द्रोणपर्व
अध्यायः १११
सञ्जय उवाच।
प्रीतियुक्तं च हृद्यं च माननीयं च सर्वशः।
कालयुक्तं च चित्रं च स्वधिया चाभिभाषितम्।।
धर्मराजस्य तद्वाक्यं निश्यम्य शिनिपुङ्गवः।
सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम्।।
श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाऽच्युत।
न्याययुक्तं च सत्यं च फल्गुनार्थे यशस्करम्।।
एवंविधे तथा काले मादृशं प्रेक्ष्य सत्तम।
वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम्।।
न मे धनञ्जयस्यार्थे प्राणा रक्ष्याः कथञ्चन।
त्वत्प्रयुक्तः पुनरहं किं नकुर्यां महाहवे।।
लोकत्रयं योधयेयं सदेवासुरमानुषम्।
त्वत्प्रयुक्तो नरेन्द्रेन्द्र किम्पुनस्तान्सुदुर्बलान्।।
सुयोधनबलं त्वद्य योधयिष्ये समन्ततः।
विजेष्ये च रणे राजन्सत्यमेतद्ब्रवीमि ते।।
कुशल्यहं कुंशलिनं समासाद्य धनञ्जयम्।
हते जयद्रथे राजन्पुनरेष्यामि तेऽन्तिकम्।।
अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप।
वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः।।
दृढं त्वभिहितश्चाहमर्जुनेन पुनःपुनः।
मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः।।
अद्य माधव राजानमप्रमत्तोऽनुपालय।
आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम्।।
त्वयि चाहं महाबाहो प्रद्युम्ने वा महारथे।
नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम्।।
जानीषे हि रणे द्रोणं कुरुषु श्रेष्ठसम्मतम्।
प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव।।
ग्रहमे धर्मराजस्य भारद्वाजोऽपि गृध्यति।
शक्तश्चापि रणे द्रोणो निग्रहीतुं युधिष्ठिरम्।।
एवं त्वयि समाघाय धर्मराजं नरोत्तमम्।
अहमद्य गमिष्यामि सैन्धवस्य वधाय हि।।
`स त्वमद्य रणे यत्तो रक्ष माधव पाण्डवम्।
रक्षेणे धर्मराजस्य ध्रुवो हि विजयो मम'।।
जयद्रथं च हत्वाऽहं द्रुतमेष्यामि माधव।
धर्मराजं न चेद्द्रोणो निगृह्णीयाद्रणे बलात्।।
निगृहीते नरश्रेष्ठे भारद्वाजेन माधव।
सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत्।।
एवङ्गते नरश्रेष्ठे पाण्डवे सत्यवादिति।
अस्माकं गमनं व्यक्तं वनं प्रति भवेत्पुनः।।
सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति।
यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद्युधिष्ठिरम्।।
स त्वमद्य महाबाहो प्रियार्थं मम माधव।
जयार्थं च यशोर्थं च रक्ष राजानमाहवे।।
स भवान्मयि निक्षेपो निक्षिप्तः सव्यसाचिना।
भारद्वाजाद्भयं नित्यं मन्यमानेन वै प्रभो।।
तस्यापि च महाबाहो नित्यं पश्यामि संयुगे।
नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो।।
मां चापि मन्यते युद्धे भारद्वाजस्य धीमतः।
सोऽहं संभावनानं चैतामाचार्यवचनं च तत्।
पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते।।
आचार्यो लघुहस्तत्वादभेद्यकवचावृतः।
उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः।।
यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः।
तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथाऽर्जुनः।।
