भीष्मपर्व
अध्यायः ९५
सञ्जय उवाच।
तस्मिन्महति संक्रन्दे राजा दुर्योधनस्तदा।
`पराजयं राक्षसेन नामृष्यत परंतपः।'
गाङ्गेयमुपसंगम्य विनयेनाभिवाद्य च ।।
तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे।
घटोत्कचस्य विजयमात्मनश्च पराजयम् ।।
कथयामास दुर्धर्षो विनिःश्वस्य पुनःपुनः ।
अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम् ।।
भवन्तं समुपाश्रित्य द्रोणं चैव पितामह ।
पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो ।।
एकादश समाख्याता अक्षौहिण्यश्च या मम।
निदेशे तव तिष्ठन्ति मया सार्धं परंतप ।।
सोऽहं भरतशार्दूल भीमसेनपुरोगमैः ।
घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः ।।
तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः ।
तदिच्छामि महाभाग त्वत्प्रसादात्परंतप ।।
राक्षसापशदं हन्तुं स्वयमेव पितामह ।
त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि ।।
सञ्जय उवाच।
एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम।
दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ।।
शृणु राजन्मम वचो यत्त्वां वक्ष्यामि कौरव।
यथा त्वया महाराज वर्तितव्यं परंतप ।।
आत्मा रक्ष्यस्त्वया तात सर्वावस्थास्वरिन्दम।
धर्मराजेन संग्रामस्त्वया कार्यः सदाऽनघ ।।
अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः ।
अन्यैर्वा पृथिवीपालै राजा राजानमृच्छति ।।
न तु कार्यस्त्वया राजन्हैडिम्बेन दुरात्मा।
अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः।
शल्यश्च वृषसेनश्च विकर्णश्च महारथः ।।
शेषाश्च भ्रातरस्त्वन्ये दुःशासनपुरोगमाः।
त्वदर्थे प्रतियोत्स्यामो राक्षसं तं महाबलम् ।।
रौद्रे तस्मिन्राक्षसेन्द्रे यदि ते हृच्छयो महान् ।
अयमागच्छतु रणं तस्य युद्धाय दुर्मतेः ।।
भगदत्तो महीपालः पुरन्दरसमो युधि ।
एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत् ।।
समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः।
गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम् ।।
वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् ।
राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा ।।
तव दिव्यानि चास्त्राणि विक्रमश्च परंतप ।
समागमश्च बहुभिः पुराऽभूदमरैः सह ।।
त्वं तस्य नृपशार्दूल प्रतियोद्धा महाहवे ।
स्वबलेनावृतो गच्छ जहि राक्षसपुङ्गवम् ।।
सञ्जय उवाच।
एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः।
प्रययौ सिंहनादेन परानभिमुखको द्रुतम् ।।
तमापतन्तं संप्रेक्ष्य गर्जन्तमिव तोयदम् ।
अभ्यवर्तन्त संक्रुद्धाः पाण्डवानां महारथाः ।।
भीमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः ।
द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च भारत ।।
चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा ।
सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् ।।
ततः समभवद्युद्धं घोररूपं भयानकम्।
पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम् ।।
प्रयुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः ।
ते निपेतुर्महाराज नागेषु च रथेषु च ।।
प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः ।
परस्परं समासाद्य संनिपेतुरभीतवत् ।।
मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे ।
बिभिदुर्दन्तमुसलैः समासाद्य परस्परम् ।।
हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः ।
चोदिताः सादिभिः क्षिप्रं निजघ्रुरितरेतरम् ।।
पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः।
न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः ।।
रथिनश्च रथाकंश्चित्रान्कर्णिनालीकतोमरैः ।
निहत्य समरे वीरान्सिंहनादान्विनेदिरे ।।
तस्मिंस्तथा वर्तमाने संग्रामे रोमहर्षणे ।
भगतत्तो महेष्वासो भीमसेनमथाद्रवत् ।।
कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम्।
पर्वतेन यथा तोयं स्रवमाणेन सर्वशः ।।
किरञ्छरसहस्राणि सुप्रतीकशिरोगतः ।
ऐरावतस्थो मघवान्वारिधारा इवानघ ।।
स भीमं शरधाराभिस्ताजयामास पार्थिवः ।
पर्वतं वारिधाराभिस्तपान्ते जलदो यथा ।।
भीमसेनस्तु संक्रुद्धः पादरक्षान्परःशतान्।
निजघान महेष्वासः संरब्धः शरवृष्टिभिः ।।
तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् ।
चोदयामास नागेन्द्रं भीमसेनरथं प्रति ।।
स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा।
अभ्यधावत वेगेन भीमसेनपुरोगमाः ।।
तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथाः।
अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः ।।
केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः।
दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष ।।
चेदिपो धृष्टकेतुश्च संरब्धाः सर्व एव ते।
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः ।।
तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन् ।
स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः ।।
