द्रोणपर्व

अध्यायः १४६

Drona Parva (Sanskrit) · Adhyaya 146
अक्षर का आकार

धृतराष्ट्र उवाच।

तथा गतेषु शूरेषु तेषां मम च सञ्जय।
किंस्विद्भीमार्जुनौ चैव सात्यकिश्चाकरोत्तदा।।

सञ्जय उवाच।

विरथो भीमसेनो वै कर्णवाक्शल्यपीडितः।
अमर्षवशमापन्नः फल्गुनं वाक्यमब्रवीत्।।

पुनःपुनस्तूबरक मूढ औदरिकेति च।
अकृतास्त्रक मा योत्सीर्बाल सङ्ग्रामकातर।।

इति मामब्रवीत्कर्णः पश्यतस्ते धनञ्जय।
एवं वक्ता च मे वध्यस्तेन चोक्तस्तथा ह्यहम्।।

एतद्व्रतं महाबाहो त्वया सह कृतं मया।
तथैतन्मम कौन्तेय यथा तव न संशयः।।

तद्वधाय नरश्रेष्ठ स्मरैतद्वचनं मम।
यथा भवति तत्सत्यं तथा कुरु धनञ्जय।।

तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः।
ततोऽर्जुनोऽब्रवीत्कर्णं किञ्चिदभ्येत्य संयुगे।।

कर्णकर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत।
अधर्मबुद्धे शृणु मे यत्त्वां वक्ष्यामि साम्प्रतम्।।

द्वावेवं कर्ण शूराणां रणे दृष्टौ जयाजयौ।
तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः।।

`रणमुत्सृज्य निर्लज्ज गच्छसे च पुनः पुनः।
माहात्म्यं पश्य भीमस्य कर्म जन्म कुले तथा।
नोक्तवान्परुषं यत्त्वां पलायनपरायणम्।।

भूयस्त्वमपि सङ्गम्यं सकृदेव यदृच्छया।
विरथं कृतवान्वीरं पाण्डवं सूतदायद।।

कुलस्य सदृशं चापि राधेय कृतवानसि।
नैकान्तसिद्धिः सङ्ग्रामे वासवस्यापि विद्यते'।।

मुमूर्षुर्युयुधानेन विरथो विकलेन्द्रियः।
मद्वध्यस्त्वमिति ज्ञात्वा जित्वा जीवन्विसर्जितः।।

यदृच्छया रणे भीमं युध्यमानं महाबलम्।
कथञ्चिद्विरथं कृत्वा यत्त्वं रूक्षमभाषथाः।
अधर्मस्त्वेष सुमहाननार्यचरितं च तत्।।

नारिं जित्वाऽतिकत्थन्ते न च जल्पन्ति दुर्वचः।
न च कञ्चन निन्दन्ति सन्तः शूरा नरर्षभाः।।

त्वं तु प्राकृतविज्ञानस्तत्तद्वदसि सूतज।
बह्वबद्धमकर्ण्यं च चापलादपरीक्षितम्।।

युध्यमानं पराक्रान्तं शूरमार्यव्रते रतम्।
यदवोचोऽप्रियं भीमं नैतत्सत्यं वचस्तव।
पश्यतां सर्वसैन्यानां केशवस्य ममैव च।।

विरथो भीमसेनेन कृतोऽसि बहुशो रणे।
न च त्वां परुषं किञ्चिदुक्तवान्पाण्डुनन्दनः।।

यस्मात्तु बहु रूक्षं च श्रावितस्ते वृकोदरः।
परोक्षं यच्च सौभद्रो युष्माभिर्बहुभिर्हतः।
तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि।।

त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते।
तस्माद्वध्योऽसि मे मूढ सभृत्यसुतबान्धवः।।

कुरु त्वं सर्वकृत्यानि महत्ते भयमागतम्।
हन्ताऽस्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे।।

ये चान्येऽप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः।
तांश्च सर्वान्हनिष्यामि सत्येनायुधमालभे।।

त्वां च मूढाकृतप्रज्ञमतिमानिनमाहवे।
दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम्।।

सञ्जय उवाच।

अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु।
महान्सुतुमुलः शब्दो बभूव रथिनां तदा।।

तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभये।
मन्दरश्मिः सहस्रांशुरस्तङ्गिरिमुपाद्रवत्।।

ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत्।
अर्जुनं प्रेक्ष्य संयातं जयद्रथवधं प्रति।।

