द्रोणपर्व

अध्यायः १३९

Drona Parva (Sanskrit) · Adhyaya 139
अक्षर का आकार

सञ्जय उवाच।

ततः कर्णो महाराज भीमं विद्धा त्रिभिः शूरैः।
`पुनश्च षड्‌भिस्तीक्ष्णाग्रैरविध्यत्कङ्कपत्रिभिः'।
मुमोच शरवर्षाणि विचित्राणि बहूनि च।।

वध्यमानो महाबाहुः सूतपुत्रेण पाण्डवः।
न विव्यथे भीमसेनो भिद्यमान इवाचलः।।

स कर्णं कर्णिना कर्णे पीतेन निशितेन च।
विव्याध सुभृशं सङ्ख्ये तैलधौतेन मारिष।।

स कुण्डलं महच्चारु कर्णस्यापातयद्भुवि।
तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात्।।

अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे।
आजघान भृशं क्रुद्धो हसन्निव वृकोदरः।।

पुनरस्य त्वरन्भीपो नाराचान्दश भारत।
रणे प्रैषीन्महाबाहुर्निर्मुक्ताशीविषोपमान्।।

ते ललाटं विनिर्भिद्य सूतपुत्रस्य भारत।
विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः।।

ललाटस्थैस्ततो बाणैः सूतपुत्रो व्यरोचत।
नीलोत्पलमयीं मालां धारयन्वै यथा पुरा।।

सोऽतिविद्धो भृशं कर्णः पाण्डवेन तरस्विना।
रथकूबरमालम्ब्य न्यमीलयत लोचने।।

स मुहूर्तात्पुनः संज्ञां लेभे कर्णः परन्तपः।
रुधिरोक्षितसर्वाङ्गः क्रोधमाहारयत्परम्।।

ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना।
वेगं चक्रे महावेगो भीमसेनरथं प्रति।।

तस्मै कर्णः शतं राजन्निषूणां गार्ध्रवाससाम्।
अमर्षी बलवान्क्रुद्धः प्रेषयामास भारत।।

ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः।
समरे तमनादृत्य तस्य वीर्यमचिन्तयन्।।

कर्णस्ततो महाराज पाण्डवं नवभिः शरैः।
आजघानोऽसि क्रुद्धः क्रुद्धरूपं परन्तप।।

तावुभौ नरशार्दूलौ शार्दूलाविव दंष्ट्रिणौ।
`शरदंष्ट्रौ समासाद्य ततक्षतुररिन्दमौ'।
जिमूताविव चान्योन्यं प्रववर्षतुराहवे।।

तलशब्दरवैश्चैव त्रासयेतां परस्परम्।
शरजालैश्च विविधैस्त्रासयामासतुर्मृधे।।

अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ।
ततो भीमो महाबाहुः सूतपुत्रस्य भारत।।

क्षुरप्रेण धनुश्छित्त्वा ननाद परवीरहा।
तदपास्य धनुश्छिन्नं सूतपुत्रो महारथः।।

अन्यत्कार्मुकमादत्त भारघ्नं वेगवत्तरम्।
तदप्यथ निमेषार्धाच्चिच्छेदास्य वृकोदरः।।

तृतीयं च चतुर्थं च पञ्चमं षष्ठमेव हि।
सप्तमं चाष्टमं चैव नवमं दशमं तथा।।

एकादशं द्वादशं च त्रयोधशमथापि च।
चतुर्दशं पञ्चदशं षोडशं च वृकोदरः।।

तथा सप्तदशं वेगादष्टादशमथापि वा।
बहूनि भीमश्चिच्छेद कर्णस्यैवं धनूंषि हि।
निमेषार्धात्ततः कर्णो धनुर्हस्तो व्यतिष्ठत।।

दृष्ट्वा स कुरुसौवीरसिन्धुवीरबलक्षयम्।
स वर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम्।।

