द्रोणपर्व
अध्यायः १३४
सञ्जय उवाच।
सर्वथा विरथः कर्णः पुनर्भीमेन निर्जितः।
रथमन्यं समास्थाय पुनर्विव्याध पाण्डवम्।।
महागजाविवासाद्य विषाणाग्रैः परस्परम्।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः।।
अथ कर्णः शरव्रातैर्भीमसेनं समार्पयत्।
ननाद च महानादं पुनर्विव्याध चोरसि।।
तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः।
पुनर्विव्याध सप्तत्या शराणां नतपर्वणाम्।।
कर्णस्तु नवभिर्भीमं भित्त्वा राजंस्तनान्तरे।
ध्वजमेकेन विव्याध विशोकं च त्रिभिः शरैः।।
सायकानां ततः पार्थस्त्रिषष्ट्या प्रत्यविध्यत।
तोत्रैरिव महानागं कशाभिरिव वाजिनम्।।
सोऽतिविद्धो महाराज पाण्डवेन यशस्विना।
सृक्विणी लेलिहन्वीरः क्रोधरक्तान्तलोचनः।।
ततः शरं महाराज सर्वकायावदारणम्।
प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम्।।
स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः।
अगच्छद्दारयन्भूमिं चित्रपुङ्खः शिलीमुखः।।
ततो भीमो महाबाहुः क्रोधसंरक्तलोचनः।
वज्रकल्पां चतुष्किष्कुं गुर्वी रुक्माङ्गदां गदाम्।
प्राहिणोत्मूतपुत्राय षडस्रामविचारयन्।।
तया जघानाधिरथेः सदश्वान्साधुवाहिनः।
गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान्।।
ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ।
ध्वजमाघिरथेश्छित्त्वा सूतमभ्यहनच्छरैः।।
हताश्वसूतमुत्सृज्य स रथं पतितध्वजम्।
विष्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः।।
तत्राद्भुतमपश्याम राधेयस्य पराक्रमम्।
विरथो रथिनां श्रेष्ठो वारयामास यद्रिपुम्।।
विरथं तं नरश्रेष्ठं दृष्ट्वाऽऽधिरथिमाहवे।
दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम्।।
एष दुर्मुख राधेयो भीमेन विरथीकृतः।
तं रथेन नरश्रेष्ठ सम्पादय महारथम्।।
ततो दुर्योधनवचः श्रुत्वा भारत दुर्मुखः।
त्वरमाणोऽभ्ययात्कर्णं भीमं चावारयच्छरैः।।
दुर्मुखं प्रेक्ष्य सङ्ग्रामे सूतपुत्रपदानुगम्।
वायुपुत्रः प्रहृष्टोऽभूत्सृक्विणी परिसंलिहन्।।
ततः कर्णं महाराज वारयित्वा शिलीमुखैः।
दुर्मुखाय रथं तूर्णं प्रेषयामास पाण्डवः।।
तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः।
सुमुखैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम्।।
ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते।
आस्थितः प्रबभौ राजन्दीप्यमान इवांशुमान्।।
शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम्।
दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत।।
तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम्।
दीर्घमुष्णं श्वसन्वीरो न किञ्चित्प्रत्यपद्यत।।
तस्मिंस्तु विवरे राजन्नाराचान्गार्धवाससः।
प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश।।
ते तस्य कवचं भित्त्वा स्वर्णचित्रं महोजसः।
हेमपुङ्खा महाराज व्यशोभन्त दिशो दश।।
अपिबन्सूत पुत्रस्य शोणितं रक्तभोजनाः।
क्रुद्धा इव मनुष्येन्द्र भुजङ्गाः कालचोदिताः।।
प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः।
अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः।।
तं प्रत्यविध्यद्राधेयो जाम्बूनदविभूषितैः।
चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन्।।
ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः।
प्राविशन्मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव।।
ते व्यरोचन्त नाराचाः प्रविशन्तो वसुन्धराम्।
गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः।।
स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः।
सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा।।
स भीमस्त्रिभिरायस्तः सूतपुत्रं पतत्रिभिः।
सुपर्णवेगैर्विव्याध सारथिं चास्य सप्तभिः।।
स विह्वलो महाराज कर्णो भीमशराहतः।
प्राद्रवज्जवनैरश्वै रणं हित्वा महाभयात्।।
भीमसेनस्तु विष्फार्य चापं हेमपरिष्कृतम्।
आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे चतुस्त्रिंशदधिकशततमोऽध्यायः।। 134 ।।