्तथाऽन्यैः कृत्तसन्धिभिः।
निश्चेष्टैर्विस्फुरद्भिश्च शतशोऽथ सहस्रशः।।
मृत्योराघातललितं तत्पार्थायोधनं महत्।
अपश्याम महीपाल भीरूणां भयवर्धनम्।।
आक्रीडमिव रुद्रस्य पुराभ्यर्दयतः पशून्।
गजानां क्षुरनिर्मुक्तैः करैः सभुजगेव भूः।।
क्वजिद्बभौ स्रग्विणीव वक्त्रपद्मैः समाचिता।
विचित्रोष्णीषमुकुटैः केयूराङ्गदकुण्डलैः।।
स्वर्णचित्रतनुत्रैश्च भाण्डैश्च गजवाजिनाम्।
किरीटशतसङ्गीर्णा तत्र तत्र समाचिता।
विराज भृशं चित्रा मही नववधूरिव।।
मज्जामेदःकर्दमिनीं शोणितौघतरङ्गिणीम्।
मर्मास्थिभिरगाधां च केशशैवलशाद्वलाम्।।
शिरोबाहूपलतटां रुग्णक्रोडास्थिसङ्कटाम्।
चित्रध्वजपताकाढ्यां छत्राचापोर्मिमालिनीम्।।
विगतासुमहाकायां गजदेहाभिसङ्कुलाम्।
रथोडुपशताकीर्णां हयसङ्घातरोधसम्।।
रथचक्रयुगेषाक्षकूबरैरतिदुर्गमाम्।
प्रासासिशक्तिपरशुविशिखाहिदुरासदाम्।।
बलकङ्कुमहानक्रां गोमायुमकरोत्कटाम्।
गृघ्रोदग्रमहाग्राहां शिवाविरुतभैरवाम्।।
नृत्यत्प्रेतपिशाचाद्यैर्भूताकीर्णां सहस्रशः।
गतासुयोधनिश्चेष्टशरीरशतवाहिनीम्।।
महाप्रतिभयां रौद्रां घोरां वैतरणीमिव।
नदीं प्रवर्तयामास भीरूणां भयवर्धिनीम्।।
तं दृष्ट्वा तस्य विक्रान्तमन्तकस्येव रूपिणः।
अभूतपूर्वं कुरुषु भयमागाद्रणाजिरे।।
तत आदाय वीराणामस्त्रैरस्त्राणि पाण्डवः।
आत्मानं रौद्रमाचष्ट रौद्रकर्मण्यधिष्ठितः।।
ततो रथवरान्राजन्नत्यतिक्रामदर्जुनः।।]
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे।
न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम्।।
प्रसृतांस्तस्य गाण्डीवाच्छरव्रातान्महात्मनः।
सङ्ग्रामे सम्प्रपश्यामो हंसपङ्क्तिरिवाम्बरे।।
विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वतः।
दर्शयन्रौद्रमात्मानमुग्रे कर्मणि धिष्ठितः।।
स तान्रथवरान्राजन्नत्याक्रामत्तदाऽर्जुनः।
मोहयन्निव नाराचैर्जयद्रथवधेप्सया।।
विसृजन्दिक्षु सर्वासु शरानच्युतसारथिः।
सरथो व्यचरत्तूर्णं प्रेक्षणीयो धनञ्जयः।।
भ्रमन्त इव शूरस्य शरव्राताः महात्मनः।
अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः।।
आददानं महेष्वासं सन्दधानं च सायकम्।
विसृजन्तं च कौन्तेयं नानुपश्याम वै तदा।।
तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे।
आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत्।
विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम्।।
[सैन्धवाभिमुखं यान्तं योधाः सम्प्रेक्ष्य पाण्डवम्।
न्यवर्तन्त रणाद्वीरा निराशास्तस्य जीविते।।
यो योऽभ्यधावदाक्रन्दे तावकः पाण्डवं रणे।
तस्यतस्यान्तगा बाणाः शरीरे न्यपतन्प्रभो।।
कबन्धसङ्कुलं चक्रे तव सैन्यं महारथः।
अर्जुनो जयतां श्रेष्ठः शरैरग्न्यंशुसन्निभैः।।
एवं तत्तव राजेन्द्र चतुरङ्गबलं तदा।
व्याकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत्।।
द्रौणिं पञ्चाशताऽविध्यद्वृषसेनं त्रिभिः शरैः।
कृपायमाणः कौन्तेयः कृपं नवभिरार्दयत्।।
शल्यं षोडशभिर्बाणैः कर्णं द्वात्रिंशता शरैः।
सैन्धवं तु चतुःषष्ट्या विद्व्वा सिंह इवानदत्।।]
सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना।
न चक्षमे सुसङ्क्रुद्धस्तोत्रार्दित इव द्विपः।।
