द्रोणपर्व
अध्यायः ११२
सञ्जय उवाच।
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः।
स पार्थाद्भयमाशंसन्परित्यागान्महीपतेः।।
अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः।
न मां भीतमिति ब्रूयात्प्रयान्तं फल्गुनं प्रति।।
निश्चित्य बहुधैवं स सात्यकिर्युद्धदुर्मदः।
नातिव्यक्तमिवाभाष्य धर्मराजं महायशाः।।
शोकगद्गदया वाचा शोकोपहतचेतनः।
यथेदानीमिति ध्यात्वा धर्मराजमथाब्रवीत्।।
कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशाम्पते।
अनुयास्यामि बीभत्सुं करिष्ये वचनं तव।।
न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते।
यो मे प्रियतरो राजन्सत्यमेतद्ब्रवीमि ते।।
तस्याहं पदवीं यास्ये सन्देशात्तव मानद।
त्वत्कृते न च मे किञ्चिदकर्तव्यं कथञ्चन।।
यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर।
तथा तवापि वचनं विशिष्टतरमेव मे।।
प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ।
तयोः प्रिये स्थितं चैव विद्धि मां राजपुङ्गव।।
तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो।
भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरपुङ्गव।।
द्रणानीकं विशाम्येष क्रुद्धो झष इवार्णवम्।
तत्र यास्यामि यत्रासौ राजन्राजा जयद्रथः।।
यत्र सेनान्तमाश्रित्य भीतस्तिष्ठति पाण्डवात्।
गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः।।
इतिस्त्रियोजनं मन्ये तमध्वानं विशाम्पते।
यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः।।
त्रियोजनगतस्यापि तस्य यास्याभ्यहं पदम्।
आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना।।
अनादिष्टस्तु गुरुणा को नु युध्येत मानवः।
आदिष्टस्तु यथा राजन्को न युध्येत मादृशः।।
अभिजानामि तं देशमितः पूर्णं त्रियोजनम्।
यत्र तिष्ठति राजाऽसौ सैन्धवो बालघातकः।।
सागरप्रतिमं सैन्यं गर्जन्तमिव सागरम्।
हलशक्तिगदाप्रासचर्मखङ्गर्ष्टितोमरम्।
इष्वस्त्रवरसम्बाधं क्षोभयित्वा व्रजाम्यहम्।।
यदेतत्कुञ्जरानीकं सहस्रमनुपश्यसि।
कुलमाञ्जनकं नाम यत्रैते वीर्यशालिनः।।
आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः।
नागा नगनिभा राजन्क्षरन्त इव तोयदाः।।
नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः।
अन्यत्र हि वधादेषां नास्ति राजन्पराजयः।।
अथ यान्रथिनो राजन्सहस्रमनुपश्यसि।
एते रुक्मरथा नाम राजपुत्रा महारथाः।।
रथेष्वस्त्रेषु निपुणा नागेषु च विशाम्पते।
धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः।।
गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा।
खङ्गप्रहरणे युक्ताः सम्पाते चासिचर्मणोः।।
शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम्।
नित्यं हि समरे राजन्विजिगीषन्ति मानवान्।।
कर्णेन विहिता राजन्दुःशासनमनुव्रताः।
एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति।।
सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः।
तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात्।।
ते न क्लान्ता न च श्रान्ता दृढावरणकार्मुकाः।
मदर्थेऽधिष्ठिता नूनं धार्तराष्ट्रस्य शासनात्।।
एतान्प्रमथ्य सङ्ग्रामे प्रियार्थं तव कौरव।
प्रयास्यामि ततः पश्चात्पदवीं सव्यसाचिनः।।
यांस्त्वेतानपरान्राजन्नागान्सप्तशतानिमान्।
प्रेक्षसे वर्मसञ्छन्नान्किरातैः समधिष्ठितान्।।
किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना।
स्वलङ्कृतांस्तदा प्रेष्यानिच्छञ्जीवितमात्मनः।।
आसन्नेते पुरा राजंस्तव कर्मकरा दृढम्।
त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम्।।
एषामेते महामात्राः किराता युद्धदुर्मदाः।
हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः।।
एते विनिर्जिताः सङ्ख्ये सङ्ग्रामे सव्यसाचिना।
मदर्थमद्य संयत्ता दुर्योधनवशानुगाः।।
एतान्हत्वा शरै राजन्किरातान्युद्धदुर्मदान्।
सैन्धवस्य वधे यत्तमनुयास्यामि पाण्डवम्।।
ये त्वेते सुमहानाग अञ्जनस्य कुलोद्भवाः।
कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः।।
जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः।
लब्धलक्षा रणे राजन्नैरावणसमा युधि।।
आस्थिता दस्युभिस्तीक्ष्णैः शूरैरुत्तमपार्वतैः।
कर्कशैः प्रवरैर्योधैः काष्णार्यसतनुच्छदैः।।
सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः।
अनेकयोनयश्चान्ये तथा मानुषयोनयः।।
अनीकमसतामेतद्भूम्रवर्णमुदीर्यते।
म्लेच्छानां पापकर्तॄणां हिमदुर्गनिवासिनाम्।।
एतद्दुर्योधनो लब्ध्वा समग्रं राजमण्डलम्।
कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम्।।
सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान्।
कृतार्थमथ चात्मानं मन्यते कालचोदितः।।
ते तु सर्वेऽद्य सम्प्राप्ता मम नाराचगोचरम्।
नभविष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः।।
तेन संभाविता नित्यं परवीर्योपजीविना।
विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः।।
ये त्वेते रथिनो राजन्दृश्यन्ते काञ्चनध्वजाः।
