द्रोणपर्व
अध्यायः १२४
धृतराष्ट्र उवाच।
किं तस्यां मम सेनायां नासन्केचिन्महारथाः।
ये तथा सात्यकिं यान्तं नैवाघ्नन्नाप्यवारयन्।।
एको हि समरे कर्म कृतवान्सत्यविक्रमः।
शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव।।
अथवा शून्यमासीत्तद्येन यातः स सात्यकिः।
हतभूयिष्ठमथवा येन यातः स सात्यकिः।।
यत्कृतं वृष्णिवीरेण कर्म शंससि मे रणे।
नैतदुत्सहते कर्तुं कर्म शक्रोऽपि सञ्जय।।
अश्रद्धेयमचिन्त्यं च कर्म तस्य महात्मनः।
वृष्ण्यन्धकप्रवीरस्य श्रुत्वा मे व्यथितं मनः।।
न सन्ति तस्मात्पुत्रा मे यथा सञ्जय भाषसे।
एको वै बहुलाः सेनाः प्रामृद्गात्सत्यविक्रमः।।
कथं च युध्यमानानामपक्रान्ती महात्मनाम्।
एको बहूनां शैनेयस्तन्ममाचक्ष्व सञ्जय।।
सञ्जय उवाच।
राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान्।
अतुल्यस्तव सेनायां युगान्तसदृशोऽभवत्।।
आहूतेषु समूहेषु तव सैन्यस्य मानद।
नास्ति लोके समः कश्चित्समूह इति मे मतिः।।
तत्रव देवास्त्वभाषन्त चारणाश्च समागताः।
एतदन्ताः समूहा वै भविष्यन्ति महीतले।।
न च वै तादृशो व्यूह आसीत्कश्चिद्विशाम्पते।
यादृग्जयद्रथवधे द्रोणेन विहितोऽभवत्।।
`उद्धृता पृथिवी नूनं युद्धहेतोः समागतैः।
इति तत्र जनाश्चाहुर्दृष्टा तां जनसंसदम्'।।
चण्डवातविभिन्नानां समुद्राणामिव स्वनः।
रणेऽभवद्बलौघानामन्योन्यमभिधावताम्।।
पार्थिवानां समेतानां बहून्यासन्नरोत्तम।
त्वद्बले प्राण्डवानां च सहस्राणि शतानि च।।
संरब्धानां प्रवीराणां समरे दृढकर्मणाम्।
तत्रासीत्सुमहाशब्दस्तुमुलो रोमहर्षणः।।
`पाण्डवानां कुरूणां च गर्जतामितरेतरम्।
क्ष्वेलाः किलकिलाशब्दास्तत्रासन्वै सहस्रशः।।
भेरीशब्दाश्च तुमुला बाणशब्दाश्च भारत।
अन्योन्यं निघ्नतां चैव नराणां शुश्रुवे स्वनः'।।
अथाक्रन्दन्भीसमेनो धृष्टद्युम्नश्च मारिष।
नकुलः सहदेवश्च धर्मराजश्च पाण्डवः।।
आगच्छत प्रहरत द्रुतं विपरिधावत।
प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ।।
यथा सुखेन गच्छेतां जयद्रथवधं प्रति।
तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयन्।।
तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः।।
`यत्र यातौ महात्मानौ तूर्णं परपुरञ्जयौ'।
ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम्।
क्षोभयध्वं महावेगाः पवनः सागरं यथा।।
भीमसेनेन ते राजन्पाञ्चाल्येन च नोदिताः।
आजघ्नुः कौरवान्सङ्ख्ये त्यक्त्वाऽसूनात्मनः प्रियान्।।
इच्छन्तो निधनं युद्धे शस्त्रैरुत्तमतेजसः।
स्वर्गेप्सवो मित्रकार्ये नाभ्यनन्दन्त जीवितम्।।
तथैव तावका राजन्प्रार्थयन्तो महद्यशः।
आर्यां युद्धे मतिं कृत्वा युद्धायैवावतस्थिरे।।
तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे।
जित्वा सर्वाणि सैन्यानि प्रायात्सात्यकिरर्जुनं ।।
कवचानां प्रभास्तत्र सूर्यरश्मिविराजिताः।
दृष्टीः सङ्ख्ये सैनिकानां प्रतिजघ्नुः समन्ततः।
`ध्वजशस्त्रप्रतिहता लोकान्समवदीपयन्।।
चण्डवातोद्धतान्मेघान्विकिरन्रश्मिमानिव।
तथा तव महत्सैन्यं तद्व्यरोचत तापयन्।।
सम्प्रहृष्टः स सहसा तव सैन्यार्णवं प्रति।
लोलयन्सर्वतो गत्वा समुद्रं मकरो यथा।।
तत्र राजन्महानासीत्सङ्ग्रामो भीतिवर्धनः।