`रथैर्विमथितैर्भल्लैरश्वैश्चान्यैः प्रवल्गितैः।
भ्रष्टश्रीकैर्नरवरैः पांसुकुण्ठितमूर्धजैः'।।

हस्त्यश्वरथदेहांश्च गतासून्प्रेक्ष्य सर्वशः।
सूतपुत्रस्य संरम्भाद्दीप्तं वपुरजायत।।

स विष्फार्य महच्चापं कार्तस्वरविभूषितम्।
भीमं प्रैक्षत राधेयो घोरं घोरेण चक्षुषा।।

ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरो चत।
मध्यन्दिनगतोऽर्चिष्माञ्शरदीव दिवाकरः।।

मरीचिविकचस्येव राजन्भानुमतो वपुः।
आसीदाधिरथेर्घोरं वपुः शरशताचितम्।।

कराभ्यामाददानस्य सन्दधानस्य चाशुगान्।
कर्षतो मुञ्चतो बाणान्नान्तरं ददृशे रणे।।

अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम्।
कर्णस्यासीन्महीपाल सव्यं दक्षिणमस्यतः।।

स्वर्णपुङ्खाः सुनिशिताः कर्मचापच्युताः शराः।
प्राच्छादयन्महाराज दिशः सूर्य इवांशुभिः।।

ततः कनकपुङ्खानां शराणां नतपर्वणाम्।
धनुश्च्युतानां वियति ददृशे बहुधा व्रजः।।

बाणासनादाधिरथेः प्रभवन्ति स्म सायकाः।
श्रेणीकृता व्यरोचन्त राजन्क्रौञ्चा इवाम्बरे।।

गार्ध्रपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान्।
महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान्।।

ते तु चापबलोद्धूताः शातकुम्भविभूषिताः।
अजस्रमपतन्बाणा भीमसेनरथं प्रति।।

ते व्योम्नि रुक्मविकृता व्यकाशन्त सहस्रशः।
शलभानामिव व्राताः शराः कर्णसमीरिताः।।

चापादाधिरथेर्मुक्ताः प्रपतन्तश्चकाशिरे।
एको दीर्घ इवात्यर्थमाकाशे संस्थितः शरः।।

पर्वतं वारिधाराभिच्छादयन्निव तोयदः।
कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः।।

तत्र भारत भीमस्य बलं वीर्यं पराक्रमम्।
व्यवसायं च पुत्रास्ते ददृशुः सहसैनिकाः।।

तां समुद्रमिवोद्भूतां शरवृष्टिं समुत्थिताम्।
अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत्।।

रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशाम्पते।
आकर्षान्मण्डलीभूतं शक्रचापमिवापरम्।
तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम्।।

सुवर्णपुङ्खैर्भीमेन सायकैर्नतपर्वभिः।
गगने रचिता माला काञ्चनीव व्यरोचतं।।

ततो व्योम्नि विषक्तानि शरजालानि भागशः।
आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः।।

कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः।
अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे।
तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः।।

न स्म सूर्यस्तदा भाति न स्म वाति समीरणः।
शरजालावृते व्योम्नि न प्राज्ञायत किञ्चन।।

स भिमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः।
उपारोहदनादृत्य तस्य वीर्यं महात्मनः।।

तयोर्विसृजतोस्तत्र शरजालानि मारिष।
वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम्।।

अन्योन्यशरसंसम्पर्शात्तयोर्मनुजसिंहयोः।
आकाशे भरतश्रेष्ठ पावकः समजायत।।

तथा कर्णः शितान्बाणान्कर्मारपरिमार्जितान्।
सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्क्षया।।

तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत्।
विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत्।।

पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः।
अमर्षी बलवान्क्रुद्धौ दिधक्षन्निव पावकः।।

