द्रोणपर्व
अध्यायः १२१
धृतराष्ट्र उवाच।
सम्प्रद्य महत्सैन्यं यान्तं शैनेयमर्जुनम्।
निर्हीका मम ते पुत्राः किमकुर्वत सञ्जय।।
कथं वैषां तदा युद्धे धृतिरासीन्मुमूर्षताम्।
शैनेयचरितं दृष्ट्वा यादृशं सव्यसाचिनः।।
किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः।
कथं नु सात्यकिर्युद्धे व्यतिक्रान्तो महायशाः।।
कथं च मम पुत्राणां जीवतां तत्र सञ्जय।
शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व सञ्जय।।
अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम्।
एकस्य बहुभिः सार्धं शत्रुभिस्तैर्महारथैः।।
विपरीतमहं मन्ये मन्दभाग्यं सुतं प्रति।
यत्रावध्यन्त समरे सात्वतेन महारथाः।।
एकस्य हि न पर्याप्तं यत्सैन्यं तस्य सञ्जय।
क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः।।
निर्जित्य समरे द्रोणं कृतिनं चित्रयोधिनम्।
यथा पशुगणान्सिंहस्तद्वद्धन्ता सुतान्मम।।
कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे।
युयुधानो न शकितो हन्तुं यत्पुरुषर्षभः।।
नैतदीदृशकं युद्धं कृतवांस्तत्र फल्गुनः।
यादृशं कृतवान्युद्धं शिनेर्नप्ता महायशाः।।
स़ञ्जय उवाच।
तव दुर्मन्त्रिते राजन्दुर्योधनकृतेन च।
शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत।।
ते पुनः सन्न्यवर्तन्त कृत्वा संशपथान्मिथः।
परां युद्धे मतिं क्रूरां तव पुत्रस्य शासनात्।।
त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः।
शककाम्भोजबालह्लीका यवनाः पारदास्तथा।।
कुलिन्दास्तङ्कणाम्बष्ठाः पैशाचाश्च सबर्बराः।
पार्वतीयाश्च राजेन्द्र क्रुद्धाः पाषाणपाणयः।
अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा।।
युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम्।
शूराः पञ्चशतं राजञ्शैनेयं समुपाद्रवन्।।
ततो रथसहस्रेण महारथशतेन च।
द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः।।
शरवर्षाणि मुञ्चन्तो विविधानि महारथाः।
अभ्यद्रवन्त शैनेयमसङ्ख्येयाश्च पत्तयः।।
तांश्च सञ्चोदयन्सर्वान्घ्नतैनमिति भारत।
दुःशासनो महाराज सात्यकिं पर्यवारयत्।।
तत्राद्भुतमपश्याम शैनेयचरितं महत्।
यदेको बहुभिः सार्धमसम्भ्रान्तमयुध्यत।।
अवधीच्च रथानीकं द्विरदानां च तद्बलम्।
सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः।।
तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः।
अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः।।
कुञ्जरैर्मथितैश्चापि ध्वजैश्च विनिपातितैः।
वर्मभिश्च तथाऽनीकैर्व्यवकीर्णा वसुन्धरा।।
स्रग्भिराभरणैर्वस्त्रैरनुकर्षैश्च मारिष।
सञ्छन्ना वसुधा तत्र द्यौर्ग्रहैरिव भारत।।
गिरिरूपधरैश्चापि पतितैश्च महागजैः।
`म्लेच्छस्थितैर्महाराज भिन्नाञ्जनचयोपमैः।।
मृगैर्मन्द्रैश्च भद्रैश्च मृगमन्द्रैस्तथाऽपरैः।
भद्रैर्मन्द्रमृगैश्चैव मृगभद्रैस्तथैव च।।
भद्रमन्द्रैश्चैव तथा तथा भद्रमृगैरपि।
तत्रतत्र धरा कीर्णा शयानैः पर्वतोपमैः'।।
अञ्जनस्य कुले जाता वामनस्य च भारत।
सुप्रतीककुले जाता महापद्मकुले तथा।।
ऐरावतकुले चैव तथाऽन्येषु कुलेषु च।
जाता दन्तिवरा राजञ्शेरते बहवो हताः।।
वनायुजान्पार्वतीयान्काम्भोजान्बाह्लिकानपि।
तथा हयवरान्राजन्निजघ्ने तत्र सात्यकिः।।
नानादेशसमुत्थांश्च नानाजातींश्च दन्तिनः।
निजघ्ने तत्र शैनेयः शतशोऽथ सहस्रशः।।
तेषु प्रकाल्यमानेषु दस्यून्दुःशासनोऽब्रवीत्।
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः।।
