द्रोणपर्व
अध्यायः १४९
धृतराष्ट्र उवाच।
तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना।
मामका यदकुर्वन्त तन्ममाचक्ष्व सञ्जय।।
`पश्यतां सर्वसैन्यानां मामकानां महारणे।
अहन्यत कथं युद्धे सैन्धवः सव्यसाचिना।।
कथं द्रौणिकृपैर्गुप्तः कर्णेन च महारणे।
फल्गुनाग्निमुखं घोरं प्रविष्टः साधु सैन्धवः।।
तस्मिन्हते महेष्वासे मन्दात्मा स सुयोधनः।
भ्रातृबिः सहितः सूत किमकार्षीदनन्तरम्'।।
सञ्जय उवाच।
सैन्धवं निहतं दृष्ट्वा रणे पार्थेन भारत।
अमर्षवशमापन्नः कृपः शारद्वतस्ततः।।
महता शरवर्षेण पाण्डवं समवाकिरत्।
द्रौणिश्चाभ्यद्रवद्राजन्रथमास्थाय फल्गुनम्।।
तावेतौ रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमौ।
उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम्।।
स तथा शरवर्षाभ्यां सुमहद्ध्यां महाभुजः।
पीड्यमानः परामार्तिमगमद्रथिनां वरः।।
सोऽजिघांसुर्गुरुं सङ्ख्ये गुरोस्तनयमेव च।
चकाराचार्यकं तत्र कुन्तीपुत्रो धनञ्जयः।।
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च।
मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत्।।
तेन नातिभृशं त्रस्तौ विशिखैर्भृशपीडितौ।
बहुत्वात्तु परामार्तिं शराणां तावगच्छताम्।।
अथ शारद्वतो राजन्कौन्तेयशरपीडितः।
अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह।।
विह्वलं तमभिज्ञाय भर्तारं शरपीडितम्।
हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत्।।
तस्मिन्भग्ने महाराज कृपे शारद्वते युधि।
अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम्।।
दृष्ट्वा शारद्वतं पार्थो मूर्च्छितं शरपीडितम्।
धिग्धिङ्मामिति चैवोक्त्वा कृपणं पर्यदेवयत्।
अश्रुपूर्णमुखो दीनो वचनं चेदमब्रवीत्।।
पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान्।
कुलान्तकरणे पापे जातमात्रे सुयोधने।।
नीयतां परलोकाय साध्वयं कुलपांसनः।
अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम्।।
तदिदं समनुप्राप्तं वचनं सत्यवादिनः।
तत्कृते ह्यद्य पश्यामि शरतल्पगतं गुरुम्।।
धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम्।
को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः।।
ऋषिपुत्रो ममाचार्यो द्रोणस्य परमः सखा।
एष शेते रथोपस्थे कृपो मद्बाणपीडितः।।
अकामयानेन मया विशिखैरर्दितो भृशम्।
अवसीदन्रथोपस्थे प्राणान्पीडयतीव मे।।
पुत्रशोकाभितप्तेन शरैरभ्यर्दितेन च।
अभ्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै।।
`शरार्दितः स हि मया प्रेक्षमाणो महाद्युतिः'।
शोचयत्येष नियतं भूयः पुत्रवधाद्धि माम्।
कृपणं स्वरथे सन्नं पश्य कृष्ण यथागतम्।।
उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः।
प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते।।
ये च विद्यामुपादाय गुरुभ्यः पुरुषाधमाः।
घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः।।
तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम्।
आचार्यं शरवर्षेण रथे सादयता कृपम्।।
यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः।
न कथञ्चन कौरव्य प्रहर्तव्यं गुराविति।।
तदिदं वचनं साधोराचार्यस्य महात्मनः।
नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता।।
नमस्तस्मै सुपूज्याय गौतमायापलायिने।
धिगस्तु मम वार्ष्णेय यदस्मै प्रहराम्यहम्।।
सञ्जय उवाच।
तथा विलपमाने तु सव्यसाचिनि तं प्रति।
*ततो राजन्हृष्टीकेशः संङ्गामशिरसि स्थितम्।
तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्यैनमब्रवीत्।।
दिष्ठ्या सम्पादिता जिष्णो प्रतिज्ञा महती त्वया।
दिष्ट्या विनिहतः पापो वृद्धक्षत्रः सहात्मजः।।
धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत।
सीदेत समरे जिष्णो नात्र कार्या विचारणा।।
न तं पश्यामि लोकेषु चिन्तयन्पुरुषं क्वचित्।
त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम्।।
