द्रोणपर्व
अध्यायः १३५
धृतराष्ट्र उवाच।
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम्।
यत्राधिरथिरायत्तौ नातरत्पाण्डवं रणे।।
कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणे।
न च कर्णसमं लोके पश्यामि कञ्चन।
इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः।।
कर्णो हि बलवाञ्छूरो दृढधन्वा जितक्लमः।
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा।।
वसुषेणसहायं मां नालं देवाऽपि संयुगे।
किं नु पाण्डुसुता राजन्गतसत्वा विचेतसः।।
तत्र तं निर्जितं दृष्ट्वा भुजङ्गमिव निर्विषम्।
युद्धात्कर्णमपक्रान्तं किंस्विद्दुर्योधनोऽब्रवीत्।।
अहो दुर्मुखमेवैकं युद्धानामविशारदम्।
प्रावेशयद्धुतवहं पतङ्गमिव मोहितः।।
अश्वत्थामा मद्रराजः कृपः कर्णश्च सङ्गताः।
न शक्त्याः प्रमुखे स्थातुं नूनं भीमस्य सञ्जय।।
तेऽपि चास्य महाघोरं बलं नागायुतोपमम्।
जानन्तो व्यवसायं च क्रूरं मारुततेजसः।।
किमर्थं क्रूरकर्माणं यमकालान्तकोपमम्।
बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे।।
कर्णस्त्वेको महाबाहुः स्वबाहुबलदर्पितम्।
भीमसेनमनादृत्य रणेऽयुध्यत सूतजः।।
योऽजयत्समरे कर्णं पुरन्दर इवासुरम्।
न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे।।
द्रोणं यः सम्प्रमथ्यैकः प्रविष्टो मम वाहिनीम्।
भीमो धनञ्जयान्वेषी कस्तमार्च्छेज्जिजीविषु।।
को हि सञ्जय भीमस्य स्थातुमुत्सहतेऽग्रतः।
उद्यताशनिहस्तस्य महेन्द्रस्येव दानवः।।
प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः।
न भीमसेनं सम्प्राप्य निवर्तेत कदाचन।।
पतङ्गा इव वह्निं ते प्राविशन्नल्पचेतसः।
ये भीमसेनं सङ्क्रुद्धमन्वधावन्विमोहिताः।।
यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम्।
उक्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा।।
तन्नूनमभिसञ्चिन्त्य दृष्ट्वा कर्णं च निर्जितम्।
दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत्।।
यश्च सञ्जय दुर्बुद्धिरब्रवीत्समितौ मुहुः।
कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान्।।
स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम्।
प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति पुत्रकः।।
दृष्ट्वा भ्रातॄन्हतान्सङ्ख्ये भीमसेनेन दंशितान्।
आत्मापराधात्सम्मूढो नूनं तप्यति पुत्रकः।।
को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत्।
भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम्।।
बडबामुखमध्यस्थो मुच्येतापि हि मानवः।
न भीममुखसम्प्राप्तो मुच्येदिति मतिर्मम।।
न पार्था न च पञ्चाला न च केशवसात्यकी।
जानते युधि संरब्धा जीवितं परिरक्षितुम्।।
अहो मम सुतानां हि विपन्नं सूत जीवितम्।।
सञ्जय उवाच।
यस्त्वं शोचसि कौरव्य वर्तमाने महाभये।
त्वमस्य जगतो मूलं विनाशस्य न संशयः।।
स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितः।
उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम्।।
स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम्।
तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम।।
यत्तु कुत्सयसे योधान्युध्यमानान्महाबलान्।
तत्र ते वर्तयिष्यामि यथा युद्धमवर्तत।।
दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम्।
नामृष्यन्त महेष्वासाः सोदर्याः पञ्च भारत।।
दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः।
पाण्डवं चित्रसन्नाहास्तं प्रतीपमुपाद्रवन्।।
ते समन्तान्महाबाहुं परिवार्य वृकोदरम्।
दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः।।
आगच्छतस्तान्सहसा कुमारान्देवरूपिणः।
प्रतिजग्राह समरे भीमसेनो हसन्निव।।
तव दृष्ट्वा तु तनयान्दुर्मर्षणपुरोगमान्।
अभ्यवर्तत राधेयो भीमसेनं महाबलम्।।
विसृजन्विशिखांस्तीक्ष्णान्स्वर्णपुङ्खांञ्छिलाशितान्।
तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव।।
कुरवस्तु ततः कर्णं परिवार्य समन्ततः।
अवाकिरन्भीमसेनं शरैः सन्नतपर्वभिः।।
तान्बाणैः पञ्चविंशत्या साश्वान्राजन्नरर्षभान्।
ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम्।।
प्रापतन्स्यन्दनेभ्यस्ते सार्धं सूतैर्गतासवः।
चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः।।
तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम्।
संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान्।।
स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः।
सूतपुत्रो महाराज भीमसेनमवैक्षत।।
तं भीससेनः संरम्भात्क्रोधसंरक्तलोचनः।
विष्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे पञ्चत्रिंशदधिकशततमोऽध्यायः।। 135 ।।