तांश्चातिभग्नासन्सम्प्रेक्ष्य पुत्रो दुःशासनस्तव।
पाषाणयोधिनः शूरान्पार्वतीयानचोदयत्।।
अश्मयुद्धेषु कुशला नैतञ्जानापि सात्यकिः।
अश्मयुद्धमजानन्तं हतैनं युद्धकामुकम्।।
तथैव कुरवः सर्वे नाश्मयुद्धविशारदाः।
अभिद्रवत माभैष्ट न वः प्राप्स्यति सात्यकिः।।
ते पार्वतीया राजानः सर्वे पाषाणयोधिनः।
अभ्यद्रवन्त शैनेयं राजानमिव मन्त्रिणः।।
ततो गजशिरःप्रख्यैरुपलैः शैलवासिनः।
उद्यतैर्युयुधानस्य पुरतस्तस्थुराहवे।।
क्षेरणीयैस्तथाप्यन्ये सात्वतस्य वधैषिणः।
चोदितास्तव पुत्रेण सर्वतो रुरुधुर्दिशः।।
तेषामापततामेव शिलायुद्धं चिकीर्षताम्।
सात्यकिः प्रतिसन्धाय निशितान्प्राहिणोच्छरान्।।
तामश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम्।
चिच्छेदोरगसंकाशैर्नाराचैः शिनिपुङ्गवः।।
तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः।
प्रायः सैन्यान्यहन्यन्त हाहाभूतानि मारिष।।
ततः पञ्चशतं शूराः समुद्यतमहाशिलाः।
निकृत्तबाहवो राजन्निपेतुर्धरणीतले।।
सात्वतस्य च भल्लेन निष्पिष्टैस्तैस्तथाऽद्रिभिः।
न्यपतन्निहता म्लेच्छास्तत्रतत्र गतासवः।।
ते हन्यमानाः समरे सात्वतेन महात्मना।
अश्मवृष्टिं महाघोरां पातयन्ति स्म सात्वते।।
पाषाणयोधिनः शूरान्यतमानानवस्थितान्।
न्यवधीद्बहुसाहस्रांस्तदद्भुतमिवाभवत्।।
ततः पुनर्बस्तमुखैरश्मवृष्टीः समन्ततः।
अधोबस्तैः स्थूलबस्तैर्दरदैः खसतङ्कणैः।।
लम्बकैश्च कुणिन्दैश्च क्षिप्ताः क्षिप्ताश्च सात्यकिः।
नाराचैः प्रतिचिच्छेद प्रतिपत्तिविशारदः।।
अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः।
शब्देन प्राद्रवन्सङ्ख्ये रथाश्वगजपत्तयः।।
अश्मचूर्णैरवाकीर्णा मनुष्यगजवाजिनः।
नाशक्नुवन्नवस्थातुं भ्रमरैरिव दंशिताः।।
हतशिष्टाः सरुधिरा भिन्नमस्तकपिण्डिकाः।
`विभिन्नशिरसो राजन्दन्तैश्छिन्नैश्च दन्तिनः।
निर्धूतैश्च करैर्नागा व्यङ्गाश्च शतशः कृताः।।
हत्वा पञ्चशतं योधांस्तत्क्षणेनैव मारिष।
व्यचरत्पृतनामध्ये शैनेयः कृतहस्तवत्।।
कुञ्जराः सन्न्यवर्तन्त युयुधानेन मोहिताः।।
अश्मनां भिद्यमानानां सायकैः श्रूयते ध्वनिः।
पद्मपत्रेषुधाराणां पतन्तीनामिव ध्वनिः'।।
ततः शब्दः समभवत्तव सैन्यस्य मारिष।
माधवेनार्द्यमानस्य सागरस्येव पर्वणि।।
तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत्।
एष सूत रणे क्रुद्धः सात्वतानां महारथः।।
दारयन्बहुधा सैन्यं रणे चरति कालवत्।
यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय।।
पाषाणयोधिभिर्नूनं युयुधानः समागतः।
तथाहि रथिनः सर्वे हियन्ते विद्रुतैर्हयैः।।
विशस्त्रकवचा रुग्णास्तत्रतत्र पतन्ति च।
न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान्।।
सञ्जय उवाच।
इत्येतद्वचनं श्रुत्वा भारद्वाजस्य सारथिः।
प्रत्युवाच ततो द्रोणं सर्वशस्त्रभृतां वरम्।।
सैन्यं द्रवति चायुष्मन्कौरवेयं समन्ततः।
पश्य योधान्रणे भग्नान्धावतो वै ततस्ततः।।
इमे च संहताः शूराः पाञ्चालाः पाण्डवैः सह।
त्वामेव हि जिघांसन्त आद्रवन्ति समन्ततः।।
अत्र कार्यं समाधत्स्व प्राप्तकालमरिन्दम।
स्वाने वा गमने वापि दूरं यातश्च सात्यकिः।।
सञ्चय उवाच।
तथैवं वदतस्तस्य भारद्वाजस्य सारथेः।
प्रत्यदृश्यत शैनेयो निघ्नन्बहुविधान्रथान्।।
ते वध्यमानाः समरे युयुधानेन तावकाः।
युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः।।
यैस्तु दुःशासनः सार्धं रथैः पूर्वं न्यवर्तत।
ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे एकविंशत्यधिकशततमोऽध्यायः।। 121 ।।