द्रोणपर्व

अध्यायः १२३

Drona Parva (Sanskrit) · Adhyaya 123
अक्षर का आकार

सञ्जय उवाच।

ततो दुःशासनो राजञ्शैनेयं समुपाद्रवत्।
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान्।।

स विद्व्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः।
नाकम्पयत्स्थितं युद्धे मैनाकमिव पर्वतम्।।

तं तु दुःशासनः शूरः सायकैरावृणोद्भृशम्।
रथव्रातेन महता नानादेशोद्भवेन च।।

सर्वतो भरतश्रेष्ठ विसृजन्सायकान्बहून्।
पर्जन्य इव घोषेण नादयन्वै दिशो दश।।

तमापतन्तमालोक्य सात्यकिः कौरवं रणे।
अभिद्रुत्य महाबाहुश्छादयामास सायकैः।।

ते छाद्यमाना बाणौघैर्दुःशासनपुरोगमाः।
प्राद्रवन्समरे भीतास्तव सैन्यस्य पश्यतः।।

तेषु द्रवत्सु राजेन्द्र पुत्रो दुःशानस्तव।
तस्थौ व्यपेतभी राजन्सात्यकिं चार्दयच्छरैः।।

चतुर्भिर्वाजिनस्तस्य सारथिं च त्रिभिः शरैः।
सात्यकिं च शतेनाजौ विद्ध्वा नादं मुमोच सः।।

ततः क्रुद्धो महाराज माधवस्तस्य संयुगे।
रथं सूतं ध्वजं तं च चक्रेऽदृश्यमजिह्मगैः।।

स तु दुःशासनं शूरं सायकैरावृणोद्भृशम्।
मशकं समनुप्राप्तमूर्णनाभिरिवोर्णया।।

त्वरन्समावृणोद्बाणैर्दुःशासनममित्रजित्।।
दृष्ट्वा दुःशासनं राजा तथा शरशताचितम्।

त्रिगर्तांश्चोदयामास युयुधानरथं प्रति।।

तेऽगच्छन्युयुधानस्य समीपं क्रुरकर्मणः।
त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः।।

ते तु तं रथवंशेन महता पर्यवारयन्।
स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः।।

तेषां प्रयतमानानां शरवर्षाणि मुञ्चताम्।
योधान्पञ्चशतान्मुख्यानग्र्यानीके व्यपोथयत्।।

तेऽपतन्निहतास्तूर्णं शिनिप्रवरसायकैः।
महामारुतवेगेन भग्ना इव नगाद्द्रुमाः।।

नागैश्च बहुधा च्छिन्नैर्ध्वजैश्चैव विशाम्पते।
हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी।।

शैनेयशरसङ्कृत्तैः शोणितौघपरिप्लुतैः।
अशोभत महाराज किंशुकैरिव पुष्पितैः।।

ते वध्यमानाः समरे युयुधानेन तावकाः।
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः।।

ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति।
भयात्पतगराजस्य गर्तानीव महोरगाः।।

हत्वा पञ्चशतान्योधाञ्छरैराशीविषोपमैः।
प्रायात्स शनकैर्वीरो धनञ्जयरथं प्रति।।

तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव।
विव्याध नवभिस्तूर्णं शरैः सन्नतपर्वभिः।।

स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः।
रुक्मपुङ्खैर्महेष्वासो गार्ध्रपत्रैरजिह्मगैः।।

सात्यकिं तु महाराज प्रहसन्निव भारत।
दुःशासनस्त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः।।

शैनेयस्तव पुत्रं तु हत्वा पञ्चभिराशुगैः।
धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ।।

ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते।
सर्वपारशवीं शक्तिं विससर्ज जिघांसया।।

तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः।
चिच्छेद शतधा राजन्निशितैः कङ्कपत्रिभिः।।

अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर।
सात्यकिं च शरैर्विद्ध्वा सिंहनादं ननाद च।।

सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव।
शरैरग्निशिखाकारैराजघान स्तनान्तरे।।

त्रिभिरेव महाभागः शरैः सन्नतपर्वभिः।
सर्वायसैस्तीक्ष्णवक्त्रैः पुनर्विव्याध चाष्टभिः।।

दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत।
सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे।।

त्रिभिरेव महाभागः शरैः सन्नतपर्वभिः।
ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः।।

सारथिं च सुराङ्क्रुद्धः शरैः सन्नतपर्वभिः।
धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः।।

ध्वजं च रथशक्तिं च भल्लाभ्यां परमस्त्रिवित्।
चिच्छेद विशिखैस्तीक्ष्णैस्तथोभौ पार्ष्णिसारथी।।

स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः।
त्रिगर्तसेनापतिना स्वरथेनापवाहितः।।

तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत।
न जघान महाबाहुर्भीमसेनवचः स्मरन्।।

भीमसेनेन तु वधः सुतानां तव भारत।
प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे।।

ततो दुःशासनं जित्वा सात्यकिः संयुगे प्रभो।
जगाम त्वरितो राजन्येन यातो धनञ्जयः।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे त्रयोविंशत्यधिकशततमोऽध्यायः।। 123 ।।