द्रोणपर्व

अध्यायः १२२

Drona Parva (Sanskrit) · Adhyaya 122
अक्षर का आकार

सञ्जय उवाच।

दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम्।
भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत्।।

दुःशासन रथाः सर्वे कस्माच्चैते प्रविद्रुताः।
कच्चित्क्षेमं तु नृपतेः कच्चिज्जीवति सैन्धवः।।

राजपुत्रो भवानत्र राजभ्राता महारथः।
किमर्थं द्रवते युद्धे यौवराज्यमवाप्य च।।

दासी जिताऽसि द्यूते त्वं यथा कामचरी भव।
वाससां वाहिका राज्ञो भ्रातुर्ज्येष्ठस्य मे भव।।

न सन्ति पतयः सर्वे तेऽद्य षण्ढतिलैः समाः।
दुःशासनैवं कस्मात्त्वं पूर्वमुक्त्वा पलायसे।।

स्वयं वैरं महत्कृत्वा पाञ्चालैः पाण्डवैः सह।
एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे।।

न जानीषे पुरा त्वं तु गृह्णन्नक्षान्दुरोदरे।
शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः।।

अप्रियाणां हि वचनं पाण्डवस्य विशेषतः।
द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यभवत्पुरा।।

क्व ते मानश्च दर्पश्च क्व ते वीर्यं क्व गर्जितम्।
आशीविषसमान्पार्थान्कोपयित्वा क्व यास्यसि।।

शोच्येयं भारती सेना राज्यं चैव सुयोधनः।
यस्य त्वं कर्कशो भ्राता पलायनपरायणः।।

ननु नाम त्वया वीर दार्यमाणा भयार्दिता।
स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी।।

स त्वमद्य रणं हित्वा भीतो हर्षयसे परान्।
विद्रुते त्वयि सैन्यस्य नायके शत्रुमूदन।
कोऽन्यः स्थास्यति सङ्ग्रामे भीतो भीते व्यपाश्रये।।

एकेन सात्वतेनाद्य युध्यमानस्य तेन वै।
पलायने तव मतिः सङ्ग्रामाद्धि प्रवर्तते।।

यदा गाण्डीवधन्वानं भीमसेनं च कौरव।
यमौ च द्रक्ष्यसि रणे तदा वै किं करिष्यसि।।

युधि फल्गुनबाणानां मूर्याग्निसमवर्चसाम्।
न तुल्याः सात्यकिशरा येभ्यो भीतः पलायसे।।

त्वरितो वीर गच्छ त्वं गान्धार्युदरमाविश।
पृथिव्यां धावमानस्य नान्यत्पश्यामि जीवनम्।।

यदि तावत्कृता बुद्धिः पलायनपरायणा।
पृथिवी धर्मराजाय शमेनैव प्रदीयताम्।।

यावत्फल्गुननाराचा निर्मुक्तोरगसन्निभाः।
नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः।।

यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे।
नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः।।

यावन्न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः।
कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः।।

यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम्।
सोदरांस्ते न मृद्राति तावत्संशाम्य पाण्डवैः।।

पूर्वमुक्तश्च ते भ्राता भीष्मेणासौ सुयोधनः।
अजेयाः पाण्डवाः सङ्ख्ये सौम्य संशाम्य तैः सह।।

`मया शमवता चोक्तो रक्ष शेषं सुयोधन।
संशाम्य पार्थैस्त्वं रक्ष वीर सर्वान्महीक्षितः'।।

न च तत्कृतवान्मन्दस्तव भ्रातां सुयोधनः।
स युद्धे धृतिमास्थाय यत्तो युध्यस्व पाण्डवैः।।

तवापि शोणितं भीमः पास्यतीति मया श्रुतम्।
तच्चाप्यवितथं तस्य तत्तथैव भविष्यति।।

किं भीमस्य न जानासि विक्रमं त्वं सुबालिश।
यत्त्वया वैरमारब्धं संयुगे प्रपलायिना।।

