द्रोणपर्व
अध्यायः १४०
धृतराष्ट्र उवाच।
`दातव्यमद्य मन्येऽहं पाण्डवानां स्वकं पुनः।
न विग्रहो हि बलिना श्रेयसे स्याद्यथातथा।।
पादयोः प्रणतेनापि भुक्त्वाऽप्युच्छिष्टमप्यरेः।
अतोऽन्यद्वापि कृत्वैव जीव्यं लोके नरेण वै।।
जीवतैव परो लोकः साध्यते चैव सर्वथा।
अजीवतस्तथैवासीन्न सुखं न परा गतिः।।
विनाशे सर्वथोत्पन्ने न बालो बुध्यते क्रियाम्।
मिथ्याभिमानदग्धो हि न बुद्ध्येत कृताकृते'।।
अहन्यहनि मे दीप्तं यशः पतति सञ्जय।
हता मे बहवो योधा मन्ये कालस्य पर्ययम्।।
धनञ्जयः सुसङ्क्रद्धः प्रविष्टो मामकं बलम्।
रक्षितं द्रौणिकर्णाभ्यामप्रवेश्यं सुरैरपि।।
ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः।
सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च।।
तदाप्रभृति मां शोको दहत्यग्निरिवाशयम्।
ग्रस्तानिव प्रपश्यामि भूमिपालान्ससैन्धवान्।।
अप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः।
`क्रुद्धस्य देवराजस्य शक्रस्येव महाद्युतेः'।
चक्षुर्विषयमापन्नः कथं जीवितमाप्नुयात्।।
अनुमानाच्च पश्यामि नास्ति सञ्जय सैन्धवः।
युद्धं तु तद्यथावृत्तं तन्ममाचक्ष्व तत्त्वतः।।
यच्च विक्षोभ्य महतीं सेनामालोड्य चासकृत्।
एकः प्रविष्टः सङ्क्रुद्धो नलिनीमिव कुञ्जरः।।
तस्य मे वृष्णिवीरस्य ब्रूहि युद्धं यथातथम्।
धनञ्जयार्थे यत्तस्य कुशलो ह्यसि सञ्जय ।।
सञ्जय उवाच।
तथा तु वैकर्त नपीडितं तं
भीमं प्रयान्तं पुरुषप्रवीरम्।
समीक्ष्य राजन्नरवीरमध्ये
शिनिप्रवीरोऽनुययौ रथेन।।
नदन्यथा वज्रधरस्तपान्ते
ज्वलन्यथा जलदान्ते च सूर्यः।
निघ्नन्नमित्रान्धनुषा दृढेन
स कम्पयंस्तव पुत्रस्य सेनाम्।।
तं यान्तमश्वै रजतप्रकाशै--
रायोधने वीरतरं नदन्तम्।
नाशक्नुवन्वारयितुं त्वदीयाः
सर्वे रथा भारत माधवाग्र्यम्।।
अमर्षपूर्णस्त्वनिवृत्तयोधी
शरासनी काञ्चनवर्मधारी।
अलम्बुसः सात्यकिं माधवाग्र्य--
मवारयद्राजवरोऽभिपत्य।।
तयोरभूद्भारत सम्प्रहारो
यथाविधो नैव बभूव कश्चित्।
प्रेक्षन्त एवाहवशोभिनौ तौ
योधास्त्वदीयाश्च परे च सर्वे।।
आविध्यदेनं दशभिः पृषत्कै--
रलम्बुसो राजवरः प्रसह्य।
अनागतानेव तु तान्पृषत्कां--
श्चिच्छेद बाणैः शिनिपुङ्गवोऽपि।।
पुनः स बाणैस्त्रिभिरग्निकल्पै--
राकर्णपूर्णैर्निशितैः सपुङ्खैः।
विव्याध देहावरणं विदार्य
ते सात्यकेराविविशुः शरीरम्।।
तैः कायमस्याग्न्यनिलप्रभावै--
र्विदार्य बाणैर्निशितैर्ज्वलद्भिः।
आजघ्निवांस्तान्रजतप्रकाशा--
नश्वांश्चतुर्भिश्चतुरः प्रसह्य।।
तथा तु तेनाभिहतस्तरस्वी
नप्ता शिनेश्चक्रधरप्रभावः।
अलम्बुसस्योत्तमवेगवद्भि--
रश्वांशअचतुर्भिर्निजघान बाणैः।।
अथास्य सूतस्य शिरो निकृत्य
भल्लेन कालानलसन्निभेन।
सकुण्डलं पूर्मशशिप्रकाशं
भ्राजिष्णु वक्त्रं निचकर्त देहात्।।
निहत्य तं पार्थिवपुत्रपौत्रं
सङ्ख्ये यदूनामृषभः प्रमाथी।
ततोऽन्वयादर्जुनमेव वीरः
सैन्यानि राजंस्तव सन्निवार्य।।
अन्वागतं वृष्णिवीरं समीक्ष्य
तथारिमध्ये परिवर्तमानम्।
घ्नन्तं कुरूणामिषुभिर्बलानि
पुनःपुनर्वायुमिवाभ्रपूगान्।।
ततोऽवहन्सैन्धवाः साधुदान्ता
गोक्षीरकुन्देन्दुहिमप्रकाशाः।
सुवर्णजालावतताः सदश्वा
यतोयतः कामयते नृसिंहः।।
अथात्मजास्ते सहिताऽभिपेतु--
रन्ये च योधास्त्वरितास्त्वदीयाः।
कृत्वा मुखं भारतयोधमुख्यं
दुःशासनं त्वत्सुतमाजमीढ।।
ते सर्वतः सम्परिवार्य सङ्ख्ये
शैनेयमाजघ्नुरनीकसाहाः।
स चापि तान्प्रवरः सात्वतानां
न्यवारयद्बाणजालेन वीरः।।
निवार्य तांस्तूर्णममित्रघाती
नप्ता शिनेः पत्रिभिरग्निकल्पैः।
दुःशासनस्याभिजघान वाहा--
ञ्जवीयसस्तन्मनसोऽपि बाणैः।।
ततोऽर्जुनो हर्षमवाप सङ्ख्ये
कृष्णश्च दृष्ट्वा पुरुषप्रवीरम्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे चत्वारिंशदधिकशततमोऽध्यायः।। 140 ।।