द्रोणपर्व
अध्यायः १३३
धृतराष्ट्र उवाच।
अत्यद्भुतमहं मन्ये भीमसेनस्य विक्रमम्।
यत्कर्णं योधयामास समरे लघुविक्रमः।।
त्रिदशानपि वा युक्तान्सर्वशस्त्रधरान्युधि।
वारयेद्यो रणे कर्णः सयक्षासुरमानुषान्।।
स कथं पाण्डवं युद्धे भ्राजमानमिव श्रिया।
नातरत्संयुगे तात तन्ममाचक्ष्व सञ्जय।।
कथं च युद्धं सम्भूतं तयोः प्राणदुरोदरे।
अत्र मन्ये समायत्तो जयो वाऽजय एव च।।
कर्णं प्राप्य रणे सूत मम पुत्रः सुयोधनः।
जेतुमुत्सहते पार्थान्सगोविन्दान्ससात्वतान्।।
श्रुत्वा तु निर्जितं कर्णमसकृद्भीमकर्मणा।
भीमसेनेन समरे मोह आविशतीव माम्।।
विनष्टान्कौरवान्मन्ये मम पुत्रस्य दुर्नयैः।
नहि कर्णो महेष्वासान्पार्थाञ्जेष्यति सञ्जय।।
कृतवान्यानि युद्धानि कर्णः पाण्डुसुतैः सह।
सर्वत्र पाण्डवाः कर्णमजयंस्ते रणाजिरे।।
अजेयाः पाण्डवास्तात देवैरपि सवासवैः।
न च तद्बुध्यते मन्दः पुत्रो दुर्योधनो मम।।
धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः।
मधुप्रेप्सुरिवाबुद्धिः प्रपातं नावबुध्यते।।
निकृत्या निकृतिप्रज्ञो राज्यं हृत्वा महात्मनाम्।
जितमित्येव मन्वानः पाण्डवानवमन्यते।।
पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना।
धर्मे स्थिता महात्मानो निकृताः पाण्डुनन्दनाः।।
शमकामः ससोदर्यो दीर्घप्रेक्षी युधिष्ठिरः।
अशक्त इति मत्वा तु मम पुत्रैर्निराकृतः।।
तानि दुःखान्यनेकानि विप्रकारांश्च सर्वशः।
हृदि कृत्वा महाबाहुर्भीमोऽयुध्यत सूतजम्।।
तस्मान्मे सञ्जय ब्रूहि कर्णभीमौ यथा रणे।
अयुध्येतां युधांश्रेष्ठौ परस्परवधैषिणौ।।
सञ्जय उवाच।
शृणु राजन्यथावृत्तं सङ्ग्रामं कर्णभीमयोः।
परस्परवधप्रेप्स्वोर्वनकुञ्जरयोरिव।।
राजन्वैकर्तनो भीमं क्रुद्धः क्रुद्धमरिन्दमम्।
पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः।।
महावेगैः प्रसन्नाग्रैः शातकुम्भपरिष्कृतैः।
नातरद्भरतश्रेष्ठ भीमं वैकर्तनः शरैः।।
तस्यास्यतो धनुर्भीमश्चकर्त विशिखैस्त्रिभिः।
रथनीडाच्च यन्तारं भल्लेनापातयत्क्षितौ।।
स काङ्क्षन्भीमसेनस्य वधं वैकर्तनो भृशम्।
शक्तिं कनकवैदूर्यचित्रदण्डां परामृशत्।।
प्रगृह्य च महाशक्तिं कालरात्रिमिवापराम्।
समुत्क्षिप्य च राधेयः सन्धाय च महाबलः।
चिक्षेप भीमसेनाय जीवितान्तकरीमिव।।
शक्तिं विसृज्य राधेयः पुरन्दर इवाशनिम्।
ननाद सुमहानादं बलवान्सूतनन्दनः।।
तं च नादं ततः श्रुत्वा पुत्रास्ते हर्षिताऽभवन्।।
शक्तिं वियति चिच्छेद भीमः सप्तभिराशुगैः।।
छित्त्वा शक्तिं ततो भीमो निर्मुक्तोरगसन्निभाम्।
मार्गमाणामिव प्राणान्सूतपुत्रस्य मारिष।।
प्राहिणोत्कृतसंरम्भः शरान्बर्हिणवाससः।
स्वर्णपुङ्खाञ्शिलाधौतान्यमदण्डोपमान्मृधे।।
कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम्।
विकृष्य तन्महच्चापं व्यसृजत्सायकांस्तदा।।
तान्पाण्डुपुत्रश्चिच्छेद नवभिर्नतपर्वभिः।
वसुषेणेन निर्मुक्तान्नव राजन्महाशरान्।
छित्त्वा भीमो महाराज नादं सिंह इवानदत्।।
तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे।
शार्दूलाविव चान्योन्यमामिषार्थेऽभ्यगर्जताम्।।
अन्योन्यं प्रजिहीर्षन्तावन्योन्यस्यान्तरैषिणौ।
अन्योन्यमभिवीक्षन्तौ गोष्ठेष्विव महर्षभौ।।
महागजाविवसाद्य विषाणाग्रैः परस्परम्।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः।।
निर्दहन्तौ महाराज शस्त्रवृष्ट्या परस्परम्।
अन्योन्यमभिवीक्षन्तौ कोपाद्विवृतलोचनौ।।
प्रहसन्तौ तथाऽन्योन्यं भर्त्सयन्तौ मुहुर्मुहुः।
शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम्।।
तस्य भीमः पुनश्चापं मुष्टौ चिच्छेद मारिष।
शङ्खवर्णांश्च तानश्वान्बाणैर्निन्ये यमक्षयम्।
सारथिं च तथाप्यस्य रथनीडादपातयत्।।
ततो वैकर्तनः कर्णश्चिन्तां प्राप दुरत्ययाम्।
स च्छाद्यमानः समरे हताश्वो हतसारथिः।
मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत।।
तथा कृच्छ्रगतं दृष्ट्वा कर्णं दुर्योधनो नृपः।
वेपमान इव क्रोधाद्व्यादिदेशाथ दुर्जयम्।।
गच्छ दुर्जय राधेयं पुरा ग्रसति पाण्डवः।
जहि तूबरकं क्षिप्रं कर्णस्य बलमादधत्।।
एवमुक्तस्तथेत्युक्त्वा तव पुत्रं तवात्मजः।
अभ्यद्रवद्भीमसेनं व्यासक्तं विकिरञ्छरैः।।
स भीमं नवभिर्बाणैरश्वानष्टभिरार्दयत्।
षङ्भिः सूतं त्रिभिः केतं पुनस्तं चापि सप्तभिः।।
भीमसेनोऽपि सङ्क्रुद्धः साश्वयन्तारमाशुगैः।
दुर्जयं भिन्नमर्माणमनयद्यमसादनम्।।
बाढं हतं क्षितौ क्षुण्णं वेष्टमानं यथोरगम्।
रुदन्नार्तस्तव सुतं कर्णश्चक्रे प्रदक्षिणम्।।
स तु तं विरथं कृत्वा स्मयन्नत्यन्तवैरिणम्।
समाचिनोद्बाणगणैः शतघ्नीभिश्च शङ्कुभिः।।
तथाप्यतिरथः कर्णो भिद्यमानोऽस्य सायकैः।
न जहौ समरे भीमं क्रुद्धरूपं परन्तपः।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे त्रयस्त्रिंशदधिकशततमोऽध्यायः।। 133 ।।