गच्छ तूर्णं रथेनैव यत्र तिष्ठति सात्यकिः।
त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत।।
आत्मार्थं योधय रणे सात्यकिं सत्यविक्रमम्।।

सञ्जय उवाच।

एवमुक्तस्तव सुतो नाब्रवीत्किञ्चिदप्यसौ।
श्रुतं चाश्रुतवत्कृत्वा प्रायाद्येन स सात्यकिः।।

सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम्।
आसाद्य च रणे यत्तो युयुधानमयोधयत्।।

द्रोणोऽपि रथिनां श्रेष्ठः पाञ्चालान्पाण्डवांस्तथा।
अभ्यद्रवत सङ्क्रुद्धौ जवमास्थाय मध्यमम्।।

प्रविश्य च रणे द्रोणः पाण्डवानां वरूथिनीम्।
द्रावयामास योधान्वै शतशोऽथ सहस्रशः।।

ततो द्रोणो महाराज नाम विश्राव्य संयुगे।
पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत्।।

तं जयन्तमनीकानि भारद्वाजं ततस्ततः।
पाञ्चालपुत्रो द्युतिमान्वीरकेतुः समभ्ययात्।।

स द्रोणं पञ्चभिर्विद्व्वा शरैः सन्नतपर्वभिः।
ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः।।

तत्राद्भुतं महाराज दृष्ट्वानस्मि संयुगे।
यद्द्रोणो रभसं युद्धे पाञ्चाल्यं नात्यवर्तत।।

सन्निरुद्धं रमे द्रोणं पाञ्चला वीक्ष्य मारिष।
आवव्रुः सर्वतो राजन्धर्मपुत्रजयैषिणः।।

ते शरैरग्निसंकाशैस्तोमरैश्च महाधनैः।
शस्त्रैश्च विविधै राजन्द्रोणमेकमवाकिरन्।।

निवार्य तान्बाणगणान्द्रोणो राजन्समन्ततः।
महाजलधरान्व्योम्नि मातरिश्वेव चाबभौ।।

ततः शरं महाघोरं मूर्यपावकसन्निभम्।
सन्दधे परवीरघ्नो वीरकेतो रथं प्रति।।

स भित्त्वा तु शरो राजन्पाञ्चालकुलनन्दनम्।
अभ्यगाद्धरणीं तूर्णं लोहितार्द्रो ज्वलन्निव।।

ततोऽपतद्रथात्तूर्णं पाञ्चालकुलनन्दनः।
पर्वताग्रादिव महांश्चम्पको वायुपीडितः।।

तस्मिन्हते महेष्वासे राजपुत्रे महाबले।
पाञ्चालास्त्वरिता द्रोणं समन्तात्पर्यवारयन्।।

चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत।
तथा चित्ररथश्चैव भ्रातृव्यसनकर्शिताः।।

अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः।
मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव।।
`अदृश्यं समरे चक्रुर्भारद्वाजं सुधन्विनः'।।

स वध्यमानो बहुधा राजपुत्रैर्महारथैः।
क्रोधमाहारयत्तेषामभावाय द्विजर्षभः।।

ततः शरमयं जालं द्रोणस्तेषामवासृजत्।
ते हन्यमाना द्रोणस्य शरैराकर्णचोदितैः।
कर्तव्यं नाभ्यजानन्वै कुमारा राजसत्तम।।

तान्विमूढान्रणे द्रोणः प्रहसन्निव भारत।
व्यश्वसूतरथांश्चक्रे कुमारान्कुपितो रणे।।

अथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः।
पुष्पाणीव विवान्वायुः सोत्तमाङ्गान्यपातयत्।।

ते रथेभ्यो हताः पेतुः क्षितौ राजन्सुवर्चसः।
देवासुरे पुरा युद्धे यथा दैतेयदानवाः।।

