द्रोणपर्व

अध्यायः ११

Drona Parva (Sanskrit) · Adhyaya 11
अक्षर का आकार

धृतराष्ट्र उवाच।

शृणु दिव्यानि कर्माणि वासुदेवस्य सञ्जय।
कृतवान्यानि गोविन्दो यथा नान्याःपुमान्क्वचित्।।

संवर्धता गोपकुले बालेनैव महात्मना।
विख्यापितं बलं बाह्वोस्त्रिषु लोकेषु सञ्जय।।

पूतनां शकटं हत्वा केशिनं चैव वाजिनम्।
ऋषभं धेनुकं चैव अरिष्टं च महाबलम्।।

दावान्मुक्त्वा महाबाहुर्धृत्वा गोवर्धनं निगिम्।
चाणूरं मुष्टिकं चैव रङ्गमध्ये निहत्य च।।

प्रलम्बं नरकं जम्भं पीठं चापि महासुरम्।
मुरुं चान्तकसङ्काशमवधीत्पुष्करेक्षणः।।

तथा कंसो महातेजा जरासन्धेन पालितः।
विक्रमेणैव कृष्णेन सगणः पातितो रणे।।

सुनामा रणविक्रान्तः समग्राक्षौहिणीपतिः।
भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान्।।

बलदेवद्वितीयेन कृष्णेनामित्रघातिना।
तरस्वी समरे दग्धः ससैन्यः शूरसेनराट्।।

दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः।
आराधितः सदारेण स चास्मै प्रददौ वरान्।।

तथा गान्धारराजस्य सुतां वीरः स्वयंवरे।
निर्जित्य पृथिवीपालानावहत्पुष्करेक्षणः।।

अमृष्यमाणा राजानो यस्य जात्या हया इव।
रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः।।

जरासन्धं महाबाहुमुपायेन जनार्दनः।
परेण घातयामास समग्राक्षौहिणीपतिम्।।

चेदिराजं च विक्रान्तं राजसेनापतिं बली।
अर्घे विवदमानं च जघान पशुवत्तदा।।

सौभं दैत्यपुरं खस्थं शाल्वगुप्तं दुरासदम्।
समुद्रकुक्षौ विक्रम्य पातयामास माधवः।।

अङ्गान्वङ्गान्कलिङ्गंश्च मागधान्काशिकोसलान्।
वात्स्यगार्ग्यकरूषांश्च पौण्ड्रांश्चाप्यजयद्रणे।।

आवन्त्यान्दाक्षिणात्यांश्च पार्वतीयान्दशेरकान्।
काश्मीरकानौरसिकान्पिशाचांश्च समुद्गलान्।।

काम्भोजान्वाटधानांश्च चोलान्पाण्ड्यांश्च सञ्जय।
त्रिगर्तान्मालवांश्चैव दरदांश्च सुदुर्जयान्।।

नानादिग्भ्यश्च सम्प्राप्तान्खशांश्चैव शकांस्तथा।
जितवान्पुण्डरीकाक्षो यवनं च सहानुगम्।।

प्रविश्य मकरावासं यादोगणनिषेवितम्।
जिगाय वरुणं सङ्ख्ये सलिलान्तर्गतं पुरा।।

युधि पञ्चजनं हत्वा दैत्यं पातालवासिनम्।
पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान्।।

खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम्।
आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः।।

वैनतेयं समारुह्य त्रासयित्वाऽमरावतीम्।
महेन्द्रभवनाद्वीरः पारिजातमुपानयत्।।

तच्च मर्षितवाञ्शक्रो जानंस्तस्य पराक्रमम्।
राज्ञां चाप्यजितं कंचित्कृष्णेनेह न शुश्रुम।।

यच्च तन्महदाश्चर्यं सभायां मम सञ्जय।
कृतवान्पुण्डरीकाक्षः कस्तदन्य इहार्हति।।

यच्च भक्त्या प्रसन्नोऽहमद्राक्षं कृष्णमीश्वरम्।
तन्मे सुविदितं सर्वं प्रत्यक्षमिव चागमम्।।

नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः।
कर्मणां शक्यते गन्तुं हृषीकेशस्य सञ्जय।।

तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः।
अगावहोऽनिरुद्धश्च चारुदेष्णः ससारणः।।

उल्मुको निशठश्चैव झिल्ली बभ्रुश्च वीर्यवान्।
पृथुश्च विपृथुश्चैव शमीङ्कोऽथारिमेजयः।।

एतेऽन्ये बलवन्तश्च वृष्णिवीराः प्रहारिणः।
कथंचित्पाण्जवानीकं श्रयेयुः समरे स्थिताः।।

आहूता वृष्णिवीरेण केशवेन महात्मना।
ततः संशयितं सर्वे भवेदिति मतिर्मम।।

नागायुतबलो वीरः कैलासशिखरोपमः।
वनमाली हली रामस्तत्र यत्र जनार्दनः।।

यमाहुः सर्वपितरं वासुदेवं द्विजातयः।
अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय सञ्जय।।

स यदा तात सन्नह्येत्पाण्डवार्थाय सञ्जय।
न तदा प्रतिसंयोद्धा भविता तत्र कश्चन।।

यदि स्म कुरवः सर्वे जयेयुर्नाम पाण्डवान्।
वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम्।।

ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन्रणे।
कौरवांश्च महाबाहुःकुन्त्यै दद्यात्स मेदिनीम्।।

यस्य यन्ता हृषीकेशो योद्धा यस्य धनञ्जयः।
रथस्य तस्य कः सङ्ख्ये प्रत्यनीको भवेद्रथः।।

न केनचिदुपायेन कुरूणां दृश्यते जयः।
तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत।।

अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः।
अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती।।

सर्वेष्वपि च लोकेषु बीभत्सुरपराजितः।
प्राधान्येनैव भूयिष्ठममेयाः केशवे गुणाः।।

मोहाद्दुर्योधनः कृष्णं यो न वेत्तीह केशवम्।
मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः।

न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम्।
पूर्वदेवौ महात्मानौ नरनारायणावुभौ।।

एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि।
मनसापि हि दुर्धर्षौ सेनामेतां यशस्विनौ।।

नाशयेतामिहेच्छन्तौ मानुषत्वाच्च नेच्छतः।
युगस्येव विपर्यासो लोकानामिव मोहनम्।।

भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः।
न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च।।

न क्रियाभिर्न चास्त्रेण मृत्योः कश्चिन्निर्वायते।
लोकसम्भावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ।।

भीष्मद्रोणौ हतौ श्रुत्वा किन्नु जीवामि सञ्जय।
यां तां श्रियमसूयामः पुरा दृष्ट्वा युधिष्ठिरे।।

अद्य तामनुजानीमो भीष्मद्रोणवधेन ह।
मत्कृते चाप्यनुप्राप्तः कुरूणामेष सङ्क्षयः।।

पक्वानां हि वधे सूत वज्रायन्ते तृणान्युत।
अनन्तमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः।।

यस्य कोपान्महात्मानौ भीष्मद्रोणौ निपातितौ।
प्राप्तः प्रकृतितो धर्मो न धर्मो मामकान्प्रति।।

क्रूरः सर्वविनाशाय कालोऽसौ नातिवर्तते।
अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः।
अन्यथैव प्रपद्यन्ते दैवादिति मतिर्मम।।

तस्मादपरिहार्येऽर्थे सम्प्राप्ते कृच्छ्र उत्तमे।
अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि एकादशोऽध्यायः।। 11 ।।

0

क्षत्रञ्जयः क्षत्रदेवः क्षत्रवर्मा च मानदः।
धृष्टद्युम्नात्मजा वीराः के तान्द्रोणादवारयन्।।

शताद्विशिष्टं यं युद्धे सममन्यन्त वृष्णयः।
चेकितानं महेष्वासं कस्तं द्रोणादवारयत्।।

वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि।
अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत्।।

भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः।
इन्द्रगोपकसङ्काशा रक्तवर्मायुधध्वजाः।।

मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः।
तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन्।।

यं योधयन्तो राजानो नाजयन्वारणावते।
षण्मासानपि संरब्धा जिघांसन्तो युधां पतिं।।

धनुष्मतां वरं शूरं सत्यसन्धं महाबलम्।
द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं पर्यवारयत्।।

यः पुत्रं काशिराजस्य वाराणस्यां महारथम्।
समरे स्त्रीषु गृध्यन्तं भल्लेनापाहरद्रथात्।।

धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम्।
युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च।।

निर्दहन्तं रणे योधान्दारयन्तं च सर्वतः।
द्रोणाभिमुखमायान्तं के शूराः पर्यवारयन्।।

उत्सङ्ग इव सम्वृद्धं द्रुपदस्यास्त्रवित्तमम्।
शैखण्डिनं शस्त्रगुप्तं के द्रोणादवारयन्।।

य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत्।
महता रथघोषेण मुख्यारिघ्नो महारथः।।

दशाश्वमेधानाजहे स्वन्नपानाप्तदक्षिणान्।
निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः।।

विसृष्टा दक्षिणा यस्य गङ्गाजलमवारयत्।
गङ्गास्रोतसि यावत्यः सिकता अप्यशेषतः।
तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे।।

न पूर्वे नापरे चक्रुरिदं केचन मानवाः।
इतीदं चुक्रुशुर्देवाः कृते कर्मणि दुष्करे।।

पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु।
जातं चापि जनिष्यन्तं द्वितीयं चापि साम्प्रतम्।।

अन्यमौशीनराच्छेब्याद्धुरो वोढारमित्युत।
गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः।।

तस्य नप्तारमायान्तं शैब्यं कः समवारयत्।
द्रोणायाभिमुखं यत्तं व्यात्ताननमिवान्तकम्।।

विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः।
प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन्।।

सद्यो वृकोदराज्जातो महाबलपराक्रमः।
मायावी राक्षसो वीरो यस्मान्मम महद्भयम्।।

पार्थानां जयकामं तं तं पुत्राणां मम कण्टकम्।
घटोत्कचं महात्मानं कस्तं द्रोणादवारयत्।।

एते चान्ये च बहवो येषामजितं युधि।
त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि।।

येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः।।
लोकानां गुरुरत्यर्थं लोकनाथः सनातनः।

नारायणोरणे नाथो दिव्यो दिव्यात्मकः प्रभुः।।
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः।

तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि
द्रोणाभिषेकपर्वणि दशमोऽध्यायः।। 10 ।।