महाप्रभावा बहवस्त्वया तुल्याधिकापि वा।
समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात्।।
ते त्वां प्राप्य रणे क्रुद्धा नाभ्यवर्तन्त दंशिताः।
तव वीर्यं बलं चैव रुद्रशक्रान्तकोपमम्।।
नेदृशं शक्नुयात्कश्चिद्रमे कर्तुं पराक्रमम्।
यादृशं कृतवानद्य त्वमेकः शत्रुतापनः।।
एवमेव हते कर्णे सानुबन्धे दुरात्मनि।
वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम्।।
तमर्जुनः प्रत्युवाच प्रसादात्तव माधव।
प्रतिज्ञेयं मया तीर्णा विबुधैरपि दुस्तरा।।
अनाश्चार्यो जयस्तेषां येषां नाथोऽसि केशव।
त्वत्प्रसादान्महीं कृत्स्नां संप्राप्स्यति युधिष्ठिरः।।
तवैष भारो धार्ष्णेय तवैव विजयः प्रभो।
वर्धनीयास्तव वयं प्रेष्याश्च मधुसूदन।।
एवमुक्तस्ततः कृष्णः शनकैर्वाहयन्हयान्।
दर्शयामास पार्थाय क्रूरमायोधनं महत्।।
श्रीकृष्ण उवाच।
प्रार्थयन्तो जये युद्धे प्रथितं च महद्यशः।
पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः।।
विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः।
सञ्छिन्नभिन्नमर्माणो वैक्लव्यं परमं गताः।।
ससत्वा गतसत्वाश्च प्रभया परया युताः।
सजीवा इव लक्ष्यन्ते गतसत्वा नराधिपाः।।
तेषां शरैः स्वर्णपुङ्खैः शस्त्रैश्च विविधैः शितैः।
वाहनैरायुधैश्चैव सम्पूर्णां पश्य मेदिनीम्।।
वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः।
उष्णीषैर्मकुटैः स्रग्भिश्चूडामणिभिरम्बरैः।।
कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सप्रभैः।
अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी।।
[अनुकर्षैरुपासङ्गैः पताकाभिर्ध्वजैस्तथा।
उपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः।।
चक्रैः प्रमथितैश्चित्रैरक्षैश्च बहुधा रणे।
युगैर्योक्त्रैः कलापैश्च धनुर्भिः सायकैस्तथा।।
परिस्तोमैः कुथाभिश्च परिघैरङ्कुशैस्तथा।
शक्तिभिर्भिण्डिपालैश्च तूणैः शूलैः परश्वथैः।।
प्रासैश्च तोमरैश्चैव कुन्तैर्यष्टिभिरेव च।
शतघ्नीभिर्भुशुण्डीभिः खङ्गैः परशुभिस्तथा।।
मुसलैर्मुद्गरैश्चैव गदाभिः कुणपैस्तथा।
सुवर्णविकृताभिश्च कशाभिर्भरतर्षभ।।
घण्टाभिश्च गजेन्द्राणां भाण्डैश्च विविधैरपि।
स्रग्भिश्च नानाभरणैर्बस्त्रैश्चैव महाधनैः।
अपविद्धैर्बभौ भूमिर्ग्रहैर्द्यौरिव शारदी।।
पृथिव्यां पृथिवीहेतोः पृथिवीपतयो हताः।
पृथिवीमुपगुह्याङ्गैः सुप्ताः कान्तामिव प्रियाम्।।
इमांश्च गिरिकूटाभान्नागानैरावतोपमान्।
क्षरतः शोणितं भूरि शस्त्रच्छेददरीमुखैः।
दरीमुखैरिव गिरीन्गैरिकाम्बुपरिस्रवान्।।
तांश्च बाणहतान्वीर पश्य निष्टनतः क्षितौ।
हयांश्च पतितान्पश्य स्वर्णभाण्डविभूषितान्।।
गन्धर्वनगराकारान्रथांश्च निहतेश्वरान्।
छिन्नध्वजपताकाक्षान्विचक्रान्हतसारथीन्।।
निकृत्तकूबरयुगान्भग्नेषान्बन्धुरान्प्रभो।
पश्य पार्थ हयान्भूमौ विमानोपमदर्शनान्।।
पत्तींश्च निहतान्वीर शतशोऽथ सहस्रशः।
धनुर्भृतश्चर्मभृतः शयानान्रुधिरोक्षितान्।।
महीमालिङ्ग्य सर्वाङ्गैः पांसुध्वस्तशिरोरुहान्।
पश्य योधान्महाबाहो त्वच्छरैर्भिन्नविग्रहान्।।
निपातितद्विपरथाजिसङ्कुल--
मसृग्वसापिशितसमृद्धकर्दमम्।
निशाचरश्ववृकपिशाचमोदनं
महीतलं नरवर पश्य दुर्दृशम्।।
इदंमहत्त्वय्युपपद्यते प्रभो
रणाजिरे कर्म यशोऽभिवर्धनम्।
शतक्रतौ चापि च देवसत्तमे
महाहवे जघ्नुषि दैत्यदानवान्।।]
सञ्जय उवाच।
एवं सन्दर्शयन्कृष्णो रणभूमिं किरीटिने।
स्वैः समेतः समुदितैः पाञ्चजन्यं व्यनादयत्।।
`सात्यकिः पार्थमभ्यायाद्भीमसेनश्च पाण्डवः।
युधामन्यूत्तमौजौ च पाञ्चालस्यात्मजावुभौ।।
ते निवार्य शरैर्द्रौणिं कर्णं च सह भूमिपैः।
आगच्छन्रथिनश्चैव यत्र राजा युधिष्ठिरः'।।
स दर्शयन्नेव किरीटिनेऽरिहा
जनार्दनस्तामरिभूमिमञ्जसा।
अजातशत्रुं समुपेत्य पाण्डवं
निवेदयामास हतं जयद्रथम्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे एकोनपञ्चाशदधिकशततमोऽध्यायः।। 149 ।।