तान्निहत्य रणे राजन्भारद्वाजः प्रतापवान्।
कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम्।।

`तदस्य भ्राजते राजन्मेघमध्ये तडिद्यथा'।।

पाञ्चालान्निहतान्दृष्ट्वा देवकल्पान्महारथान्।
धृष्टद्युम्नो भृशोद्विग्नो नेत्राभ्यां पातयञ्जलम्।
अभ्यवर्तत सङ्गारमे क्रुद्धो द्रोणरथं प्रति।।

ततो हाहेति सहसा नादः समभवन्नृप।
पाञ्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः।।

से च्छाद्यमानो बहुधा पार्षतेन महात्मना।
न विव्यथे ततो द्रोणः स्मयन्नेवान्वयुध्यत।।

ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्च्छितः।
आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम्।।

स गाढविद्धो बलिना भारद्वाजो महायशाः।
निषसाद रथोपस्थे कश्मलं च जगाम ह।।

तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी।
चापमुत्सृज्य शीघ्रं तु असिं जग्राह वीर्यवान्।।

अवप्लुत्य रथाच्चापि त्वरितः स महारथः।
आरुरोह रथं तूर्णं भारद्वाजस्य मारिष।
हर्तुमिच्छञ्शिरः कायात्क्रोधसंरक्रलोचनः।।

प्रत्याश्वस्तस्ततो द्रोणो धनुर्गृह्य महारवम्।
आसन्नमागतं दृष्ट्वा धृष्टद्युम्नं जिघांसया।।

शरैर्वैतस्तिकै राजन्विव्याधासन्नवेधिभिः।
योधयामास समरे धृष्टद्युम्नं महारथम्।।

ते हि वैतस्तिका नाम शरा आमन्नयोधिनः।
द्रोणस्य विहिता राजन्यैर्धृष्टद्युम्नमाक्षिणोत्।।

स वध्यमानो बहुभिः सायकैस्तैर्महाबलः।
अवप्लुत्य रथात्तूर्णं भग्नवेगः पराक्रमी।।

आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः।
विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः।।

द्रोणश्चापि महाराज शरैर्विव्याध पार्षतम्।।

तदद्भुतमभूद्युद्धं द्रोणपाञ्चालयोस्तदा।
त्रैलोक्यकाङ्क्षिणोरासीच्छक्रप्रह्लादयोरिव।।

मण्डलानि विचित्राणि यमकानीतराणि च।
चरन्तौ युद्धमार्गज्ञौ ततक्षतुरथेषुभिः।।

मोहयन्तौ मनांस्याजौ योधानां द्रोणपार्षतौ।
सृजन्तौ शरवर्षाणि वर्षास्विव बलाहकौ।
छादयन्तौ महात्मानौ शरैर्व्योम दिशो महीम्।।

तदद्भुतं तयोर्युद्धं भूतसङ्घा ह्यपूजयन्।
क्षत्रियाश्च महाराज ये चान्ये तव सैनिकाः।।

अवश्यं समरे द्रोणो दृष्टद्युम्नेन सङ्गतः।
वशमेष्यति नो राजन्पाञ्चाला इति चुक्रुशुः।।

द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः।
शिरः प्रच्यावयामास फलं पक्वं तरोरिव।।

ततस्तु प्रद्रुता वाहा राजंस्तस्य महात्मनः।।

तेषु प्रद्रवमाणेषु पाञ्चालान्सृञ्जयांस्तथा।
अयोधयद्रणे द्रोणस्तत्रतत्र पराक्रमी।।

विजित्य पाण्डुपाञ्चालान्भारद्वाजः प्रतापवान्।
स्वं व्यूहं पुनरास्थाय स्थितोऽभवदरिन्दमः।
न चैनं पाण्‍डवा युद्धे जेतुमुत्सेहिरे प्रभो।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे द्वाविंशत्यधिकशततमोऽध्यायः।। 122 ।।