द्रोणपर्व
अध्यायः ११३
सञ्जय उवाच।
प्रयाते तव सैन्यं तु युयुधाने युयुत्सया।
धर्मराजो महाराज स्वेनानीकेन संवृतः।
प्रायाद्द्रोणरथं प्रेप्सुर्युयुधानस्य पृष्ठतः।।
ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः।
`प्रयाते माधवे राजन्निदं वचनमब्रवीत्'।।
प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः।
आगच्छत प्रहरत द्रुतं विपरिधावत।।
यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः।
महारथा हि बहवो यतिष्यन्तेऽस्य निर्जये।।
सञ्जय उवाच।
`सेनापतिवचः श्रुत्वा पाण्डवेयाः समन्ततः।
अभ्युद्ययुर्महाराज तव सैन्यं समन्ततः।।
जहि प्रहर गृह्णीहि विध्य विद्रव चाद्रव'।
इति ब्रुवन्तौ वेगेन निपेतुस्ते महारथाः।।
वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः।
`बाणशङ्खरवान्कृत्वा विमिश्रान्वाद्यनिस्वनैः।।
युयुधानरथं दृष्ट्वा तावका अभिदुद्रुवुः'।
ततः शब्दो महानासीद्युयुधानरथं प्रति।।
आकीर्यमाणा धावन्ती तव पुत्रस्य वाहिनी।
सात्वतेन महाराज शतधाऽभिव्यशीर्यत।।
तस्यां विदीर्यमाणायां शिनेः पुत्रो महारथः।
सप्तवीरान्महेष्वासानग्रानीकेष्वपोथयत्।।
अथान्यानपि राजेन्द्र नानाजनपदेश्वरान्।
शरैरनलसङ्काशैर्निन्ये वीरान्यमक्षयम्।।
शतमेकेन विव्याध शतेनैकं च पत्रिणाम्।
द्विपारोहान्द्विपांश्चैव हयारोहान्हयांस्तथा।
रथिनः साश्वसूतांश्च जघानेशः पशूनिव।।
तं तथाऽद्भुतकर्माणं शरसम्पातवर्षिणम्।
न केचनाभ्यधावन्वै सात्यकिं तव सैनिकाः।।
ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना।
आयोधनं जहुर्वीरा दृष्टा तमतिमानिनम्।।
तमेकं बहुधा पश्यन्मोहितास्तस्य तेजसा।।
रथैर्विमथितैश्चैव भग्ननीडैश्च मारिष।
चक्रैर्विमथितैश्छत्रैर्ध्वजैश्च विनिपातितैः।।
अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः।
बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशाम्पते।।
हस्तिहस्तोपमैश्चापि भुजङ्गाभोगसन्निभैः।
ऊरुभिः पृथिवी च्छन्ना मनुजानां नराधिप।।
शशाङ्कुसन्निभैश्चैव वदनैश्चारुकुण्डलैः।
पतितैर्ऋषभाक्षाणां बभौ भारत मेदिनी।।
गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः।
रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः।।
तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः।
उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरङ्गमाः।
गतसत्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना।।
नानाविधानि सैन्यानि तव हत्वा तु सात्वतः।
प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम्।।
ततस्तेनैव मार्गेण येन यातो धनञ्जयः।
इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः।।
भारद्वाजं समासाद्य युयुधानश्च सात्यकिः।
न न्यवर्तत सङ्क्रुद्धो वेलामिव जलाशयः।।
निवार्य तु रणे द्रोणो युयुधानं महारथम्।
विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः।।
सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः।
हेमपुङ्घैः शिलाधौतैः कङ्कबर्हिणवाजितैः।।
षं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत्।
स तं न ममृषे द्रोणं युयुधानो महारथः।।
सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः।
दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च।।
युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः।
एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान्।
ध्वजमेकेन बाणेन विव्याध युधि मारिष।।
तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः।
त्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः।।
तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः।
`प्राच्छादयदसम्भ्रान्तस्त्वरमाणो महारथः।।
द्रोणस्तु परमक्रुद्धः सात्यकिं परवीरहा।
अवाक्रिच्छितैर्बाणैर्वासुदेवपराक्रमम्।।
तं तथा शरजालेन प्रच्छाद्य महता पुनः।
द्रोणः प्रहस्य शैनेयमिदं वचनमब्रवीत्'।।
तवाचार्यो रणं हित्वा गतः कापुरुषो यथा।
युध्यमानं च मां हित्वा प्रदक्षिणमवर्तत।।
त्वं हि मे युध्यतो नाद्य जीवन्यास्यसि माधव।
यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम्।।
सात्यकिरुवाच।
धनञ्जयस्य पदवीं धर्मराजस्य शासनात्।
गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत्।।
आचार्यानुगतो मार्गः शिष्यैरन्वास्यते सदा।
तस्मादेव व्रजाम्याशु यथा मे स गुरुर्गतः।।
सञ्जय उवाच।
एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन्।
