द्रोणपर्व

अध्यायः १३२

Drona Parva (Sanskrit) · Adhyaya 132
अक्षर का आकार

धृतराष्ट्र उवाच।

[स्वयं शिष्यो महेशस्य भृगूत्तमधनुर्धरः।
शिष्यत्वं प्राप्तवान्कर्णस्तस्य तुल्योऽस्त्रविद्यया।।

तद्विशिष्टोऽपि वा कर्णः शिष्यः शिष्यगुणैर्युतः।
कुन्तीपुत्रेण भीमेन निर्जितः स तु लीलया।।]

यस्मिञ्जयाशा महती पुत्राणां मम सञ्जय।
तं भीमाद्विमुखं दृष्ट्वा किन्नु दुर्योधनोऽब्रवीत्।।

कथं च युयुधे भीमो वीर्यश्लाघी महाबलः।।

कर्णो वा समरे तात किमकार्षीदतः परम्।
भीमसेनं रणे दृष्ट्वा ज्वलन्तमिव पावकम्।।

सञ्जय उवाच।

रथमन्यं समास्थाय विधिवत्कल्पितं पुनः।
अभ्ययात्पाण्डवं कर्णो वातोद्धूत इवार्णवः।।

क्रुद्धमाधिरथिं दृष्ट्वा पुत्रास्तव विशाम्पते।
भीमसेनममन्यन्त वैश्वानरमुखे हुतम्।।

चापशब्दं ततः कृत्वा तलशब्दं च भैरवम्।
अभ्यद्रवत राधेयो भीमसेनरथं प्रति।।

पुनरेव तयो राजन्घोर आसीत्समागमः।
वैकर्तनस्य शूरस्य भीमस्य च महात्मनः।।

संरब्धौ हि महाबाहू परस्परवधैषिणौ।
अन्योन्यभीक्षाञ्चक्राते दहन्ताविव लोचनैः।।

क्रोधरक्रेक्षणौ तीव्रौ निःश्वसन्ताविवोरगौ।
शूरावन्योन्यमासाद्य ततक्षतुररिन्दमौ।।

व्याघ्राविव सुसंरब्धौ श्येनाविव च शीघ्रगौ।
शरभाविव सङ्क्रुद्धौ युयुधाते परस्परम्।।

ततो भीमः स्मरन्क्लेशानक्षद्यूते वनेऽपि च।
विराटनगरे चैव दुःखं प्राप्तमरिन्दमः।।

राष्ट्राणां स्फीतरत्नानां हरणं च तवात्मजैः।
सततं च परिक्लेशान्सपुत्रेण त्वया कृतान्।।

दग्धुमैच्छश्च यः कुन्तीं सपुत्रां त्वमनागसम्।
कृष्णायाश्च परिक्लेशं सभामध्ये दुरात्मभिः।।

केशपक्षग्रहं चैव दुःशासनकृतं तथा।
परुषाणि च वाक्यानि कर्णोनोक्तानि भारत।।

पतिमन्यं परीप्सस्व न सन्ति पतयस्तव।
पतिता नरके पार्थाः सर्वे षण्डतिलोपमाः।।

समक्षं तव कौरव्य यदूचुः कौरवास्तदा।
दासीभावेन कृष्णां च भोक्तुकामाः सुतास्तव।।

यच्चापि तान्प्रव्रजतः कृष्णाजिननिवासिनः।
परुषाण्युक्तवान्कर्णः सभायां सन्निधौ तव।।

तृणीकृत्य च यत्पार्थांस्तव पुत्रो ववल्ग ह।
विषमस्थान्समस्थो हि संरब्धो गतचेतनः।।

बाल्यात्प्रभृति चारिघ्नः स्वानि दुःखानि चिन्तयन्।
निरविद्यत धर्मात्मा जीवितेन वृकोदरः।।

ततो विष्फार्य सुमहद्धेमपृष्ठं दुरासदम्।
चापं भरतशार्दूलस्त्यक्तात्मा कर्णमभ्ययात्।।

