द्रोणपर्व
अध्यायः ९९
सञ्जय उवाच।
`वर्तमाने तदा युद्धे द्रोणस्य सह पाण्डुभिः'।
परिवर्तमान आदित्ये तत्र सूर्ये च रश्मिभिः।
रजसा कीर्यमाणाश्च मन्दीभूताश्च कौरवाः।।
तिष्ठतां युध्यमानानां पुनरावर्ततामपि।
भज्यतां जयतां चैव जगाम तदहः शनैः।।
तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु।
अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः।।
रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः।
चकार यं च पन्थानं ययौ तेन जनार्दनः।।
यत्रयत्र रथो याति पाण्डवस्य महात्मनः।
तत्रतत्रैव दीर्यन्ते सेनास्तव विशाम्पते।।
रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान्।
उत्तमाधममध्यानि मण्डलानि विदर्शयन्।।
ते तु नामाङ्किता बाणाः कालज्वलनसन्निभाः।
स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः।।
वैणवाश्चायसाश्चोग्रा ग्रसन्तो विविधानरीन्।
रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे।।
रथस्थितोऽग्रतः क्रोशं यानस्यत्यर्जुनः शरान्।
रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान्।।
तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः।
यथाऽगच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत्।।
न तथा गच्छति रथस्तपनस्य विशाम्पते।
नेन्द्रस्य न तु रुद्रस्य नापि वैश्रवणस्य च।।
नान्यस्य समरे राजन्गतपूर्वस्तथा रथः।
यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः।।
प्रविश्य तु रणे राजन्केशवः परवीरहा।
सेनामध्ये हयांस्तूर्णं चोदयामास भारत।।
ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः।
कृच्छ्रेणरथमूहुस्तं क्षुत्पिपासासमन्विताः।।
क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः।
मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः।।
हतानां वाजिनागानां रथानां च नरैः सह।
उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः।।
`श्रमेण महता युक्तास्ते हया वातरंहसः।
मन्दवेगगता राजन्संवृत्तास्तत्र संयुगे'।।
एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप।
सहसेनौ समार्च्छेतां पाण्डवं क्लान्तवाहनम्।।
तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम्।
शराणां च शतैरश्वानविध्येतां मुदान्वितौ।।
तावर्जुनो महाराज नवभिर्नतपर्वभिः।
आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः।।
ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम्।
आच्छादयेतां संरब्धौ सिंहनादं च चक्रतुः।।
तयोस्तु धनुषी मुष्टौ भल्लाभ्यां श्वेतवाहनः।
चिच्छेद समरे तूर्णं भूय एव धनञ्जयः।
अथान्यैर्विशिखैस्तूर्णं ध्वजौ च कनकोज्ज्वलौ।।
अथान्ये धनुषी राजन्प्रगृह्य समरे तदा।
पाण्डवं भृशसङ्क्रुद्धावर्दयामासतुः शरैः।।
तयोस्तु भृशसङ्क्रुद्धः शराभ्यां पाण्डुनन्दनः।
धनुषी चिच्छिदे तूर्णं भूय एव धनञ्जयः।।
तथान्यैर्विशिखैस्तूर्णं रुक्मपुङ्खैः शिलाशितैः।
जघानाश्वांस्तथा सूतौ पार्ष्णी च सपदानुगौ।।
ज्येष्ठस्य च शिरः कायात्क्षुरप्रेण न्यकृन्तत।
स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः।।
विन्दं तु निहतं दृष्ट्वा ह्यनुविन्दः प्रतापवान्।
हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः।।
अभ्यवर्तत सङ्ग्रामे भ्रातुर्वधमनुस्मरन्।
गदया रथिनां श्रेष्ठो नृत्यन्निव महारथः।।
अनुविन्दस्तु गदया ललाटे मधुसूदनम्।
स्पष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम्।।
तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः।
निचकर्त स सञ्छन्नः पपाताद्रिचयो यथा।।
ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः।
अभ्यद्रुवन्त सङ्क्रुद्धाः किरन्तः शतशः शरान्।।
तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ।
व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये।।
तयोः सेनामतिक्रम्य कृच्छ्रादिव धनञ्जयः।
विबभौ जलदं हित्वा दिवाकर इवोदितः।।
तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः।
अभ्यवर्तन्त पार्थं च समन्ताद्भरतर्षभ।।
श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम्।
सिंहनादेन महता सर्वतः पर्यवारयन्।।
तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्भः।
शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत्।।
शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः।
किमिहानन्तरं कार्यं साधिष्ठं तव रोचते।।
ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा।
भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः।।
मम त्वनन्तरं कृत्यं यद्वै तत्त्वं निबोध मे।
हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव।।
सञ्जय उवाच।
एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम्।
ममाप्येतन्मतं पार्थ यदितं ते प्रभाषितम्।।
अर्जुन उवाच।
अहमावारयिष्यामि सर्वसैन्यानि केशव।
त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम्।।
सञ्जय उवाच।
सोऽवतीर्य रथोपस्थादसम्भ्रान्तो धनञ्जयः।
गाण्डीवं धनुरादाय तस्थौ गिरिविवाचलः)।।
तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः।
इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनञ्जयम्।।
तमेकं रथवंशेन महता पर्यवारयन्।
विकर्षन्तश्च चापानि विसृजन्तश्च सायकान्।।
शस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन्।
छादयन्तः शरैः पार्थं मेघा इव दिवाकरम्।।
अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम्।
नरसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः।।
तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत।
यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत्।।
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः।
इषुभिर्बुभिस्तूर्णं सर्वानेव समावृणोत्।।
तत्रान्तरिक्षे बाणानां प्रगाढानां विशाम्पते।
सङ्घर्षेण महार्चिष्मान्पावकः समजायत।।
तत्रतत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः।
हयैर्नागैश्च सम्भिन्नैर्नदद्भिश्चारिकर्शन।।
संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे।
एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत।।
शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम्।
पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिःस्वनम्।।
असङ्ख्येयमपारं च रजो नीरमतीव च।
उष्णीषकमठं छत्रपताकाफेनमालिनम्।।
रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम्।
वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत्।।
[धृतराष्ट्र उवाच।
अर्जुने धरणीं प्राप्ते हयहस्ते च केशवे।
एतदन्तरमासाद्य कथं पार्थो न घातितः।।
सञ्जय उवाच।
सद्यः पार्थिव पार्थेन निरुद्धाः सर्वपार्थिवाः।
रथस्था धरणीस्थेन वाक्यमच्छान्दसं यथा।।
स पार्थः पार्थिवान्सर्वान्भूमिस्थोपि रथस्थितान्।
एको निवारयामास लोभः सर्वगुणानिव।।]
ततो जनार्दनः सङ्ख्ये प्रियं पुरुषसत्तमम्।
असम्भ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत्।।
उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन।
परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम्।।
इदमस्तीत्यसम्भ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम्।
अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम्।।
[हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम्।
सुविस्तीर्णं प्रसन्नाम्भः प्रफुल्लवरपङ्कजम्।।
कूर्ममत्स्यगणाकीर्णमगाधमृषिसेवितम्।
आगच्छन्नारदमुनिर्दर्शनार्थं कृतं क्षणात्।।]
शरवंशं शरस्थूणं शराच्छादनमद्भुतम्।
शरवेश्माकरोत्पार्थस्त्वष्टेवाद्भुतकर्मकृत्।।
ततः प्रहस्य गोविन्दः साधुसाध्वित्यथाब्रवीत्।
शरवेश्मनि पार्थेन कृते तस्मिन्महात्मना।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे एकोनशततमोऽध्यायः।। 99 ।।