ततश्चटचटाशब्दो गोधाघातादभूत्तयोः।।

तलशब्दश्च सुभहान्सिंहनादश्च भैरवः।
रथनेमिनिनादश्च ज्याशब्दश्चैव दारुणः।।

योधा व्युपारमन्युद्धाद्दिदृक्षन्तः पराक्रमम्।
कर्णपाण्डवयो राजन्परस्परवधैषिणोः।।

देवर्षिसिद्धगन्धर्वाः साधुसाध्वित्यपूजयन्।
मुमुचुः पुष्पवर्षं च विद्याधरगणास्तथा।।

ततो भीमो महाबाहुः संरम्भी दृढविक्रमः।
अस्त्रैरस्त्राणि संवार्य शरैर्विव्याध सूतजम्।।

कर्णोऽपि भीमसेनस्य निवार्येषून्महाबलः।
प्राहिणोन्नव नाराचानाशीविषसमान्रणे।।

तावद्भिरथ तान्भीमो व्योम्नि चिच्छेद पत्रिभिः।
नाराचान्सूत पुत्रस्य तिष्ठतिष्ठेति चाब्रवीत्।।

ततो भीमो महाबाहुः शरं क्रुद्धान्तकोपमम्।
मुमोचाधिरथेर्वीरो यमदण्डमिवापरम्।।

तमापतन्तं चिच्छेद राधेयः प्रहसन्निव।
त्रिभिः शरैः शरं राजन्पाण्डवस्य प्रतापवान्।।

पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः।
तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत्।
युध्यमानस्य भीमस्य सूतपुत्रोऽस्त्रमायया।।

तस्येषुधी धनुर्ज्यां च बाणैः सन्नतपर्वभिः।
रश्मीन्योक्त्राणि चाश्वानां क्रुद्धः कर्णोऽच्छिनन्मृधे।

तस्याश्वांश्च पुनर्हत्वा सूतं विव्याध पञ्चभिः।
सोपसृत्य द्रुतं सूतो युधामन्यो रथं ययौ।।

विहसन्निव भीमस्य क्रुद्धः कालानलद्युतिः।
ध्वजं चिच्छेद राधेयः पताकां च व्यपातयत्।।

स विधन्वा महाबाहुरथ शक्तिं परामृशत्।
तां व्यवासृजदाविध्य क्रुद्धः कर्णरथं प्रति।।

तामाधिरथिरायस्तः शक्तिं काञ्चनभूषणाम्।
आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः।।

साऽपतद्दृशधा छिन्ना कर्णस्य निशितैः शरैः।
अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः।।

स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम्।
खङ्गं चान्यतरप्रेप्सुर्जयं मरणमेव वा।।

तदस्य तरसा क्रुद्धो व्यधमच्चर्म सुप्रभम्।
शरैर्बहुभिरत्युग्रैः प्रहसन्निव भारत।।

स विचर्मा महाराज विरथः क्रोधमूर्च्छितः।
असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति।।

स धनुः सूतपुत्रस्य सज्यं छित्त्वा महानसिः।
पपात भुवि राजेन्द्र क्रुद्धः सर्प इवाम्बरात्।।

ततः प्रहस्याधिरथिरन्यदादाय कार्मुकम्।
शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम्।।

व्यायच्छत्स शरान्कर्णः कुन्तीपुत्रजिघांसया।
सहस्रशो महाराज रुक्मपुङ्खान्सुतेजनान्।।

स वध्यमानो बलवान्कर्णचापच्युतैः शरैः।
वैहायसं प्राक्रमद्धै कर्णस्य रथमाविशत्।।

स तस्य चरितं दृष्ट्वा सङ्ग्रामे विजयैषिणः।
ध्वजालयस्थो राधेयो भीमसेनमवञ्चयत्।।

तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम्।
ध्वजमस्य समारुह्य तस्मै भीमो महीतले।।

तदस्य कुरवः सर्वे चाणाश्चाभ्यपूजयन्।
यदियेष रथात्कर्णं हर्तुं तार्क्ष्य इवोरगम्।।

