द्रोणपर्व

अध्यायः १४१

Drona Parva (Sanskrit) · Adhyaya 141
अक्षर का आकार

सञ्जय उवाच।

तमुद्यतं महाबाहुं दुःशासनरथं प्रति।
त्वरितं त्वरणीयेषु धनञ्जयजयैषिणम्।।

त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः।
सेनासमुद्रमाविष्टमनन्तं पर्यवारयन्।।

अथैनं रथवंशेन सर्वतः सन्निवार्य ते।
अवाकिरञ्छरव्रातैः क्रुद्धाः परमधन्विनः।।

अजयद्राजपुत्रांस्तान्भ्राजमानान्महारणे।
एकः पञ्चाशतं शत्रून्सात्यकिः सत्यविक्रमः।।

सम्प्राप्य भारतीमध्यं तलघोषसमाकुलम्।
असिशक्तिगदापूर्णमप्लुवं सागरं यथा।।

`अथैनमनुवृत्तास्तु त्रिगर्ताः सहिताः पुनः।
तीव्रेण रथवंशेन महता पर्यवारयन्।
विकर्षन्तोऽतिमात्राणि चापानि भरतर्षभ'।।

तत्राद्भुतमपश्याम शैनेयचरितं रणे।
प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्यामि लाघवात्।।

उदीचीं दक्षिणां प्राचीं प्रतीचीं विदिशस्तथा।
पुनर्मध्यगतो वीर आहवे युद्धदुर्मदः।।

एकः पर्यचरन्रङ्गे बहुधा स महाबलः।
नृत्यन्निवाचरच्छूरो यथा रथशतं तथा।।

तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः।
त्रिगर्ताः सन्न्यवर्तन्त सन्तप्ताः स्वजनं प्रति।।

तमन्ये शूरसेनानां शूराः सङ्ख्ये न्यवारयन्।
नियच्छन्तः शरव्रातैर्मत्तं द्विपमिवाङ्कुशैः।।

तैर्व्यवाहरदार्यात्मा मुहूर्तादेव सात्यकिः।
ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः।।

तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम्।
अथ पार्थं महाबाहुर्धनञ्जयमुपासदत्।।

तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान्।
तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत्।।

तमायान्तमभिप्रेक्ष्य केशवः पार्थमब्रवीत्।
असावायाति शैनेयस्तव पार्थ पदानुगः।।

एष शिष्यः सखा चैव तव सत्यपराक्रमः।
सर्वान्योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः।।

एष कौरवयोधानां कृत्वा घोरमुपद्रवम्।
तव प्राणैः प्रियतमः किरीटिन्नेति सात्यकिः।।

एष द्रोणं तथा भोजं कृतवर्माणमेव च।
कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः।।

धर्मराजप्रियान्वेषी हत्वा योधान्वरान्वरान्।
शूरश्चैव कृतास्त्रश्च फल्गुनाभ्येति सात्यकिः।।

कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः।
तव दर्शनमन्विच्छन्पाण्डवाभ्येति सात्यकिः।।

बहूनेकरथेनाजौ योधयित्वा महारथान्।
आचार्यप्रमुखान्पार्थ प्रयात्येष स सात्यकिः।।

स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम्।
प्रेषितो धर्मराजेन पार्थैषोऽभ्येति सात्यकिः।।

प्रियः शिष्यश्च ते पार्थ त्वया तुल्यपराक्रमः।
विद्राव्यं महतीं सेनामेष ह्यायाति सात्यकिः।।

यस्य नास्ति समो योधः कौरवेषु कथञ्चन।
सोऽयमायाति कौन्तेय सात्यकिर्युद्धदुर्मदः।।

कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव।
निहत्य बहुलाः सेनाः पार्थैषोऽब्येति सात्यकिः।।

एष राजसहस्राणां वक्त्रैः पङ्कजसन्निभैः।
आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः।।

एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे।
निहत्य जलसन्धं च क्षिप्रमायाति सात्यकिः।।

रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम्।
तृणवद्व्यस्य कौरव्यानेष ह्यायाति सात्यकिः।।

सञ्जय उवाच।

ततः प्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत्।
न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः।।

न हि जानामि वृत्तान्तं धर्मराजस्य केशव।
सात्वतेन विहीनः स यदि जीवति वा न वा।।

एतेन हि महाबाहो रक्षितव्यः स पार्थिवः।
तमेष कथमुत्सृज्य मम कृष्ण पदानुगः।।

राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः।
प्रत्युद्याति च शैनेयमेष भूरिश्रवा रणे।।

सोऽयं गुरुतरो भारः सैन्धवार्थे समाहितः।
ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः।।

जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः।
श्रान्तश्चैष महाबाहुरल्पप्राणश्च साम्प्रतम्।।

परिश्रान्ता हयाश्चास्य हययन्ता च माधव।
न च भूरिश्रवाः श्रान्तः ससहायश्च केशव।।

अपीदानीं भवेदस्य क्षेममस्मिन्समागमे।
कच्चिन्न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः।
गोष्पदं प्राप्य सीदेत महौजाः शिनिपुङ्गवः।।

अपि कौरवमुख्येन कृतास्त्रेण महात्मना।
समेत्य भूरिश्रवसा स्वस्तिमान्सात्यकिर्भवेत्।।

व्यतिक्रममिमं मन्ये धर्मराजस्य केशव।
आचार्याद्भयमुत्सृज्य यः प्रैषयत सात्यकिम्।।

ग्रहणं धर्मराजस्य खगः श्येन इवामिषम्।
नित्यमाशंसते द्रोणः कच्चित्स्यात्कुशली नृपः।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे एकचत्वारिंशदधिकशततमोऽध्यायः।। 141 ।।