द्रोणपर्व

अध्यायः १०१

Drona Parva (Sanskrit) · Adhyaya 101
अक्षर का आकार

सञ्जय उवाच।

स्रंसन्त इव मज्जानस्तावकानां भयान्नृप।
तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनञ्जयौ।।

सर्वे तु प्रतिसंरब्धा हीमन्तः सत्वचोदिताः।
स्थिरीभूता महात्मानः प्रत्यगच्छन्धनञ्जयम्।।

ये गताः पाण्डवं युद्धे रोषामर्षसमन्विताः।
तेऽद्यापि न निवर्तन्ते सिन्धवः सागरादिव।।

असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः।
नरकं भजमानास्ते प्रत्यपद्यन्त किल्बिषम्।।

तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ।
ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ।।

मत्स्याविव महाजालं विदार्य विगतक्लमौ।
तथा कृष्णावदृश्येतां सेनाजालं विदार्य तत्।।

विमुक्तौ शस्त्रसम्बाधाद्रोणानीकात्सुदुर्भिदात्।
अदृश्येतां महात्मानौ कालसूर्याविवोदितौ।।

अस्त्रसम्बाधनिर्मुक्तौ विमुक्तौ शस्त्रसङ्कटात्।
अदृश्येतां महात्मानौ शत्रुसम्बाधकारिणौ।।

विमुक्तौ ज्वलनस्पर्शान्मकरास्याज्झषाविव।
अक्षोभयेतां सेनां तौ समुद्रं मकराविव।।

तावकास्तव पुत्राश्च द्रोणानीकस्थयोस्तयोः।
नैतौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम्।।

तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महाद्युती।
नाशशंसुर्महाराज सिन्धुराजस्य जीवितम्।।

आशा बलवती राजन्सिन्धुराजस्य जीविते।
द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो।।

तामाशां विफलीकृत्य सन्तीर्णौ तौ परन्तपौ।
द्रोणानीकं महाराज भोजानीकं च दुस्तरम्।।

अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताविव पावकौ।
निराशाः सिन्धुराजस्य जीवितं न शशंसिरे।।

मिथश्च समभाषेतामभीतौ भयवर्धनौ।
जयद्रथवधे वाचस्तास्ताः कृष्णधनञ्जयौ।।

असौ मध्ये कृतः षङ्भिर्धार्तराष्ट्रैर्महारथैः।
चक्षुर्विषयसम्प्राप्तो न मे मोक्ष्यति सैन्धवः।।

यद्यस्य समरे गोप्ता शक्रो देवगणैः सह।
तथाप्येनं निहंस्याव इति कृष्णावभाषताम्।।

इति कृष्णौ महाबाहू मिथः कथयतां तदा।
सिन्धुराजमवेक्षन्तौ त्वत्पुत्रा बहु चुक्रुशुः।।

अतीत्य मरुधन्वानं प्रयान्तौ तृषितौ गजौ।
पीत्वा वारि समाश्वस्तौ तथैवास्तामरिन्दमौ।।

व्याघ्रसिंहगजाकीर्णानतिक्रम्य च पर्वतान्।
वणिजाविव दृश्येतां हीनमृत्यू जरातिगौ।।

तथाहि मुखवर्णोऽयमनयोरिति मेनिरे।
तावका वीक्ष्य मुक्तौ तौ विक्रोशन्ति स्म सर्वशः।।

द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात्।
अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ।।

विमुक्तौ सागरप्रख्याद्रोणानीकादर्रिदमौ।
अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा।।

अस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितात्।
रोचमानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे।।

उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः।
शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ।।

द्रोणग्राहहूदान्मुक्तौ शक्त्याशीविषसङ्कटात्।
अयःशरोग्रमकरात्क्षत्रियप्रवराम्भसः।।

ज्याघोषतलनिर्हादाद्गदानिस्त्रिंशविद्युतः।
द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव।।

बाहुभ्यामिव सन्तीर्णौ सिन्धुषष्ठाः समुद्रगाः।
तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः।।

`महाशैलोच्चयां घोरां लङ्घयित्वा महानदीम्।
निस्तीर्णावध्वगौ यद्वत्तद्वत्तौ तारितौ रणे'।।

इति कृष्णौ महेष्वासौ प्रशस्तौ लोकविश्रुतौ।
सर्वभूतान्यमन्यन्त द्रोणास्त्रबलवारणात्।।

जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया।
रुरुं वनान्ते लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम्।।

यथा हि मुखवर्णोऽयमनयोरिति मेनिरे।
तव योधा महाराज हतमेव जयद्रथम्।।

लोहिताक्षौ महाबाहू संयुक्तौ कृष्णपाण्डवौ।
सिन्धुराजमभिप्रेक्ष्य हृष्टौ व्यनदतां मुहुः।।

शौरेरभीषुहस्तस्य पार्थस्य च धनुष्मतः।
तयोरासीत्प्रभा राजन्सूर्यपावकयोरिव।।

हर्ष एव तयोरासीद्द्रोणानीकप्रमुक्तयोः।
समीपे सैन्धवं दृष्ट्वा श्येनयोरामिषं यथा।।

तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके।
सहसा पेततुःक्रुद्धौ क्षिप्रं श्येनाविवामिपम्।।

तौ दृष्ट्वा तु व्यतिक्रान्तौ हृषीकेशधनञ्जयौ।
सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस्तव।।

द्रोणेनाबद्धकवचो राजा दुर्योधनस्ततः।
ययावेकरथेनाजौ हयसंस्करावित्प्रभो।।

कृष्णपार्थौ महेष्वासौ व्यतिक्रम्याथ ते सुतः।
अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप।।

ततः सर्वेषु सैन्येषु वादित्राणि प्रहृष्टवत्।
प्रावाद्यन्त व्यतिक्रान्ते तव पुत्रे धनञ्जयम्।।

सिंहनादरवाश्चासञ्शङ्खशब्दविमिश्रिताः।
दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम्।।

ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः।
ते प्राहृष्यन्त समरे दृष्ट्वा पुत्रं तव प्रभो।।

दृष्ट्वा दुर्योधनं कृष्णो व्यतिक्रान्तं सहानुगम्।
अब्रवीदर्जुनं राजन्प्राप्तकालमिदं वचः।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे एकाधिकशततमोऽध्यायः।। 101 ।।