स च्छिन्नधन्वा विरथः स्वधर्ममनुपालयन्।
स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः।।

तद्विचिन्त्य स राधेयस्तत एनं समभ्ययात्।
संरम्भात्पाण्डवं सङ्ख्ये युद्धाय समुपस्थितम्।।

तौ समेतौ महाराज स्पर्धमानौ महाबलौ।
जीमूताविव घर्मान्ते गर्जमानौ नरर्षभौ।।

तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः।
अमृष्यमाणयोः सङ्ख्ये देवदानवयोरिव।।

क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः।
दृष्ट्वाऽर्जुनहतान्नागान्पतितान्पर्वतोपमान्।
रथमार्गविघातार्थं व्यायुधः प्रविवेश ह।।

हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च।
पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यवर्तत।।

व्यवस्थानमथाकाङ्क्षन्धनञ्जयशरैर्हतम्।
उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरञ्जयः।।

महौषधिसमायुक्तं हनूमानिव पर्वतम्।
तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः।।

हस्त्यङ्गान्यथ कर्णाय प्राहिणोत्पाण्डुनन्दनः।
चक्राण्यश्चांस्तथा चान्यद्यद्यत्पश्यति भूतले।।

तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः।
तदस्य सर्वं चिच्छेद क्षिप्तंक्षिप्तं शितैः शरैः।।

भीमोऽपि मुष्टिमुद्यम्य वज्रगर्भं सुदारुणम्।
हन्तुमैच्छत्सूतपुत्रं संस्परन्नर्जुनं क्षणात्।।

शक्तोऽपि नावधीत्कर्णं समर्थः पाण्डुनन्दनः।
रक्षमाणः प्रतिज्ञां तां या कृता सव्यसाचिना।।

तमेवं व्याकुलं भीमं भूयोभूयः शितैः शरैः।
मूर्च्छयाभिपरीताङ्गमकरोत्सूतनन्दनः।।

व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन्।
धनुषोग्रेण तं कर्णः सोऽभिद्रुत्य परामृशत्।।

धनुषा स्पृष्टमात्रेण क्रुद्धः सर्प इव श्वसन्।
आच्छिद्य स धनुस्तस्य कर्णं मूर्धन्यताडयत्।।

ताडितो भीमसेनेन क्रोधादारक्तलोचनः।
विहसन्निव राधेयो वाक्यमेतदुवाच ह।।

पुनः पुनस्तूबरक मूढ औदरिकेति च।
अकृतास्त्रक मा योत्सीर्बाल सङ्ग्रामकातर।।

यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव।
तत्र त्वं दुर्मते योग्यो न युद्धेषु कदाचन।।

मूलपुष्पफलाहारो व्रतेषु नियमेषु च।
उचितस्त्वं वने भीम न त्वं युद्धविशारदः।।

क्व युद्वं क्व मुनित्वं च वनं गच्छ वृकोदर।
न त्वं युद्धोचितस्तात वनवासरतिर्भवान्।।

सूदान्भृत्यजनान्दासांस्त्वं गृहे त्वरयन्भृशम्।
योग्यस्ताडयितुं क्रोधाद्भोजनार्थं वृकोदर।।

मुनिर्भूत्वाऽथवा भीम फलान्यादत्स्व दुर्मते।
वनाय व्रज कौन्तेय न त्वं युद्धविशारदः।।

फलमूलाशने शक्तस्त्वं तथाऽतिथिपूजने।
न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर।।

`सञ्जय उवाच।

एवं तं विरथं दृष्ट्वा स्मृत्वा कर्णोऽब्रवीद्वचः'।।

कौमारे यानि वृत्तानि विप्रियाणि विशाम्पते।
तानि सर्वाणि चाप्येव रूक्षाण्यश्रावयद्भृशम्।।

अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः।
प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा।।

योद्धव्यं मारिषान्यत्र न योद्धव्यं च मादृशैः।
मादृशैर्युध्यमानानामेतच्चान्यच्च विद्यते।।