`अमानुषाणि कर्माणि कुर्वन्तौ भरतर्षभ।
सात्यकिं भीमसेनं च यत्तौ तौ दर्शयन्निव।।

अयं स वैकर्तन युद्धकालो
विदर्शयस्वात्मबलं महात्मन्।
यथा न वध्येत रणेऽर्जुनेन
जयद्रथः कर्ण तथा कुरुष्व।।

अल्पावशेषो दिवसो हि साम्प्रतं
निवारयेहाद्य रिपुं शरौघैः।
दिनक्षयं प्राप्य नरप्रवीर
ध्रुवो हि नः कर्ण जयो भविष्यति।।

सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमनं प्रति।
मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम्।।

अनर्जुनायां च भुवि मुहूर्तमपि मानद।
जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः।।

पाण्डवेषु विनष्टेषु सशैलवनकाननाम्।
वसुन्धरामिमां कर्ण भोक्ष्यामो महतकण्टकाम्।।

दैवेनोपहतः पार्थो विपरीतश्च मानद।
कार्याकार्यमजानानः प्रतिज्ञां कृतवान्रणे।।

नूनमात्मविनाशाय पाण्डवेन किरीटिना।
मिथ्याप्रतिज्ञैव कृता जयद्रथवधं प्रति।।

कथं जीवति दुर्धर्षे त्वपि राधेय फल्गुनः।
अनस्तङ्गत आदित्ये हन्यात्सैन्धवकं नृपम्।।

रक्षितं मद्रराजेन कृपेण च महात्मना।
जयद्रथं रणमुखे कथं हन्याद्धनञ्जयः।।

द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च।
कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः।।

युध्यन्ते बहवः शूरा लम्बते च दिवाकरः।
शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद।।

स त्वं कर्ण मया सार्धं शूरैश्चान्यैर्महारथैः।
द्रौणिना त्वं हि सहितो मद्रेशेन कृपेण च।
युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे।।

एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष।
दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम्।।

दृढलक्ष्येण वीरेण भीमसेनेन धन्विना।
भृशं भिन्नतनुः सङ्ख्ये शरजालैरनेकशः।।

स्थातव्यमिति तिष्ठामि रणे सम्प्रति मानद।
नाङ्गमिङ्गति किञ्चिन्मे सन्तप्तस्य महेषुभिः।
योत्स्यामि तु यथाशक्त्या त्वदर्थं जीवितं मम।।

`तत्तथा प्रयतिष्येऽहं परं शक्त्याxxxxसुयोधन'।
यथा पाण्डवमुख्योऽसौ न हनिष्याति सैन्धवम्।।

न हि मे युध्यमानस्य सायकानस्यतः शितान्।
सैन्धवं प्राप्स्यते वीरः सव्यसाची धनञ्जयः।।

यत्तु भक्तिमता कार्यं सततं हितकाङ्क्षिणा।
तत्करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः।।

सैन्धवार्थे परं यत्नं करिष्याम्यद्य संयुगे।
त्वत्प्रियार्थं महाराज जयो दैवे प्रतिष्ठितः।।

अद्य योत्स्येऽर्जुमहं पौरुषं स्वं व्यपाश्रितः।
त्वदर्थे पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः।।

अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः।
पश्यन्तु सर्वसैन्यानि दारुणं रोमहर्षणम्।।

सञ्जय उवाच।

कर्णकौरवयोरेवं रणे संभाषमाणयोः।
अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम्।।

चिच्छेद निशितैर्बाणैः शूराणामनिवर्तिनाम्।।

भुजान्परिघसङ्काशान्हस्तिहस्तोपमान्रणे।
शिरांसि च महाबाहुश्चिच्छेद निशितैः शरैः।।

हस्तिहस्तान्द्विपस्कन्धान्रथाक्षांश्च समन्ततः।
शोणिताक्तान्हयारोहान्गृहीतप्रासतोमरान्।।

क्षुरैश्चिच्छेद बीभत्सुर्द्विधैकैकं त्रिधैव च।
हयान्वारणमुख्यांश्च पदातींश्च समन्ततः।
ध्वजांश्छत्राणि चापानि चामराणि शिरांसि च।।

कक्षमग्निरिवोद्धूतः प्रादहत्तव वाहिनीम्।
अचिरेण महीं पार्थश्चकार रुधिरोत्तराम्।।

हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली।
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः।।

बीभत्सुर्भीमसेनेन सात्वतेन च रक्षितः।
प्रबभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः।।

तं तथाऽवस्थितं दृष्ट्वा त्वदीया वीरसंमताः।
नामृष्यन्त महेष्वासाः पाण्डवं पुरुषर्षभाः।।

दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट्।
अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः।।

सन्नद्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम्।
नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिःस्वनैः।।

