भीष्मपर्व

अध्यायः ७९

Bhishma Parva (Sanskrit) · Adhyaya 79
अक्षर का आकार

सञ्जय उवाच।

ततो दुर्योधनो राजा लोहितायति भास्करे।
संग्रामरभसो भीमं हन्तुकामोऽभ्यधावत ।।

तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम् ।
भीमसेनः सुसंक्रुद्ध इदं वचनमब्रवीत् ।।

अयं स कालः संप्राप्तो वर्षपूगाभिवाञ्छितः ।
अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् ।।

अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः।
द्रौपद्याश्च परिक्लेशं प्रणेष्यामि हते त्वयि ।।

यत्पुरा मत्सरीभूत्वा पाण्डवानवमन्यसे ।
तस्य पापस्य गान्धारे पश्य व्यसनमागतम् ।।

कर्णस्य मतमास्थाय सौबलस्य च यत्पुरा ।
अचिन्त्य पाण्डवान्कामाद्यथेष्टं कृतवानसि ।।

याचमानं च यन्मोहाद्दाशार्हमवमन्यसे।
उलूकस्य समादेशं यद्ददासि च हृष्टवत् ।।

तेन त्वां निहनिष्यामि सानुबन्धं सबान्धवम् ।
शमीकरिष्ये तत्पापं यत्पुरा कृतवानसि ।।

एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत् ।
समाधत्त शरान्घोरान्महाशनिसमप्रभान् ।।

षड्विंशतिमसं क्रुद्धो मुमोचाशु सुयोधने ।
ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान् ।।

ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे ।
चतुर्भिरश्वाञ्जवनाननयद्यमसादनम् ।।

द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः ।
छत्रं चिच्छेद समरे राज्ञस्तस्य नरोत्तम् ।।

षङ्भिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम् ।
छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः ।।

रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितात्।
पपात सहसा भूमौ विद्युञ्जलधरादिव ।।

ज्वलन्तं सूर्यसंकाशं नागं मणिमयं शुभम् ।
ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ।।

अथैनं दशभिर्बाणैस्तोत्रैरिव महाद्विपम् ।
आजघान रणे वीरं स्मयन्निव महारथः ।।

स गाढविद्धो व्यथितो भीमसेनेन संयुगे ।
निषसाद रथोपस्थे मूर्च्छाभिहतचेतनः ।।

ततः स राजा सिन्धूनां रथश्रेष्ठो महाबलः ।
दुर्योधनस्य जग्राह पार्ष्णिं स्वपुरुषैर्वृतः ।।

कृपश्च रथिनां श्रेष्ठस्तव पुत्रमचेतनम् ।
आरोपयद्रथं राजन्दुर्योधनममर्षणम् ।।

परिवार्य ततो भीमं जेतुकामो जयद्रथः ।
रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः ।।

धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान्।
केकया द्रौपदेयाश्च तव पुत्रानयोधयन् ।।

चित्रसेनः सुचित्रश्च चित्राङ्गश्चित्रदर्शनः ।
चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ ।।

अष्टावेते महेष्वासाः सुकुमारा यशस्विनः ।
अभिमन्युरथं राजन्समन्तात्पर्यवारयन् ।।

आजघान ततस्तूर्णमभिमन्युर्महामनाः ।
एकैकं पञ्चभिर्बाणैः शितैः सन्नतपर्वभिः ।।

वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतैः ।
अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम् ।।

ववृषुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः ।
स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः ।।

अभिमन्युर्महाराज तावकान्समकम्पयत्।
यथा देवासुरे युद्धे वज्रपाणिर्महासुरान् ।।

विकर्णस्य ततो भल्लान्प्रेषयामास भारत।
चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् ।।

स तैर्विकर्णस्य रथात्पातयामास वीर्यवान् ।
ध्वजं सूतं हयांश्चैव नृत्यमान इवाहवे ।।

पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान्।
प्रेषयामास संक्रुद्धो विकर्णाय महाबलः ।।

ते विकर्णं समासाद्य कङ्कबर्हिणवाससः।
भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः ।।

ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले ।
विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम् ।।

विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः ।
अभ्यद्रवन्त समरे सौभद्रप्रमुखान्रथान् ।।

अभियात्वा तथैवान्यान्रथांस्तान्सूर्यवर्चसः ।
अविध्यन्समरेऽन्योन्यं संरम्भाद्युद्धदुर्मदाः ।।

दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः ।
ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तमिः ।।

अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः ।
जघान षङ्भिरासाद्य सारथिं चाभ्यपातयत् ।।