एते दुर्वारणा नाम काम्भोजा यदि ते श्रुताः।।
शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः।
संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः।।
अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत।
यत्ता मदर्थे तिष्ठन्ति कुरुवीराभिरक्षिताः।।
अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः।
तानहं प्रमथिष्यामि तृणानीव हुताशनः।।
तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च।
रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः।।
अस्मिंस्तु किल सम्मर्दे ग्राह्यं विविधमायुधम्।
यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः।।
काम्भोजैर्हि समेष्यामि तीक्ष्णैराशीविषोपमैः।
नानाशस्त्रसमावायैर्विविधायुधयोधिभिः।।
किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः।
लालितैः सततं राज्ञा दुर्योधनहितैषिभिः।।
शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः।
अग्निकल्पैर्युराधर्षैः प्रदीप्तैरिव पावकैः।।
तथाऽन्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः।
समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः।।
`त्रियोजनगतस्यापि पदवीं सव्यसाचिनः।
यास्यामि रथिनां श्रेष्ठं प्रवरं च धनुष्मताम्।।
सूर्योदयगतस्याहं पाण्डवस्य गतिं चरन्।
अपराह्णगते सूर्ये गमिष्यामि न संशयः'।।
तस्माद्वै वाजिनो मुख्यान्विश्रुताञ्शुभलक्षणैः।
उपावृत्तांश्च पीतांश्च पुनर्युञ्जन्तु मे रथे।।
सञ्जय उवाच।
तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च।
रथे चास्थापयद्राजा शस्त्राणि विविधानि च।।
ततस्तान्सर्वतोमुक्तान्सदश्वांश्चतुरो जनाः।
रसवत्पाययामासुः पानं मदसमीरणम्।।
पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलङ्कृतान्।
विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः।।
तान्युक्तान्रुक्मवर्णाभान्विनीताञ्शीघ्रगामिनः।
संहृष्टमनसो व्यग्रान्विधिवत्कल्पितान्रथे।।
महाध्वजेन सिंहेन हेमकेसरमालिना।
संवृते केतकैर्हैर्मैर्मणिविद्रुमचित्रितैः।।
पाण्डुराभ्रप्रकाशाभिः पताकाभिरलङ्कृते।
हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे।
योजयामास विधिवद्धेमभाण्डविभूषितान्।।
दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा।
न्यवेदयद्रथं युक्तं वासवस्येव मातलिः।।
ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः।
स्नातकानां सहस्रस्य स्वर्णनिष्कानथो ददौ।।
आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः।
ततः समधुपर्काम्भः पीत्वा कैरातकं मधु।।
लोहिताक्षो बभौ तत्र मदविह्वललोचनः।
आलभ्य वीरकांस्यं च हर्षेण महताऽन्वितः।।
द्विगुणीकृततेजोभिः प्रज्वलन्निव पावकः।
उत्सङ्गे धनुरादाय सशरं रथिनां वरः।।
`आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः'।
कृतस्वस्त्ययनो विप्रैः कवची समलङ्कृतः।।
लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः।
युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः।।
तेन मूर्धन्युपाघ्रातः कृतस्वस्ययनोऽपि च।
आशिषो विविधाः श्रुत्वा धर्मराजमुखेरिताः।
हर्षेण महता युक्त आरुरोह महारथम्।।
ततस्ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः।
अजय्या जैत्रमूहुस्तं विकुर्वाणाः स्म सैन्धवाः।
यथा शक्ररथं राजन्नूहुस्ते हरयः पुरा।।
तथैव भीमसेनोऽपि धर्मराजेन पूजितः।
प्रायात्सात्यकिना सार्धमभिवाद्य युधिष्ठिरम्।।
तौ दृष्ट्वा प्रविविक्षन्तौ तव सेनामरिंदमौ।
संयत्तास्तावकाः सर्वे तस्थुर्द्रोणपुरोगमाः।।
सन्नद्धमनुगच्छन्तं दृष्ट्वा भीमं स सात्यकिः।
अभिनन्द्याब्रवीद्वीरस्तदा हर्षकरं वचः।।
त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते।
अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम्।।
आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम्।
जानीषे मम वीर्यं त्वं तव चाहमरिन्दम।
तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम्।।
सञ्जय उवाच।
तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये।
अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम।।
एवमुक्तः प्रत्युवाच भीमसेनं स माधवः।
गच्छ गच्छ ध्रुवं पार्थ ध्रुवो हि विजयो मम।।
यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशमास्थितः।
निमित्तानि च धन्यानि यथा भीम वदन्ति मां।।
निहते सैन्धवे पापे पाण्डवेन महात्मना।
परिष्वजिष्ये राजानं धर्मात्मानं युधिष्ठिरम्।
`अप्रमादश्च ते कार्यो द्रोणं प्रति महारथम्'।।
सञ्चय उवाच।
एतावदुक्त्वा भीमं तु विसृज्य च महायशाः।
सम्प्रैक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव।।
तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप।
भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत।।
ततः प्रयातः सहसा तव सैन्यं स सात्यकिः।
दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात् ।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे द्वादशाधिकशततमोऽध्यायः।। 112 ।।