कुरु त्वमात्मनो गुप्तिं कस्ते गोप्ता गते मयि।
यः प्रतीयाद्रमे द्रोणं यावद्गच्छामि पाण्डवम्।।
मा च ते भयमद्यास्तु राजन्नर्जुनसम्भवम्।
न स जातु महाबाहुर्भारमुद्यम्य सीदति।।
ये च सौवीरका योधास्तथा सैन्धवपौरवाः।
उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः।।
ये च कर्णमुखा राजन्रथोदाराः प्रकीर्तितः।
एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम्।।
उद्युक्ताः पृथिवीपाल ससुरासुरमानुषाः।
सराक्षसगणा राजन्सकिन्नरमहोरगाः।।
जङ्गमस्थावरैः सार्धं नालं पार्थस्य संयुगे।
एवं ज्ञात्वा महाराज व्येतु ते भीर्धनञ्जये।।
एवं वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ।
न तत्र कर्मणो व्यापत्कथंचिदपि विद्यते।
दैवं कृतास्त्रतां योगममर्षं शौर्यमाहवे।
कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय।।
मयि चापि सहाये ते गच्छमानेऽर्जुनं प्रति।
द्रोणे चित्रास्त्रतां सह्ख्ये राजंस्त्वमनुचिन्तय।।
आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति।
प्रतिज्ञामात्मनो रक्षन्सत्यां कर्तुं च भारत।।
कुरुष्वाद्यात्मनो गुप्तिं कस्ते गोप्ता गते मयि।
यस्याहं प्रत्ययात्पार्थं गच्छेयं फल्गुनं प्रति।।
न ह्यहं त्वां महाराज अनिक्षिप्य महाहवे।
क्वचिद्यास्यामि कौरव्य सत्यमेतद्ब्रवीमि ते।।
`न पश्यामि रथं कञ्चिद्यस्ते गोप्ता भवेदिह।
शक्तं यं मन्यसे राजन्गोप्तारं प्रति पाण्डव'।।
एतद्विचार्य बहुशो बुद्ध्या बुद्धिमतां वर।
दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन्प्रशाधि माम्।।
युधिष्ठिर उवाच।
एवमेतन्महाबाहो यथा वदसि माधव।
न तु मे शुद्ध्यते भावः श्वेताश्वं प्रति मारिष।।
करिष्ये परमं यत्नमात्मनो रक्षणे ह्यहम्।
गच्छ त्वं समनुज्ञातो यत्र यातो धनञ्जयः।।
आत्मसंरक्षणं सङ्ख्ये गमनं चार्जुनं प्रति।
विचार्यैतत्स्वयं बुद्ध्या गमनं तत्र रोचये।।
स त्वमातिष्ठ यानाय यत्र यातो धनञ्जयः।
ममापि रक्षणं भीमः करिष्यति महाबलः।।
पार्षतश्च ससोदर्यः पार्थिवाश्च मबाहलाः।
द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः।।
केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः।
विराटो द्रुपदश्चैव शिखण्डी च महारथः।।
धृष्टकेतुश्च बलवान्कुन्तिभोजश्च मातुलः।
नकुलः सहदेवश्च पाञ्चालाः सृञ्जयास्तथा।
एते समाहितास्तात रक्षिष्यन्ति न संशयः।।
न द्रोणः सह सैन्येन कृतवर्मा च संयुगे।
समासादयितुं शक्तो न च मां धर्षयिष्यति।।
धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परन्तपः।
वारयिष्यति विक्रम्य वेलेव मकरालयम्।।
यत्र स्थास्यति सङ्ग्रामे पार्षतः परवीरहा।
न द्रोणस्य बलं तात क्रमेत्तत्र कथञ्चन।।
एष द्रोणविनाशाय समुत्पन्नो हुताशनात्।
कवची स शरी खङ्गी धन्वी च वरभूषणः।।
`एष द्रोणं रणे क्रुद्धं वारयेत स वै प्रभो।
पाञ्चालः सहितैः सर्वैः पाण्डवानां च धन्विभिः'।।
विक्रुधं गच्छ शैनेय मा कार्षीर्मयि सम्भ्रमम्।
धृष्टद्युम्नो रणे क्रुद्धं द्रोणमावारयिष्यति।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे एकादशाधिकशततमोऽध्यायः।। 111 ।।