पाण्डवस्य महाबाहो तावकानां च दारुणः।।
रुद्रस्याक्रीडसङ्काशः संहारः सर्वदेहिनाम्।
ततः शब्दो महानासीत्प्रायाद्यत्र धनञ्चयः।।
तत्र स्म कदनं घोरं वर्तते पाण्डुपूर्वज।
अर्जुनस्य महाबाहोस्तावकानां च धन्विनाम्।।
मध्ये भारतसैन्यस्य माधवस्य महारणे।
द्रोणस्यापि परैः सार्धं व्यूहद्वारे सुदारुणम्।।
एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते।
क्रुद्धेऽर्जुने तथा द्रोणे सात्वते च महारथे'।।
तथा प्रयतमानानां पाण्डवानां महात्मनाम्।
दुर्योधनो महाराजन्व्यगाहत महद्बलम्।।
स सन्निपातस्तुमुलस्तेषां तस्य च भारत।
अभवत्सर्वभूतानामभावकरणो महान्।।
धृतराष्ट्र उवाच।
तथा यातेषु सैन्येषु तथा कृच्छ्रगतः स्वयम्।
कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम्।।
एकस्य च बहूनां च सन्निपातो महाहवे।
विशेषतो नरपतेर्विषमः प्रतिभाति मे।।
सोऽत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः।
एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः।।
सञ्जय उवाच।
राजन्सङ्ग्राममाश्चर्यं तव पुत्रस्य भारत।
एकस्य बहुभिः सार्धं शृणुष्व गदतो मम।।
दुर्योधनेन समरे पृतना पाण्डवी रणे।
नलिनी द्वरिदेनेव समन्तात्प्रतिलोडिता।।
ततस्तां प्रहतां सेनां दृष्ट्वा पुत्रेण ते नृप।
भीमसेनपुरोगास्तं पाञ्चालाः समुपाद्रुवन्।।
स भीमसेनं दशभिः शरैर्विव्याध पाण्डवम्।
त्रिभिस्त्रिभिर्यमौ वीरौ धर्मराजं च सप्तभिः।।
विराटद्रुपदौ षद्भिः शतेन च शिखण्डिनम्।
धृष्टद्युम्नं च विंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः।।
शतशश्चापरान्योधान्सद्विपांश्च रथान्रणे।
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः।।
न सन्दधद्विमुञ्चन्वा मण्डलीकृतकार्मुकः।
अदृश्यत रिपून्निघ्नञ्छिक्षयाऽस्तबलेन च।।
तस्य तान्निघ्नतः शत्रून्हेमपृष्ठं महद्धनुः।
अजस्रं मण्डलीभूतं ददृशुः समरे जनाः।।
ततो युधिष्ठिरो राजा भल्लाभ्यामच्छिनद्धनुः।
तव पुत्रस्य कौरव्य यतमानस्य संयुगे।।
विव्याध चैनं दशभिः सम्यगस्तैः शरोत्तमैः।
वर्म चाशु समासाद्य ते भित्त्वा क्षितिमाविशन्।।
ततः प्रमुदिताः पार्थाः परिवव्रुर्युधिष्ठिरम्।
यथा वृत्रवधे देवाः पुरा शक्रं महर्षयः।।
ततोऽन्यद्धनुरादाय तव पुत्रः प्रतापवान्।
तिष्ठेतिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात्।।
तमायान्तमभिप्रेक्ष्य तव पुत्रं महामृधे।
प्रत्युद्ययुः समुदिताः पाञ्चाला जयगृद्धिनः।।
तान्द्रोणः प्रतिजग्राह परीप्सन्युधि पाण्डवम्।
चण्डवातोद्धुतान्मेघान्गिरिरम्बुमुचो यथा।।
तत्र राजन्महानासीत्सङ्ग्रामो रोमहर्षणः।
पाण्डवानां महाबाहो तावकानां च संयुगे।।
रुद्रस्याक्रीडसदृशः संहारः सर्वदेहिनाम्।।
ततः शब्दो महानासीद्यातो येन धनञ्जयः।
अतीव सर्वशब्देभ्यो रोमहर्षकरः प्रभो।।
अर्जुनस्य महाबाहो तावकानां च धन्विनाम्।
मध्ये भारतसैन्यस्य माधवस्य महारणे।
द्रोणस्यापि परैः सार्धं व्यूहद्वारे महारणे।।
एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते।
क्रुद्धेऽर्जुने तथा द्रोणे सात्वते च महारथे।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे चतुर्विंशत्यधिकशततमोऽध्यायः।। 124 ।।