भीष्मपर्व

अध्यायः ९६

Bhishma Parva (Sanskrit) · Adhyaya 96
अक्षर का आकार

सञ्जय उवाच।

पुत्रं विनिहतं श्रुत्वा इरावन्तं धन?ञ्जयः।
दुःखेन महताऽऽविष्टो निःश्वसन्पन्नगो यथा ।।

अब्रवीत्समरे राजन्वासुदेवमिदं वचः।
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ।।

कुरूणां पाण्डवानां च क्षयं घोरं महामतिःक ।
स ततो निवारितवान्धृतराष्ट्रं जनेश्वरम् ।।

अन्ये च बहवो वीराः संग्रामे मधुसूदन।
निहताः कौरवैः सङ्ख्ये तथाऽस्माभिश्च कौरवाः ।।

अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम्।
धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसंक्षयः ।।

अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्वनम् ।
किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् ।।

दुर्योधनापराधेन शकुनेः सौबलस्य च।
क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च ।।

इदानीं च विजानामि सुकृतं मधुसूदन।
कृतं राज्ञा महाबाहो याचता त सुयोधनम् ।।

राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिःक ।
दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले ।।

निन्दामि भृशमात्मानं धिगस्तु क्षत्रिजीविकाम् ।
अशक्तमिति मामेते ज्ञास्यन्ते क्षत्रिया रणे ।।

एतदर्थं मया युद्धं रोचितं मधुसूदन।
संचोदय हयाञ्शीघ्रं धार्तराष्ट्रचमूं प्रति ।।

प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् ।
नायं क्लीबायितुं कालो विद्यते माधव क्वचित् ।।

सञ्जय उवाच।

एवमुक्तस्तु पार्थेन केशवः परवीरहा।
चोदयामास तानश्वान्पाण्डुरान्वातरंहसः ।।

अथ शब्दो महानासीत्तव सैन्यस्य भारत।
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ।।

अपराह्णे महाराज संग्रामः समपद्यत ।
पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः ।।

ततो राजंस्तव सुता भीमसेनमुपाद्रवन् ।
परिवार्य रणे द्रोणं वसवो वासवं यथा ।।

ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः।
भगदत्तः सुशर्मा च धनंजयमुपाद्रवन् ।।

हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ ।
अम्बष्ठकस्तु नृपतिरभिमन्युमवस्थितः ।।

शेषास्त्वन्ये महाराज शेषानेव महारथान् ।
ततः प्रववृते युद्धं घोररूपं भयावहम् ।।

`भीमसेनस्तु संप्रेक्ष्य पुत्रांस्तव विशांपते'।
प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव ।।

पुत्रास्तु तव कौन्तेयं छादयांचक्रिरे शरैः।
प्रावृषीव महाराज जलदा इव पर्वतम् ।।

स च्छाद्यमानो बहुधा पुत्रैस्तव विशांपते ।
सृक्विणी संलिहन्वीरः शार्दूल इव दर्पितः ।।

व्यूढोरस्कस्ततो भीमः पोथयामास पार्थिवम् ।
क्षुरप्रेण सुतीक्ष्णेन सुमुक्तेन महारणे ।।

ताडयामास संक्रुद्धः सोऽभवद्व्यथितेन्द्रियः ।
अपरेण तु भल्लेन पीतेन निशितेन तु।
अपातयत्कुण्डलितं सिंहः क्षुद्रमृगं यथा ।।

ततः सुनिशितान्बाणान्भीमसेनः शिलाशितान् ।
स सप्त संदधे हन्तुं पुत्रास्ते भरतर्षभ ।।

प्रेषिता भिमसेनेन शरास्ते दृढधन्वना ।
अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् ।।

अनाधृष्टिं कुण्डभेदिं विराजं दीप्तलोचनम् ।
दीर्घबाहुं सुबाहुं च तथैव मकरध्वजम् ।।

प्रपतन्तिस्म वीरास्ते विरेजुर्भरतर्षभ।
वसन्ते पुष्पशबलाः किंशुकाः पतिता इव ।।

ततः प्रदुद्रुवुः शेषास्तव पुत्रा महाहवे ।
तं कालमिव मन्यन्तो भीमसेनं महाबलम् ।।

द्रोणस्तु समरे वीरं निर्दहनक्तं सुतांस्तव ।
यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः ।।

तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् ।
द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव ।।

यथा गोवृषभो वर्षं संधारयति स्वात्पतत् ।
भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् ।।

अद्भुतं च महाराज तत्र चक्रे वृकोदरः ।
यत्पुत्रांस्तेऽवधीत्सङ्ख्ये द्रोणं चैव न्यवारयत् ।।

पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः ।
मृगेष्विव महाराज चरन्व्याघ्रो महाबलः ।।

यथा हि पशुमध्यस्थो द्रावयेत पशून्वृकः ।
वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे ।।

गाङ्गेयो भगदत्तश्च गोतमश्च महारथाः ।
पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् ।।

अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे
प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे ।।

अभिमन्युस्तु राजानमम्बष्ठं लोकविश्रुतम् ।
विरथं रथिनां श्रेष्ठं कारयामास सायकैः ।।

विरथो वध्यमानस्तु सौभद्रेण यशस्विना ।
अवप्लुत्य रथात्तूर्णमम्बष्ठो वसुधाधिपः ।।

असिं चिक्षेप समरे सौभद्रस्य महात्मनः ।
आरुरोह रथं चैव हार्दिक्यस्य महाबलः ।।

आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः ।
लाघवाद्व्यंसयामास सौभद्रः परवीरहा ।।