स सायकयैर्जालैर्भीमः कर्णरथं प्रति।
भानुमद्भिः शिलाधौतैर्भानोः प्राच्छादयत्प्रभां

ततः प्रहस्याधिरथिस्तूर्णमस्यञ्शिताञ्शरान्।
व्यधमद्भीमसेनस्य शरजालानि पत्रिभिः।।

महारथो महाबाहुर्महाबाणैर्महाबलः।
विव्याधाधिरथिर्भीमं नवभिर्निशितैस्तदा।।

स तोत्रैरिव मातङ्गो वार्यमाणः पतत्त्रिभः।
अभ्यधावदसम्भ्रान्तः सूतपुत्रं वृकोदरः।।

तमापतन्तं वेगेन रभसं पाण्डवर्षभम्।
कर्णः प्रत्युद्ययौ युद्धे मत्तो मत्तमिव द्विपम्।।

ततः प्रध्याप्य जलजं भेरीशतसमस्वनम्।
अक्षुभ्यत बलं हर्षादुद्धूत इव सागरः।।

तदुद्धूतं बलं दृष्ट्वा नागाश्वरथपत्तिमत्।
भीमः कर्णं समासाद्य च्छादयामास सायकैः।।

अश्वानृक्षसवर्णांश्च हंसवर्णैर्हयोत्तमैः।
व्यामिश्रयद्रणे कर्णः पाण्डवं छादयञ्छरैः।।

ऋक्षवर्णान्हयान्कर्कैर्मिश्रान्मारुतरंहसः।
निरीक्ष्य तव पुत्राणां हाहाकृतमभूद्बलम्।।

ते हया बह्वशोभन्त मिश्रिता वातरंहसः।
सितासिता महाराज यथा व्योम्नि वलाहकाः।।

संरब्धौ क्रोधताम्राक्षौ प्रेक्ष्य कर्णवृकोदरौ।
सन्त्रस्ताः समकम्पन्त त्वदीयानां महारथाः।।

यमराष्ट्रोपमं घोरमासीदायोधनं तयोः।
दुर्दर्शं भरतश्रेष्ठ प्रेतराजपुत्रं यथा।।

समाजमिव तच्चित्रं प्रेक्षमाणा महारथाः।
नालक्षयञ्जयं व्यक्तमेकस्यैव महारणे।।

तयोः प्रैक्षन्त सम्मर्दं सन्निकृष्टं महास्त्रयोः।
तव दुर्मन्त्रिते राजन्सपुत्रस्य विशाम्पते।।

छादयन्तौ हि शत्रुघ्नावन्योन्यं सायकैः शितैः।
शरजालावृतं व्योम चक्रातेऽद्भुतविक्रमौ।।

तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथौ।
प्रेक्षणीयतरावास्तां वृष्टिमन्ताविवाम्बुदौ।।

सुवर्णविकृतान्वाणान्विमुञ्चन्तावरिन्दमौ।
भास्वरं व्योम चक्राते महोल्काभिरिव प्रभो।।

ताभ्यां मुक्ताः शरा राजन्गार्ध्रपत्राश्चकाशिरे।
श्रेण्यः शरदि मत्तानां सारसनामिवाम्बरे।।

संसक्तं सूतपुत्रेण दृष्ट्वा भीममरिन्दमम्।
अतिभारममन्येतां भीमे कृष्णधनञ्जयौ।।

तत्राधिरथिभीमाभ्यां शरैर्मुक्तैर्दृढं हताः।
इषुपातमतिक्रम्य पेतुरश्वनरद्विपाः।।

पतद्भिः पतितैश्चान्यैर्गतासुभिरनेकशः।
कृतो राजन्महाराज पुत्राणां ते जनक्षयः।।

मनुप्याश्वगजानां च शरीरैर्गतजीवितैः।
क्षणेन भूमिः सञ्जज्ञे संवृता भरतर्षभ।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे द्वात्रिंशदधिकरशततमोऽध्यायः।। 132 ।।