सङ्ग्रामकोविदं पार्थं सर्वे युद्धविशारदाः।
अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम्।।

सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽच्युतार्जुनौ।
सूर्यास्तमनमिच्छन्तो लोहितायति भास्करे।।

ते भुजैर्भोगिभोगाभैर्धनूंष्यानम्य सायकान्।
मुमुचुःसूर्यरश्म्याभाञ्छतशः फल्गुनं प्रति।।

ततस्तानस्यमानांश्च किरीटी युद्धदुर्मदः।
द्विधा त्रिधाऽष्टधैकैकं छित्त्वा विव्याध तान्रथान्।।

सिंहलाङ्गूलकेतुस्तु दर्शयन्वीर्यमात्मनः।
शारद्वतीसुतो राजन्नर्जुनं प्रत्यवारयन्।।

स विद्‌वा दशभिः पार्थं वासुदेवं च सप्तभिः।
अतिष्ठद्रथमार्गेषु सैन्धवं प्रतिपालयन्।।

अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः।
महता रथवंशेन सर्वतः प्रत्यवारयन्।।

विष्फारयन्तश्चापानि विसृजन्तश्च सायकान्।
सैन्धवं पर्यरक्षन्त शासनात्तनयस्य ते।।

ततः पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत।
इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च।।

अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च।
एकैकं दशभिर्बाणैः सर्वानेव समार्पयत्।।

तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः।
दुर्योधनश्च विंशत्या कर्णशल्यौ त्रिभिस्त्रिभिः।।

त एनमभिगर्जन्तो विध्यन्तश्च पुनःपुनः।
विधुन्वन्तश्च चापानि सर्वतः प्रत्यवारयन्।।

श्लिष्टं च सर्वतश्चक्रू रथमण्डलमाशु ते।
सूर्यास्तमनमिच्छन्तस्त्वरमाणा महारथाः।।

त एनमभिनर्दन्तौ विधुन्वाना धनूंषि च।
सिषिचुर्मार्गणैस्तीक्ष्णैर्गिरिं मेघा इवाम्बुभिः।।

ते महास्त्राणि दिव्यानि तत्र राजन्व्यदर्शयन्।
धनञ्जयस्य गात्रे तु शूराः परिघबाहवः।।

`निवार्य ताञ्शरव्रातैर्दिव्यान्यस्त्राणि दर्शयन्'।
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली।
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः।।

तं कर्णः संयुगे राजन्प्रत्यवारयदाशुगैः।
मिषतो भीमसेनस्य सात्वतस्य च भारत।।

तं पार्थो दशभिर्बाणैः प्रत्यविध्यद्राणाजिरे।
सूतपूत्रं महाबाहुः सर्वसैन्यस्य पश्यतः।।

सात्वतश्च त्रिभिर्बाणैः कर्णं विव्याध मारिष।
भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः।।

तान्कर्णः प्रतिविव्याध षष्ट्याषष्ट्या महारथः।
तद्युद्धमभवद्राजन्कर्णस्य बहुभिः सह।।

तत्राद्भूतमपश्याम सूतपुत्रस्य मारिष।
यदेकः समरे क्रुद्धस्त्रीन्रथान्पर्थवारयत्।।

फल्गुनस्तु महाबाहुः कर्णं वैकर्तनं रणे।
सायकानां शतेनैव सर्वमर्मस्वताडयत्।।

रुधिरोक्षितसर्वाङ्गः सूतपुत्रः प्रतापवान्।
शरैः पञ्चाशता वीरः फल्गुनं प्रत्यविध्यत।।

तस्य तल्लाघवं दृष्ट्वा नामृष्यत रणेऽर्जुनः।
तस्य पार्थो धनुश्छित्त्वा विव्याधैनं स्तनान्तरे।
सायकैर्नवभिर्वीरस्त्वरमाणो धनञ्जयः।।

अथान्यद्धनुरादाय सूतपुत्रः प्रतापवान्।
सायकैरष्टसाहस्रैश्छादयामास पाण्डवम्।।

तां बाणवृष्टिमतुलां कर्णचापसमुत्थिताम्।
व्यधमत्सायकैः पार्थः शलभानिव मारुतः।।

छादयामास च तदा सायकैरर्जुनो रणे।
पश्यतां सर्पयोधानां दर्शयन्पाणिलाघवम्।।

वधार्थं चास्य समरे सायकं सूर्यवर्चसम्।
चिक्षेप त्वरया युक्तस्त्वराकाले धनञ्जयः।।

तमापतन्तं वेगेन द्रौणिश्चिच्छेद सायकम्।
अर्धचन्द्रेण तीक्ष्णेन स च्छिन्नः प्रापतद्भूवि।।