व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा।
साधुसाध्विति सैन्यानां प्रणादोऽभूद्विशांपते ।।

धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन्।
तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् ।।

तत्राक्रन्दो महानासीत्तव तेषां च भारत।
निघ्नतां दृढमन्योन्यं कुर्वतां कर्म दुष्करम् ।।

अन्योन्यं हि रणे शूराः केशेष्वाक्षिष्य मानिनः।
नखदन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा ।।

तलैश्चैवाथ निस्त्रिंशैर्बाहुभिश्च सुसंस्थितैः।
विवरं प्राप्य चान्योन्यमनयन्यमसादनम् ।।

न्यहनच्च पिता पुत्रं पुत्रश्च पितरं तथा।
व्याकुलीकृतसंकल्पा युयुधुस्तत्र मानवाः ।।

रणे चारूणि चापानि हेमपृष्ठानि मारिष ।
हतानामपविद्धानि कलापाश्च महाधनाः ।।

जातरूपमयैः पुङ्खै राजतैर्निशिताः शराः।
तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः ।।

खङ्गाश्च दान्तत्सरवो जातरूपपरिष्कृताः ।
चर्माणि चापविद्धानि रुक्मचित्राणि धन्विनां ।।

सुवर्णाविकृताः प्रासाः प्रभग्ना हेमभूषिताः।
जातरूपमया यष्ट्यः शक्त्यश्च कनकोज्ज्वलाः ।।

अवस्कन्दाश्च पतिता मुसलानि गुरूणि च ।
परिघाः पट्टसाश्चैव भिण्डिपालाश्च मारिष ।।

पतिता विविधाश्चापाश्चित्रा हेमपरिष्कृताः ।
कुथा बहुविधाकाराश्चामरा व्यजनानि च ।।

नानाविधानि शस्त्राणि प्रगृह्य पतिता नराः।
जीवन्त इव दृश्यनते गतसत्त्वा महारथाः ।।

गजाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः।
गजावाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ ।।

तथैवाश्वनृनागानां शरीरैर्विबभौ तदा।
संछन्ना वसुधा राजन्पर्वतैरिव शातितैः ।।

समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः।
निस्त्रिंशैः पट्टसैः प्रासैरवस्कन्दैः परश्वथैः ।।

परिघैर्भिण्डिपालैश्च शतघ्नीभिश्च मारिष।
शरीरैः शस्त्रनिर्भिन्नैः समास्तीर्यत मेदिनी ।।

विशब्दैरल्पशब्दैश्च शोणितौगपरिप्लुतैः।
गतासुभिरमित्रघ्न विबभौ निचिता मही ।।

सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः ।
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ।।

बद्धचूजामणिवरैः शिरोभिश्च सकुण्डलैः ।
पातितै ऋषभाक्षाणां बभौ भारत मेदिनी ।।

कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः ।
रराज सुभृशं भूमिः शान्तार्चिर्भिरिवानलैः ।।

विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः ।
विप्रकीर्णैः शरैश्चैव रुक्मपुङ्खैः समन्ततः ।।

रथैश्च सर्वतो भग्नैः किङ्किणीजालभूषितैः ।
वाजिभिश्च हतैर्बाणैः स्रस्तजिह्वैः सशोणितैः ।।

अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि ।
प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः ।।

स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही ।
नानारूपेरलंकारैः प्रमदेवाभ्यलङ्कृता।।

दन्तिभिश्चापरैस्तत्र सप्राणैर्गाढवेदनैः ।
करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः ।।

विबभौ तद्रणस्थानं स्यन्दमानैरिवाचलैः।
नानारागैः कम्बलैश्च परिस्तोमेश्च दन्तिनाम् ।।

वैदूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः।
घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः ।।

विपाटितविचित्राभिः कुथाभिरङ्कुशैस्तथा।
ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च ।।

यन्त्रैश्च बहुधा च्छिन्नैस्तोमरैश्चापि काञ्चनैः।
`रराज सुभृशं भूमिस्तत्रतत्र विशांपते'
अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः।।

सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा।
प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः।।

उष्णीषैश्च तथा चित्रैर्विप्रविद्धैस्ततस्ततः।
विचित्रैर्बाणवर्षैश्च जातरूपपरिष्कृतैः ।।

अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा।
नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः ।।

छत्रैस्तथापविद्धैश्च चामरैर्व्यजनैरपि ।
पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः ।।

क्लृप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः ।
अपविद्धैर्महाराज सुवर्णाज्ज्वलकुण्डलैः ।।

ग्रहनक्षत्रशबला द्यौरिवासीद्वसुंधरा।
एवमेते महासेने मृदिते तत्र भारत ।।

परस्परं समासाद्य तव तेषां च संयुगे ।
तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत ।।

रात्रिः समभवत्तत्र नापश्याम ततोऽनुगान् ।
ततोऽवहारं सैकन्यानां प्रचुक्रुः कुरुपाण्डवाः ।।

घोरे निशामुखे रौद्रे वर्तमाने महाभये।
अवहारं ततः कृत्वा सहिताः कुरुपाणड्वाः ।
न्यविशन्त निशाकाले गत्वा स्वशिबिरं तदा ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
अष्टमदिवसयुद्धे षण्णवतितमोऽध्यायः ।।