भीष्मपर्व

अध्यायः ८०

Bhishma Parva (Sanskrit) · Adhyaya 80
अक्षर का आकार

सञ्जय उवाच।

क्षत्रियास्ते महाराज परस्परकृतागसः।
जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः ।।

विश्रम्य च यथान्यायं पूजयित्वा परस्परम् ।
सन्नद्धाः समदृश्यन्त भूयो युद्धचिकीर्षवः ।।

ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः ।
विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् ।।

सैन्यानि रौद्राणि भयानकानि
व्यूढानि सम्यग्बहुलध्वजानि।
विदार्य हत्वा च निपीड्य शूरां-
स्ते पाण्डवा लब्धजयाः प्रहृष्टाः ।।

संमोह्य सर्वान्युधि कीर्तिमन्तो
व्यूहं च तं मकरं मृत्युकल्पम् ।
प्रविश्य भीमेन रणे हतोऽस्मि
घोरैः शरैर्मृत्युदण्डप्रकाशैः ।।

क्रुद्धं तमुद्वीक्ष्य भयेन राज-
न्संमूर्च्छितो न लभे शान्तिमद्य ।
इच्छे प्रसादात्तव सत्यसन्ध
प्राप्तुं जयं पाण्डवेयांश्च हन्तुम् ।।

तेनैवमुक्तः प्रहसन्महात्मा
दुर्योधनं मन्युगतं विदित्वा।
तं प्रत्युवाचाविमना मनस्वी
गङ्गासुतः सस्त्रभृतां वरिष्ठः ।।

परेण यत्नेन विगाह्य सेनां
सर्वात्मनाऽहं तव राजपुत्र।
इच्छामि दातुं विजयं सुखं च
न चात्मानं छादयेऽहं त्वदर्थे ।।

एते तु रौद्रा बहवो महारथा
यशस्विनः शूरतमाः कृतास्त्राः ।
ये पाण्डवानां समरे सहाया
जितक्लमा रोषविषं वमन्ति ।।

केनेह शक्याः सहसा विजेतुं
वीर्योद्धताः कृतवैरास्त्वया च।
अहं ह्येतान्प्रतियोत्स्यामि राज-
न्सर्वात्मना जीवितं त्यज्य वीर ।।

रणे तवार्थाय महानुभाव
न जीवितं रक्षितव्यं ममाद्य।
सर्वांस्तवार्थाय सदेवदैत्याँ-
ल्लोकान्दहेयं किमु शत्रुसेनाम् ।।

तान्पाण्डवान्योधयिष्यामि राजन्
प्रियं च ते सर्वमहं करिष्ये।

सञ्जय उवाच।

श्रुत्वा पितुस्ते वचनं प्रतीतो
दुर्योधनः प्रीतमना बभूव ।।

सर्वाणि सैन्यानि ततः प्रहृष्टो
निर्गच्छतेत्याह नृपांश्च सर्वान्।
तदाक्षया तानि विनिर्ययुर्द्रुतं
गजाश्वपादातरथायुतानि ।।

प्रहर्षयुक्तानि तु तानि राज-
न्महान्ति नानाविधशस्त्रवन्ति।
स्थितानि नागाश्वपदातिमन्ति
विरेजुराजौ तव राजन्बलानि ।।

शस्त्रास्त्रविद्भिर्नरवीरयोधै-
रधिष्ठिताः सैन्यगणास्त्वदीयाः।
रथौघपादातगजाश्वसङ्घैः
प्रयाद्भिराजौ विधिवत्प्रणुन्नैः ।।

समुद्धतं वै तरुणार्कवर्णं
रजो बभौ च्छादयत्सूर्यश्मीन्।
रेजुः पताका रथदन्तिसंस्था
वातेरिता भ्राम्यमाणाः समन्तात् ।।

नानालिङ्गैः समरे तत्र राजन्
मेघैर्युता विद्युतः खे यथैव।
वृन्दैः स्थिताश्चापि सुसंप्रयुक्ता-
श्चकाशिरे दन्तिगणाः समन्तात् ।।

धनूंषि विष्फारयतां नृपाणां
बभूव शब्दस्तुमुलोऽतिघोरः।
विमथ्यतो देवमहासुरौघै-
र्यथार्णवस्यादियुगे तदानीम् ।।

तदुग्रनागं बहुरूपवर्णं
तवात्मजानां समुदीर्णकोपम् ।
बभूव सैन्यं रिपुसैन्यहन्त-
युगान्तमेघौघनिभं तदानीम् ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
सप्तमदिवसयुद्धे अशीतितमोऽद्यायः ।।