द्रोणपर्व

अध्यायः १३१

Drona Parva (Sanskrit) · Adhyaya 131
अक्षर का आकार

सञ्जय उवाच।

वर्तमाने महाराज सङ्ग्रामे रोमहर्षणे।
व्याकुलेषु च सर्वेषु पीड्यमानेषु सर्वशः।।

राधेयो भीममानर्च्छ युद्धाय भरतर्षभ।
यथा नागो वने नागं मत्तो मत्तमभिद्रवेत्।।

`ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिन्दमौ।
मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः'।।

धृतराष्ट्र उवाच।

यौ तौ कर्णश्च भीमश्च सम्प्रयुद्धौ महाबलौ।
अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः।।

पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे।
कथं भूयः स राधेयो भीममागान्महारथः।।

भीमो वा सूततनयं प्रत्युद्यातः कथं रणे।
महारथसमाख्यातं पृथिव्यां प्रवरं रथम्।।

भीष्मद्रोणावतिक्रम्य धर्मराजो युधिष्ठिरः।
नान्यतो भयमादत्त विना कर्णान्महारथात्।।

भयाद्यस्य महाबाहो न शेते बहुलाः समाः।
चिन्तयन्नित्यशो वीर्यं राधेयस्य महात्मनः।
तं कथं सूतपुत्रं तु भीमोऽयोधयताहवे।।

ब्रह्मण्यं वीर्यसम्पन्नं समरेष्वनिवर्तिनम्।
कथं कर्णं युधां श्रेष्ठं योधयामास पाण्डवः।।

यौ तौ समीयतुर्वीरौ वैकर्तनवृकोदरौ।
कथं तावत्र युध्येतां महाबलपराक्रमौ।।

भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः।
कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन्।।

भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम्।
अयुध्यत कथं शूरः कर्णेन सह संयुगे।।

आशास्ते च सदा सूतपुत्रे दुर्योधनो मम।
कर्णो जेष्यति सङ्ग्रामे समस्तान्पाण्डवानिति।।

जयाशा यत्र पुत्रस्य मम मन्दस्य संयुगे।
स कथं भीमकर्माणं भीमसेनमयोधयत्।।

यं समासाद्य पुत्रैर्मे कृतं वैरं महारथैः।
तं सूततनयं तात कथं भीमो ह्ययोधयत्।।

अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान्।
स्मरमाणः कथं भीमो युयुधे सूतसूनुना।।

योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान्।
तं सूततनयं युद्धे कथं भीमो ह्ययोधयत्।।

यो जातः कुण्डलाभ्यां च कवचेन सहैव च।
तं सूतपुत्रं समरे भीमः कथमयोधयत्।।

`अस्त्रहेतोः पुरा तात भार्गवं समपूजयत्।
तस्य प्रसादाद्ब्रह्मास्त्रं लब्धवांश्च भृगूत्तमात्'।।

यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः।
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय।।

सञ्चय उवाच।

भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम्।
इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनञ्चयौ।।

तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः।
अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम्।।

फुल्लता पङ्कजेनेव वक्त्रेण विहसन्बली।
आजुहाव रणे यान्तं भीममाधिरथिस्तदा।।

कर्ण उवाच।
भीमाहितैस्तव रणः स्वप्नेऽपि न विभावितः।

तद्दर्शयसि कस्मान्मे पृष्ठं पार्थदिदृक्षया।।
कुन्त्याः पुत्रस्य सदृशं नेदं पाण्डवनन्दन।

तेन मामभितः स्थित्वा शरवर्षैरवाकिर।।

सञ्जय उवाच।

भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि।
अर्धमण्डलमावृत्य सूतपुत्रमयोधयत्।।

अवक्रगामिभिर्बाणैरभ्यवर्षन्महायशाः।
दंशितं द्वैरथे यत्तं सर्वशस्त्रविशारदम्।।

विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत्।।

हत्वा तस्यानुगांस्तं च हन्तुकामो महाबलः।
तस्मै व्यसृजदुग्राणि विविधानि परन्तपः।
अमर्षात्पाण्डवः क्रुद्धः शरवर्षाणि मारिष।।

तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः।
सूतपुत्रोऽस्त्रमायाभिरग्रसत्परमास्त्रवित्।।