संजातरुधिरोत्पीडो धातुचित्र इवाद्रिराट्।
दशार्णाधिपतिश्चाऽपि गजं भूमिधरोपमम् ।।
समास्थितोऽभिदुद्राव भगदत्तस्य वारणम्।
तमापतन्तं समरे जगं जगपतिः स च ।।
दधार सुप्रतीकोऽपि वेलेव मकरालयम् ।
वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः ।।
साधुसाध्विति सैन्यानि त्वदीयान्यभ्यपूजयन् ।
ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश ।।
प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम।
तस्य कुम्भपरित्राणां शातकुम्भपरिष्कृतम् ।।
विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः।
स गाढविद्धो व्यथितो नागो भरतसत्तम ।।
उपावृत्तमदः क्षिप्रमभ्यवर्तत वेगिनः ।
स प्रदुद्राव वेगेन प्रणदन्भैरवं रवम् ।।
संमर्दमानः स्वबलं वायुर्वृक्षानिवौजसा ।
तस्मिन्पराजिते नागे पाण्डवानां महारथाः ।।
सिंहनादं विनद्योच्चैर्युद्धायैवावतस्थिरे ।
ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन् ।।
किरन्तो विविधान्बाणाञ्शस्त्राणि विविधानि च।
तेषामापततां राजन्संक्रुद्धानाममर्षिणाम् ।।
श्रुत्वा स निनदंक घोरममर्षाद्गतसाध्वसः ।
भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् ।।
अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि।
तस्मिन्क्षणे समभवत्सांवर्तक इवानलः ।।
रथसङ्घांस्तथा नागान्हयांश्च हयसादिनः ।
पादातांश्च सुसंक्रुद्धः शतशोऽथ सहस्रशःक ।।
अमृद्गात्समरे नागः संप्रधावंस्ततस्ततः।
तेन संलोड्यमानं तु पाण्डवानां बलं महत् ।।
संचुकोच महाराज चर्मेवाग्नौ समाहितम् ।
भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता ।।
घटोत्कचोऽथ संक्रुद्धो भगदत्तमुपाद्रवत्।
विकटः परुषो राजन्दीप्तास्यो दीप्तलोचनः ।।
रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव ।
जग्राह विमलं शूलं गिरीणामपि दारणम् ।।
नागं जिघांसुः सहसा चिक्षेप च महाबलः।
स विस्फुलिङ्गमालाभिः समन्तात्परिवेष्टितम् ।।
तमापतन्तं सहसा दृष्ट्वा प्राग्ज्योतिषो नृपः ।
चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं सुदारुणम् ।।
चिच्छेद तन्महच्छूलं तेन बाणेन वेगवान् ।
उत्पपात द्विधा च्छिन्नं शूलं हेमपरिष्कृतम् ।।
महाशनिर्यथा भ्रष्टा शक्रमुक्ता नभोगता ।
शूलं निपतितं दृष्ट्वा द्विधा कृत्तं च पार्थिवः ।।
रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमान् ।
चिक्षेप तां राक्षसस्य तिष्ठितिष्ठेति चाब्रवीत् ।।
तामापतन्तीं संप्रेक्ष्य वियत्स्थामशनीमिव ।
उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च ।।
बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत।
पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत् ।।
तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा।
दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः ।।
पाण्डवाश्च महाराज भीमसेनपुरोगमाः ।
साधुसाध्विति नादेन पृथिवीमन्वनादयन् ।।
तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् ।
नामृष्यत महेष्वासो भगदत्तः प्रतापवान् ।।
स विष्फार्य महच्चापमिन्द्राशानिसमप्रभम् ।
अभिदुद्राव वेगेन पाण्डवानां महारथान् ।।
विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान् ।
भीममेकेन विव्याध राक्षसं नवभिः शरैः ।।
अभिमन्युं त्रिभिश्चैव केकयान्पञ्च पञ्चभिः ।
पूर्णायतविसृष्टेन शरेणानतपर्वणा ।।
बिभेद दक्षिणं बाहुं क्षत्रेदवस्य चाहवे ।
पपात सहसा तस्य सशरं धनुरुत्तमम् ।।
द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत् ।
भीमसेनस्य च क्रोधान्निजघान तुरंगमान् ।।
ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः ।
निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः ।।
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ।
विशोको भरतश्रेष्ठ भगदत्तेन संयुगे ।।
ततो भीमो महाबाहुर्विरथो रथिनां वरः ।
गदां प्रगृह्य वेगेन प्रचस्कन्द रथोत्तमात् ।।
तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम् ।
तावकानां भयं घोरं समपद्यत भारत ।।
एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः ।
आजगाम महाराज निघ्नञ्शत्रून्समन्ततः ।।
यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ महाबलौ ।
प्राग्ज्योतिषेण संयुक्तौ भीमसेनघटोत्कचौ ।।
दृष्ट्वा च पाण्डवो भ्रातॄन्युध्यमानान्महारथान् ।
त्वरितो भरतश्रेष्ठ तत्रायुध्यत्किरञ्छरान् ।।
ततो दुर्योधनो राजा त्वरमाणो महारथः ।
सेनामचोदयत्क्षिप्रं रथनागाश्वसंकुलाम् ।।
तामापतन्तीं सहसा कौरवाणां महाचमूम् ।
अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः ।।
भगदत्तश्च समरे तेन नागेन भारत।
विमृद्गन्पाण्डवबलं युधिष्ठिरमुपाद्रवत् ।।
तदासीत्सुमहद्युद्धं भगदत्तस्य मारिष।
पाञ्चालैः पाण्डवेयैश्च केकयैश्चोद्यतायुधैः ।।
भीमसेनोऽपि समरे तावुभौ केशवार्जिनौ ।
अश्रावयद्यथावृत्तमिरावद्वधतुत्तमम् ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
अष्टमदिवसयुद्धे पञ्चनवतितमोऽध्यायः ।।