द्रोणपर्व
अध्यायः १००
सञ्जय उवाच।
सलिले जनिते तस्मिन्कौन्तेयेन महात्मना।
निस्तारिते द्विषत्सैन्ये कृते च शरवेश्मनि।।
वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः।
मोचयामास तुरगान्विनुन्नान्कङ्कपत्रिभिः।।
अदृष्टपूर्वं तद्दृष्ट्वा साधुवादो महानभूत्।
सिद्धचारणसङ्घानां सैनिकानां च सर्वशः।।
पदातिनं तु कौन्तेयं युध्यमानं महारथाः।
नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत्।।
आपतत्सु रथौघेषु प्रभूतगजवाजिषु।
नासम्भ्रमत्तदा पार्थस्तदस्य पुरुषानति।।
व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः।
न चाव्यथत धर्मात्मा वासविः परवीरहा।।
शतानि शरजालानि गदाः प्रासांश्च वीर्यवान्।
आगतानग्रसत्पार्थः सरितः सागरो यथा।।
अस्त्रवेगेन महता पार्थो बाहुबलेन च।
सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान्।।
तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः।
अपूजयन्महाराज कौरवा महदद्भुतम्।।
कौरवा ऊचुः।
किमद्भुततमं लोके भविताऽप्यथवा ह्यभूत्।
यदश्वान्पार्थ गोविन्दौ पाययामासतू रणे।।
भयं विपुलमस्मासु तावधत्तां नरोत्तमौ।
तेजो विदधतुश्चोग्रं यत्सैन्यं तावकं विभो।
`दधारैको रणे पार्थो वेलेवोद्वृत्तमर्णवम्।।
पार्थस्य शरसञ्छन्ने तस्मिन्सद्मनि भारत।
आकाशमिव सम्प्राप्य विचेरुस्तत्र पक्षिणः।।
न चैनं युधि तिष्ठन्तं सैन्येषु तव मारिष।
अभ्यद्रवत्सुसङ्क्रुद्धः पुमान्कश्चित्तु तावकः।।
सर्वे विमनसोऽभूवंस्तव योधा विशाम्पते।
सम्प्रेक्ष्य तत्र गोविन्दं पाण्डवं च धनञ्जयम्'।।
अथ स्मयन्हृषीकेशः स्त्रीमध्य इव भारत।
अर्जुनेन कृते सङ्ख्ये शरगर्भगृहे तदा।।
उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः।
मिषतां सर्वसैन्यानां त्वदीयानां विशाम्पते।।
`उपावृत्त्योत्थितानश्वान्पाणिभ्यां पुष्करेक्षणः।
सम्मार्जयन्रणे राजन्पश्यतां सर्वयोधिनाम्'।।
तेषां श्रमं च ग्लानिं च वमथुं वेपथुं व्रणान्।
सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि।।
शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान्।
उपावर्त्य यथान्यायं पाययामास वारि सः।।
स ताँल्लब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान्।
योजयामास संहृष्टः पुनरेव रथोत्तमे।।
स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः।
समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम्।।
`योजयित्वा हयांस्तस्य विधिदृष्टेन कर्मणा।
रणे चचार गोविन्दस्तृणीकृत्य महारथान्'।।
रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः।
दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन्।।
विनिःस्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः।
घिगहोऽतिगतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक्।।
तत्सैन्यं सर्वतो दृष्ट्वा रोमहर्षणमद्भुतम्।
त्वरध्वमिति चाक्रन्दन्नैतदस्तीति चावुवन्।।
सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ।
बालः क्रीडनकेनेव कदर्थीकृत्य नो बलम्।।
क्रोशतां यतमानानामसंसक्तौ परन्तपौ।
दर्शयित्वाऽत्मनो वीर्यं प्रयातौ सर्वराजसु।।
`यथा देवासुरे युद्धे तृणीकृत्य च दानवान्।
इन्द्राविष्णू पुरा राजञ्जम्भस्य वधकाङ्क्षिणौ'।।
तौ प्रयातौ पुनर्दृष्ट्वा तदाऽन्ये सैनिकाब्रुवन्।
त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः।।
रथं युङ्क्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम्।
जयद्रथाय यात्येष कदर्थीकृत्य नो रणे।।
तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः।
अदृष्टपूर्वं सङ्ग्रामे तदृष्ट्वा महदद्भुतम्।।
सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः।
दुर्योधनापराघेन क्षत्रं कृत्स्ना च मेदिनी।।
विलयं समनुप्राप्ता तच्च राजा न बुध्यते।
इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत।।
सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम्।
तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित्।।
ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति।
विवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः।।
तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम्।
नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम्।।
विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः।
यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत्।।
गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत्।
बलाकाभं तु दाशार्हः पाञ्चजन्यं व्यनादयत्।।
कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः।
तूर्णात्तूर्णतरं ह्यश्वाः प्रावहन्वातरंहसः।।
ततो नृपतयः क्रुद्धाः परिवव्रुर्धनञ्जयम्।
क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम्।।
सैन्येषु विप्रयातेषु धिष्ठितं पुरुषर्षभम्।
दुर्योधनोऽत्वयात्पार्थं त्वरमाणो महाहवे।।
वातोद्धूतपताकं तं रथं जलदनिःस्वनम्।
घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन्।।
दिवाकरेऽथ रजसा सर्वतः संवृते भृशम्।
शरार्ताश्चरणे योधाः शेकुः कृष्णौ न वीक्षितुम्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे शततमोऽध्यायः।। 100 ।।