स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान्।
क्रुद्धाशीविषसङ्काशान्कर्मारपरिमार्जितान्।।
आकर्णपूर्णांश्चिक्षेप फल्गुनस्य रथं प्रति।
त्रिभिस्तु विद्वा गोविन्दं नाराचैः षड्भिरर्जुनम्।।
अष्टभिर्वाजिनोऽविध्यद्ध्वजं चैकेन पत्रिणा।
`भूयश्चैवार्जुनं सङ्ख्ये शरवर्षैरवाकिरत्'।।
स विक्षिप्यार्जुनस्तूर्णं सैन्धवप्रहिताञ्शरान्।
युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह।
सारथेश्च शिरः कायाद्व्वजं च समलङ्कृतम्।।
स च्छिन्नयष्टिः सुमहान्धनञ्जयशराहतः।
वराहः सिन्धुराजस्य पपातेन्दुसमप्रभः।।
आदित्यं प्रेक्षमाणस्तु बीभत्सुः सृक्विणी लिहन्।
अपश्यन्नान्तरं तस्य रक्षिभिः संवृतस्य वै।।
अभवक्त्रोधरक्ताक्षो व्यात्तानन इवान्तकः।
अथाब्रवीद्वासुदेवः कुन्तीपुत्रं धनञ्जयम्।।
नैव शक्यस्त्वया हन्तुं निर्व्याजं भरतर्षभ।
स्रक्ष्याम्यहमुपायं तमादित्यस्यापवारणे।
ततोऽस्तं गतमादित्यं मंस्यते सिन्धुराडिह।।
ततोऽस्य विस्मयः पार्थ हर्षश्चैव भविष्यति।
आत्मजीवितलाभाच्च प्रतिज्ञायाश्च नाशनात्।।
अस्तङ्गतमिवादित्यं दृष्ट्वा मोहेन बालिशः।
न हि शक्ष्यत्यथाऽऽत्मानं रक्षितुं हर्षसम्भवात्।।
एतस्मिन्नेव काले तु प्रहर्तव्यं धनञ्जय।
जयद्रथस्य क्षुद्रस्य सविदुर्दर्शनार्थिनः।।
सञ्जय उवाच।
एवमुक्त्वा ततः पार्थं क्षिप्रमेवाहरत्प्रभाम्।
जनार्दनेन सृष्टं वै तम आदित्यनाशनम्।।
पार्थस्य बलमज्ञानात्तमो दृष्ट्वा सुदुःखितम्।
अभवंस्तावका योधा हर्षसङ्कुलचेतसः।।
ते प्रहृष्टा रणे राजन्नपश्यन्सैनिका रविम्।
उन्नाम्य वक्त्राणि तदा स च राजा जयद्रथः।।
वीक्षमाणे ततस्तस्मिन्सिन्धुराजे दिवाकरम्।
उन्नमय्य शिरोग्रीवां वीक्षते सूर्यमण्डलम्।
तस्य शीघ्रं पृषत्केन कायाच्छीर्षमपाहर।।
केशवेनैवमुक्तः सन्नमर्षाद्रक्तलोचनः।
उद्बबर्ह शरं तीक्ष्णममरैरपि दुःसहम्।।
एवं तूणीशयं घोरमिन्द्राशनिसमप्रभम्।
वर्मभेदिनमत्यर्थं गन्धमाल्यार्चितं सदा।
विससर्ज ततस्तूर्णं सैन्धवस्य रथं प्रति।।
स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुनः।
शकुन्तमिव वृक्षाग्रात्सैन्धवस्याहरच्छिरः।।
प्रपतिष्यति शीर्षे तु कृष्णोऽर्जुनमथाब्रवीत्।
पार्थ पार्थ शिरो ह्येतद्यथा नेयान्महीतलम्।
तथा कुरु कुरुश्रेष्ठ वक्ष्ये तस्यापि कारणम्।।
श्रुत्वा तु वचनं तस्य त्वरमाणोऽस्त्रमायया।
तथाऽहरच्छिरस्तस्य शरैरूर्ध्वं धनञ्जयः।
दुर्हृदामपहर्षाय सुहृदां हर्षणाय च।।
तिर्यगूर्ध्वमधश्चैव पुनरूर्ध्वमथापि च।
दीर्घकालमवाक्वैव सम्प्रक्रीडन्निवार्जुनः।।
तत्सैन्यं सर्वतोपश्यन्महदाश्चर्यमद्भुतम्।
प्रापयत्स शिरो यस्माद्योधयन्नेव पार्थिवान्।।
शरैः कन्दुकवत्कृत्वा तस्यालोकाय पाण्डवः।
स्यमन्तपञ्चकाद्बाह्ये शिरस्तदहरच्छरैः।।
जयद्रथस्यार्जुनबाणनालं
मुखारविन्दं रुधिराम्बुसिक्तम्।
दृष्टं नरैश्चोपरिवर्तमानं
विद्याधरोत्सृष्टमिवैकपद्मम्।।
स देवशत्रूनिव देवराजः
किरीटमाली व्यधमत्सपत्नान्।
यथा तमांस्यभ्युदितस्तमोघ्नः
पूर्णां प्रतिज्ञां स समाप्य वीरः।।
तं भूमिदेशं च शिरो विनेतुम्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे सप्तचत्वारिंशदधिकशततमोऽध्यायः।। 147 ।।