गच्छ वा यत्र तौ कृष्णौ तौ त्वां रक्षिष्यतो रणे।
गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक।।

सञ्जय उवाच।

कर्णस्य वचनं श्रुत्वा भीमसेनोऽतिदारुणम्।
उवाच कर्णं प्रहसन्सर्वेषां शृण्वतां वचः।।

जितस्त्वमसकृद्दुष्ट कत्थसे किं वृथात्मना।
जयाजयौ महेन्द्रस्य लोके दृष्टौ पुरातनैः।।

मल्लयुद्धं मया सार्धं कुरु दुष्कुलसम्भव।
महाबलो महाभोगी कीचको निहतो यथा।
तथा त्वां घातयिष्यामि पश्यत्सु सर्वराजसु।।

भीमस्य मतमाज्ञाय कर्णो बुद्धिमतां वरः।
विरराम रणात्तस्मात्पश्यतां सर्वधन्विनाम्।।

एवं तं विरथं कृत्वा कर्णो राजन्व्यकत्थयत्।
प्रसुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः।।

तं ब्रुवाणं तु भीमः स काङ्क्षन्भीमपराक्रमः।
न चाकार्षीन्मृतं स्मृत्वा ह्यर्जुनस्य महाबलम्।।

तस्य कार्मुकमारुज्य बभञ्जाशुपराक्रमी।।

ततो दृष्ट्वा महाराज वासुदेवो महाद्युतिः।
अर्जुनार्जुन पश्येमं भीमं कर्णेन बाधितम्।।

सञ्जय उवाच।

एवमुक्तस्तदा पार्थः केशवेन महात्मना।
भीमसेनं तथाभूतं क्रोधसंरक्तलोचनः।
अमर्षवशमापन्नो निर्दहन्निव चक्षुषा'।।

ततो राजञ्शिलाधौताञ्शराञ्शाखामृगध्वजः।
प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः।।

ततः पार्थभुजोत्सृष्टाः शराः कनकभूषणाः।
गाण्डीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन्।।

स भुजङ्गैरिवाविष्टैर्गाण्डीवप्रेषितैः शरैः।
भीमसेनादपासेधत्सूतपुत्रं धनञ्जयः।।

स च्छिन्नधन्वा भीमेन धनञ्जयशराहतः।
कर्णो भीमादपायासीद्रथेन महता द्रुतम्।।

भीमोऽपि सात्यकेर्वाहं समारुह्य नरर्षभः।
अन्वयाद्धातरं सङ्ख्ये पाण्डवं सव्यसाचिनम्।।

ततः कर्णं समुद्दिश्य त्वरमाणो धनञ्चयः।
नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः।।

स गरुत्मानिवाकशे प्रार्थयन्भुजगोत्तमम्।
नाराचोऽभ्यपतत्कर्णं तूर्णं गाण्डीवचोदितः।।

तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा।
धनञ्जयभयात्कर्णमुज्जिहीर्षन्महारथः।।

ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः।
शिलीमुखैर्महाराज मागास्तिष्ठेति चाब्रवीत्।।

स तु मत्तगजाकीर्णमनीकं रथसङ्कुलम्।
तूर्णमभ्याविशद्द्रौणिर्धनञ्जयशरार्दितः।।

ततः सुवर्णपृष्ठानां चापानां कूजतां रणे।
शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद्बली।।

धनञ्जयस्तथाऽऽयान्तं पृष्ठतो द्रौणिमभ्यगात्।
नातिदीर्घमिवाध्वानं शरैः सन्त्रासयन्बलम्।।

विदार्य देहान्नाराचैर्नरवारणवाजिनाम्।
कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः।।

तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम्।
पाकशासनिरायत्तः पार्थः स निजघान ह।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे एकोनचत्वारिंशदधिकशततमोऽध्यायः।। 139 ।।