भीष्मपर्व
अध्यायः ९७
सञ्जय उवाच।
ततो दुर्योधनो राजा शकुनिश्चापि सौबलः।
दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः ।।
समागम्य महाराज मन्त्रं चक्रुर्विवक्षितम् ।
कथं पाण्डुसुताः सङ्ख्ये जेतव्याः सगणा इति।।
ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः ।
सूतपुत्रं समाभाष्य सौबलं च महाबलम् ।।
द्रोणो भीष्म कृपः शल्यः सौमदत्तिश्च संयुगे।
न पार्थान्प्रति बाधन्ते न जाने किंनु कारणम् ।।
अवध्यमानास्ते चापि क्षपयन्ति बलं मम।
सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे ।।
`द्रोणस्य प्रमुखे वीरा हतास्ते भ्रातरो मम।
भीमसेनेन राधेय मम चैव च पश्यतः '।।
निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि ।
सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम् ।।
सञ्जय उवाच।
तमब्रवीन्महाराज सूतपुत्रो नराधिपम् ।
मा शोच भरतश्रेष्ठ करिष्येऽहं प्रियं तव ।।
भीष्मः शान्तनवस्तूर्णमपयातु महारणात् ।
निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत ।।
अहं पार्थान्हनिष्यामि सहितान्सर्वसोमकैः ।
पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप ।।
पाण्डवेषु दयां नित्यं स हि भीष्मः करोति वै।
अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान् ।।
अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः ।
स कथं पाण्डवान्युद्धे जेष्यते तात संगतान् ।।
स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति ।
अनुमान्य गुरुं वृद्धं शस्त्रं न्यासय भारत ।।
न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पाण्डवान् ।
मयैकेन रणे राजन्ससुहृद्गणबान्धवान् ।।
एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव ।
अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः ।।
अनुयात्रं यथा सर्वं सज्जीभवति सर्वशः ।
दुःशासन तथा क्षिप्रं सर्वमेवोपपादय ।।
एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः ।
अनुमान्य रणे भीष्ममेषोऽहं द्विपदां वरम् ।।
आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिन्दम।
अपक्रान्ते ततो भीष्मे प्रहरिष्यसि संयुगे ।।
निष्पपात ततस्तूर्णं पुत्रस्तव विशांपते ।
सहितो भ्रातृभिस्तैस्तु देवैरिव शतक्रतुः ।।
ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम् ।
आरोपयद्धयं तूर्णं भ्राता दुःशासनस्तदा ।।
अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृप ।
धार्तराष्ट्रो महाराज विबभौ स पथि व्रजन् ।।
भण्डीपुष्पनिकाशेन तपनीयनिभेन च।
अनुलिप्तः परार्द्ध्येन चन्दनेन सुगन्धिना ।।
अरजोम्बरसंवीतः सिंहखेलगतिर्नृप ।
शुशुभे विमलार्चिष्मान्नभसीव दिवाकरः ।।
तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति ।
अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः ।
भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम् ।।
हयानन्ये समारुह्य गजानन्ये च भारत ।
रथानन्ये नरश्रेष्ठं परिवव्रुः समन्ततः ।।
`पदातयश्च त्वरिता नखरप्रासयोधिनः।
परिवव्रुर्महेष्वासं धार्तराष्ट्रं महारथम् ।।'
आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः ।
प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि ।।
स पूज्यमानः कुरुभिः कौरवाणां महाबलः ।
प्रययौ सदनं राजा गाङ्गेयस्य यशस्विनः ।
अन्वीयमानः सततं सोदरैः परिवारितः ।।
दक्षिणं दक्षिणः काले संभृत्य स्वभुजं तदा।
हस्तिहस्तोपमं सौम्यं सर्वशत्रुनिबर्हणम् ।।
प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतो दिशः।
शुश्राव मधुरा वाचो नानादेशनिवासिनाम् ।।
संस्तूयमानः सूतैश्च मागधैश्च महायशाः।
पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः।।
प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचितैः ।
परिवव्रुर्महाराजं प्रज्वलद्भिः समन्ततः ।।
स तैः परिवृतो राजा प्रदीपैः काञ्चनैर्ज्वलन्।
शुशुभे चन्द्रमायुक्तो दीप्तैरिव महाग्रहैः ।।
कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः।
प्रोत्सारयन्तः शनकैस्तं जनं सर्वतो दिशम् ।।
संप्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् ।
अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः ।।
अभिवाद्य ततो भीष्मं निषण्णः परमासने।
काञ्चने सर्वतोभद्रे स्पर्द्ध्यास्तरणसंवृते।
उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः ।।
त्वां वयं हि समाश्रित्य संयुगे शत्रुसूदन ।
उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् ।
किमु पाण्डुसुतान्वीरान्ससुहृद्गणबान्धवान् ।।
तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो।
जहि पाणडुसुतान्वारान्महेन्द्र इव दानवान् ।।
पूर्वमुक्तं महाबाहो हनिष्यामि ससोमकान् ।
पाञ्चालान्केकयैः सार्धं करूपांश्चेति भारत ।।
त्वद्वचः सत्यमेवास्तु जहि पार्थान्समागतान् ।
सोमकांश्च महेष्वासान्सत्यवाग्भव भारत ।।
दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो ।
मन्दभाग्यतया वापि मम रक्षसि पाण्डवान् ।।
अनुजानीहि समरे कर्णमाहवशोभिनम् ।
स जेष्यति रणे पार्थान्ससुहृद्गणबान्धवान् ।।
सञ्जय उवाच।
स एवमुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव।
नोवाच वचनं किंचिद्भीष्मं सत्यपराक्रमम् ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि
भीष्मवधपर्वणि सप्तनवतितमोऽध्यायः ।।