स हताश्वे रथे तिष्ठञ्श्रुतकर्मा महारथः ।
शक्तिं चिक्षेप संक्रुद्धो महोल्कां ज्वलितामिव ।।

सा दुर्मुखस्य विमलं वर्म भित्त्वा यशस्विनः ।
विदार्य प्राविशद्भूभिं दीप्यमाना स्वतेजसा ।।

दुर्मुखो विह्वलस्तत्र निषसाद रणे विभो।
विसंज्ञं प्रेक्ष्य ते सर्वे भ्रातरः पर्यवारयन् ।।

तं दृष्ट्वा विरथं तत्र सुतसोमो महारथः ।
पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम् ।।

श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव।
अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम् ।।

तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महास्वनम्।
चिच्छेद समरे तूर्णं जयत्सेनः सुतस्तव ।।

क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत।
तं दृष्ट्वा च्छिन्नधन्वानं शतानीकः सहोदरम् ।।

अभ्यपद्यत तेजस्वी सिंहवन्निनदन्मुहुः ।
शतानीकस्तु समरे दृढं विस्पार्य कार्मुकम् ।।

विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः ।
ननाद सुमहानादं प्रभिन्न इव वारणः ।।

अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना ।
शतानीको जयत्सेनं विव्याध हृदये भृशम् ।।

तथा तस्मिन्वर्तमाने दुष्कर्णो भ्रातुरन्तिके ।
मुमोचास्मैशितान्बाणांस्तीक्ष्णानाशीविषोपमान्
चिच्छेद समरे चापं नाकुलेः क्रोधमूर्च्छितः ।।

अथान्यद्धनुरादाय भारसाहमनुत्तमम् ।
समादत्त शरान्घोराञ्शतानीको महाबलः ।।

तिष्ठतिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः।
मुमोचास्मै शितान्बाणाज्ज्वलितान्पन्नगानिव ।।

ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष ।
चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः ।।

अश्वान्मनोजवांस्तस्य कर्बुरान्वातरंहसः ।
जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः ।।

अथापरेण भल्लेन सुयुक्तेनाशुपातिना।
दुष्कर्णं नाकुलिः क्रुद्धो विव्याध हृदये भृशम् ।।

स पपात ततो भूमौ वज्राहत इव द्रुमः ।
दुष्कर्णं व्यथितं दृष्ट्वा पञ्च राजन्महारथाः ।।

दिघांसन्तः शतानीकं सर्वतः पर्यवारयन्।
छाद्यमानं शरव्रतैः शतानीकं यशस्विनम् ।।

अभ्यधावन्त संक्रुद्धाः केकयाः पञ्च सोदराः ।
तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः ।।

प्रत्युद्ययुर्महाराज गजानिव महागजाः ।
दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा ।।

शत्रुंजयः सत्रुसहः सर्वे क्रुद्धा यशस्विनः ।
प्रत्युद्याता महाराज केकयान्भ्रातरः समम् ।।

रथैर्नगरसंकाशैर्हयैर्युक्तैर्मनोजवैः ।
नानावर्णविचित्राभिः पताकाभिरलङ्कृतैः ।।

शरचापधरा वीरा विचित्रकवचध्वजाः ।
विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम् ।।

तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम्।
अवर्तत महारौद्रं निघ्नतामितरेतरम् ।।

अन्योन्यागस्कृतां राजन्यमराष्ट्रविवर्धनम् ।
मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम् ।।

रथिनः सादिनश्चाथ व्यकीर्यन्त सहस्रशः ।
ततः शान्तनवः क्रुद्धः शरैः सन्नतपर्वभिः ।।

नाशयामास सेनां तां भीष्मस्तेषां महात्मनाम् ।
पञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम् ।।

एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम्।
कृत्वाऽवहारं सैन्यानां ययौ स्वशिबिरं नृप ।।

नाशयामासतुर्वीरौ धृष्टद्युम्नवृकोदरौ।
करवाणामनीकानि शरैः सन्नतपर्वभिः ।।

धर्मराजोऽपि संप्रेक्ष्य धृष्टद्युम्नवृकोदरौ ।
मूर्ध्नि चैतावुपाघ्राय प्रहृष्टः शिबिरं ययौ ।।

` अर्जुनो वासुदेवश्च कौरवाणामनीकिनीम् ।'
हत्वा विद्राव्य च शरैः शिबिरायैव जग्मतुः ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
षष्ठदिवसयुद्धे एकोनाशीतितमोऽध्यायः ।।