कर्णोऽपि द्विषतां हन्ता छादयामास फल्गुनम्।
सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया।।

तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ।
सायकैस्तु प्रतिच्छन्नं चक्रतुः खमजिह्मगैः।।

अदृश्यौ च शरौथैस्तौ निघ्न्तावितरेतरम्।
कर्ण पार्थोऽस्ति तिष्ठत्वं कर्णोऽहं तिष्ठ फल्गुन्न।।

इत्येवं तर्जयन्तौ तौ वाक्शल्यैस्तु परस्परम्।
विध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च।।

प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे।
प्रशस्यामानौ समरे सिद्धचारणपन्नगैः।।

अयुध्येतां महाराज परस्परवधैषिणौ।
ततो दुर्योधनो राजंस्तावकानभ्यभाषत।।

यत्नाद्रक्षत राधेयं नाहत्वा समरेऽर्जुनम्।
निवर्तिष्यति राधेयो न वाऽजित्वाऽद्य फल्गुनं।।

एतस्मिन्न्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम्।
आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान्।
अनयत्प्रेतलोकाय चतुर्भिः श्वेतवाहनः।।

सारथिं चास्य भल्लेन रथनीडादपातयत्।
छादयामास स शरैस्तव पुत्रस्य पश्यतः।।

सञ्छाद्यमानः समरे हताश्वो हतसारथिः।
मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत।।

तं तथा विरथं दृष्ट्वा रथमारोप्य तं तदा।
अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत्।।

मद्रराजश्च कौन्तेयमविध्यत्त्रिंशता शरैः।
`आवव्रेऽर्जुनमार्गं च शरजालेन भारत'।।

शारद्वतस्तु विंशत्यं वासुदेवं समार्पयत्।
धनञ्जयं द्वादशभिराजघान शिलीमुखैः।।
चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः।
पृथक्पृथङ्‌महाराज विव्यधुः कृष्णपाण्डवौ।।

तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनञ्जयः।
द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च।।
सैन्धवं दशभिर्बाणैर्वृषसेनं त्रिभिः शरैः।
शारद्वतं च विंशत्या विद्व्वा पार्थो ननाद ह।।

ते प्रतिज्ञाप्रतीघातमिच्छन्तः सव्यसाचिनः।
सहितास्तावकास्तूर्णमभिपेतुर्धनञ्जयम्।।

अथार्जुनः सर्वतो वारुणास्त्रं
प्रादुश्चक्रे त्रासयन्धार्तराष्ट्रान्।
तं प्रत्युदीयः कुरुवः पाण्डुपुत्रं
रथैर्महार्हैः शरवर्षं सृजन्तः।।

ततस्तु तस्मिंस्तुमले समुत्थिते
सुदारुणे भारतमोहनीये।
नो मुह्यत प्राप्य स राजपुत्रः
किरीटमाली व्यसृजच्छरौघान्।।

वधप्रेप्सुः सव्यसाची कुरूणां
स्मरन्क्लेशान्द्वादशवर्षवृत्तान्।
गाण्डीवमुक्तैरिषुभिर्महात्मा
सर्वा दिशो व्यावृणोदप्रमेयः।।

प्रदीप्तोल्कमभवच्चान्तरिक्षं
मृतेषु देहेष्वपतन्वयांसि।
यत्पिङ्गलज्येन किरीटमाली
क्रुद्धो रिपूनाजगवेन हन्ति।।

ततः किरीटि महता महायशाः
शरासनेनास्य शराननीकजित्।
हयप्रवेकोत्तमनागघूर्णिता--
न्कुरुप्रवीरानिषुभिर्व्यापातयत्।।

गदाश्च गुर्वीः परिघानयस्मया--
नसींश्च शक्तीश्च रणे नराधिपाः।
महान्ति शस्त्राणि च भीमदर्शनाः
प्रगृह्य पार्थं सहसाऽभिदुद्रुवुः।।

ततो युगान्ताभ्रसमस्वनं मह--
न्महेन्द्रचापप्रतिमं च गाण्डिवम्।
चकर्ष दोर्भ्यों विहसन्भृशं ययौ
दहंस्त्वहीयान्यमराष्ट्रवर्धनः।।

स तानुदीर्णान्सरथान्सवारणा--
न्पदातिसङ्घांश्च महाधनुर्धरः।
विपन्नसर्वायुधजीवितान्रणे
चकार वीरो यमराष्ट्रवर्धनान्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे षट्‌चत्वारिंशदधिकशततमोऽध्यायः।। 146 ।।