स यथावन्महाबाहुर्विद्यया वै सुपूजितः।
आचार्यवन्महेष्वासः कर्णः पर्यचरद्बली।।

युध्यमानं तु संरम्भाद्भीमसेनं हसन्निव।
अभ्यपद्यत कौन्तेयं कर्णो राजन्वृकोदरम्।।

तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे।
युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः।।

तं भीमसेनः सङ्ग्राप्तं वत्सदन्तैः स्तनान्तरे।
विव्याध बलवान्क्रुद्धस्तोत्रैरिव महाद्विपम्।।

पुनश्च सूतपुत्रं तु स्वर्णपुङ्खैः शिलाशितैः।
सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः।।

कर्णो जाम्बूनदैर्जालैः सञ्छन्नान्वातरंहसः।
हयान्विव्याध भीमस्य पञ्चभिः पञ्चभिः शरैः।।

ततो बाणमयं जलं भीमसेनरथं प्रति।
कर्णेन विहितं राजन्निमेषार्धाददृश्यत।।

सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा।
प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः।।

तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम्।
क्रुद्धश्चाप्यहनत्पार्थं नाराचैर्मर्मभेदिभिः।।

ततोऽचिन्त्य महाबाहुः कर्णकार्मुकनिःसृतान्।
समाश्लिष्यदसम्भ्रान्तः सूतपुत्रं वृकोदरः।।

स कर्णचापप्रभवानिषूनाशीविषोपमान्।
बिभ्रद्भीमो महाराज न जगाम व्यथां रणे।।

ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः।
विव्याध समरे कर्णं भीमसेनः प्रतापवान्।।

अयत्नेनैव तं कर्णः शरैर्भृशमवाकिरत्।
भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम्।।

मृदुपूर्वं तु राधेयो भीममाजावयोधयत्।
क्रोधपूर्वं तथा भीमः पूर्ववैरमनुस्मरन्।।

तं भीमसेनो नामृष्यदवमानममर्षणः।
स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रहा।।

ते शराः प्रेषितास्तेन भीमसेनेन संयुगे।
निपेतुः सर्वतो वीरे कूजन्त इव पक्षिणः।।

हेमपुङ्खा महावेगा भीमसेनधनुश्च्युताः।
प्राच्छादयंस्ते राधेयं शलभा इव पावकम्।।

कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः।
राजन्व्यसृजदुग्राणि शरवर्षाणि भारत।।

तस्य तानशनिप्रख्यानिषून्समरशोभिनः।
चिच्छेद बहुभिर्भल्लैरसम्प्राप्तान्वृकोदरः।।

पुनश्च शरवर्षेण च्छादयामास भारत।
कर्णो वैकर्तनो युद्धे भीमसेनमरिन्दमः।।

तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः।
समाचिततनुं सङ्‌ख्ये श्वाविधं शललैरिव।।

हेमपुङ्खाञ्छिलाधौतान्कर्णचापच्युताञ्छरान्।
दधार समरे वीरः स्वरश्मीनिव रश्मिमान्'।।

रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यराजत।
समृद्धकुसुमापीडो वसन्तेऽशोकवृक्षवत्।।

तत्तु भीमो महाबाहोः कर्णस्य चरितं रणे।
नामृष्यत महाबाहुः क्रोधादुद्वृत्तलोचनः।।

स कर्णं पञ्चविंशत्या नाराचानां समार्पयत्।
महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः।।

पुनरेव च विव्याध षङ्भिरष्टाभिरेव च।
मर्मस्वमरविक्रान्तः सूतपुत्रं तनुत्यजम्।।

पुनरन्येन बाणेन भीमसेनः प्रतापवान्।
चिच्छेद कार्मुकं तूर्णं कर्णस्य प्रहसन्निव।।

जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः।
नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि।।

ते जग्मुर्धरणीमाशु कर्णं निर्भिद्य पत्रिणः।
यथा जलधरं भित्त्वा दिवाकरमरीचयः।।

स वैक्लव्यं महत्प्राप्य च्छिन्नधन्वा शराहतः।
तथा पुरुषमानी स लज्जामुत्सृज्य भारत।
भीमसेनभयात्कर्णः प्रत्यपायाद्रथान्तरम्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे एकत्रिंशदधिकशततमोऽध्यायः।। 131 ।।