प्रयातः सहसा राजन्सारथिं चेदमब्रवीत्।।
द्रोणः करिष्यते यत्नं सर्वथा मम वारणे।
यत्तो याहि रणे सूत शृणु चेदं वचः परम्।।
एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम्।
अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महद्बलम्।।
तदनन्तरमेतच्च बाह्लिकानां महद्बलम्।
बाह्लिकाभ्याशतो युक्तं कर्णस्य च महद्बलम्।।
अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे।
अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम्।।
एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत्।
मध्यमं जवमास्थाय वह मामत्र सारथे।।
बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः।
दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः।।
हस्त्यश्वरथसम्बाधं यच्चानीकं विलोक्यते।
नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम्।।
`*ततः शक्यो महाव्यूहो भेत्तुं स सहसा रणे।
तं देशं त्वरिता यामो मृद्ग्रन्तो युधि शात्रवान्।।
तत्रैते सम्प्रहृष्टत्वान्नास्मान्प्रति युयुत्सवः।।
अयुध्यमानो बहुभिरेकं प्राप्य सुदुर्बलम्।
बलं प्रमथ्य गच्छामि मिषतां सर्वधन्विनाम्।।
मध्यतो याहि यत्रोग्रं कर्णस्य सुमहद्बलम्।
यत्रैते परमक्रुद्धा दाक्षिणात्या महारथाः।
एतान्विजित्य सङ्ग्रामे ततो यामो धनञ्जयम्।।
सञ्जय उवाच।
युयुधानवचः श्रुत्वा युयुधानस्य सारथिः।
यथोक्तमगमद्राजन्वर्जयन्द्रोणमाहवे'।।
तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून्।
युयुधानं महाभागं गच्छन्तमनिवर्तिनम्।।
स च सैन्यं महद्भित्त्वा दाक्षिणात्यबलं च तत्।
कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः।।
प्राविशद्भारतीं सेनामपर्यन्तां स सात्यकिः।
सात्यको हि ततः सैन्यं द्रावयन्स समन्ततः।।
प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च।
अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत्।।
तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः।
चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान्।।
ततः पुनः षोडशभिर्नतपर्वभिराशुगैः।
सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे।।
स ताड्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः।
सात्वतेन महाराज कृतवर्मा न चक्षमे।।
स वत्सन्दतं सन्धाय तिग्मांश्वनलसप्रभम्।
आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम्।।
स तस्य देहावरणं भित्त्वा देहं च सायकः।
सपुङ्खपत्रः पृथिवीं विवेश रुधिरोक्षितः।।
अथास्य बहुभिर्बाणैरच्छिनत्परमास्त्रवित्।
स मार्गणगणं राजन्कृतवर्मा शरासनम्।।
विव्याध च रणे राजन्सात्यकिं सत्यविक्रमम्।
दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे।।
ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः।
जघान दक्षिणं बहुं सात्यकिः कृतवर्मणः।।
ततोऽन्यत्सुदृढं चापं पूर्णमायम्य सात्यकिः।
व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः।।
सरथं कृतवर्माणं समन्तात्पर्यवारयत्।
छादयित्वा रणे राजन्हार्दिक्यं स तु सात्यकिः।
अथास्य भल्लेन शिरः सारथेः समकृन्तत।।
स पपात हतः सूतो हार्दिक्यस्य महारथात्।
ततस्ते यन्तृरहिताः प्राद्रवंस्तुरगा भृशम्।।
अथ भोजस्तु सम्भ्रान्तो निगृह्य तुरगामन्स्वयम्।
तस्थौ वीरो धनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन्।।
स मुहूर्तमिवाश्वास्य सदश्वान्समनोदयत्।
व्यपेत भीरमित्राणामावहत्सुमहद्भयम्।।
सात्यकिश्चात्यगात्तस्मात्स तु भीममुपाद्रवत्।।
युयुधानोऽपि राजेन्द्र भोजानीकाद्विनिःसृतः।
प्रययौ त्वरितस्तूर्णं काम्भोजानां महाचमूम्।।
स तत्र बहुभिः शूरैः सन्निरुद्धो महारथैः।
न चचाल तदा राजन्सात्यकिः सत्यविक्रमः।।
सन्धाय च चमूं द्रोणो भोजे भारं निवेश्य च।
अभ्यधावद्रणे यत्तो युयुधानं युयुत्सया।।
तथा तमनुधावन्तं युयुधानस्य पृष्ठतः।
न्यवारयन्त संहृष्टाः पाण्डुसैन्ये ब्रृहत्तमाः।
समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम्।।
पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः।
विक्रम्य वारिता राजन्वीरेण कृतवर्मणा।।
यतमानांश्च तान्सर्वानीषद्विगतचेतसः।
अभितस्ताञ्शरौघेण क्लान्तवाहानकारयत्।।
निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे।
अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः।
`हार्दिक्यं समरे यत्ता न शेकुः प्रतिवीक्षितुम्'।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे त्रयोधशाधिकशततमोऽध्यायः।। 2 ।।