भीष्मपर्व

अध्यायः ७८

Bhishma Parva (Sanskrit) · Adhyaya 78
अक्षर का आकार

सञ्जय उवाच।

ततो दुर्योधनो राजा महोत्प्रत्यागतस्मृतिः ।
शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम् ।।

एकीभूतास्ततश्चैव तव पुत्रा महारथाः ।
समेत्य समरे भीमं योधयामासुरुद्यताः ।।

भीमसेनोऽपि समरे संप्राप्य स्वरथं पुनः ।
समारुह्य महाबाहुर्ययौ येन तवात्मजः ।।

प्रगृह्य च महावेगं परासुकरणं दृढम् ।
सज्यं शरासनं सङ्ख्ये शरैर्विव्याध ते सुतम् ।।

ततो दुर्योधनो राजा भीमसेनं महाबलम् ।
नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत् ।।

सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना ।
क्रोधसंरक्तनयनो वेगेनाक्षिप्य कार्मुकम् ।।

दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ।
स तत्र शुशुभे राजा शिखरैर्गिरिराडिव ।।

तौ दष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् ।
दुर्योधनानुजाः सर्वे शूराः संत्यक्तजीविताः ।।

संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः ।
निश्चयं परमं कृत्वा निग्रहीतुं प्रचक्रमुः ।।

तानापतत एवाजौ भीमसेनो महाबलः ।
प्रत्युद्ययौ महाराज गजः प्रतिगजानिव ।।

भृशं क्रुद्धश्च तेजस्वी नाराचेन समार्पयत् ।
चित्रसेनं महाराज तव पुत्रं महायशाः ।।

तथेतरांस्तव सुतांस्ताडयामास भारत ।
शरैर्बहुविधैः सङ्ख्ये रुक्मपुङ्खैः सुतेजनैः ।।

ततः संप्रेक्ष्य पुत्रैस्ते भीमसेनं समावृतम् ।
अभिमन्युप्रभृतयस्ते द्वदश महारथाः ।।

प्रेषिता धर्मराजेन भीमसेनपदानुगाः ।
प्रतिजग्मुर्महाराज तव पुत्रान्महाबलान् ।।

दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः ।
सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिया वृतान् ।।

महाहवे दीष्यमानान्सुवर्णमकुटोञ्ज्वलान्।
तत्यजुः समरे भीमं तव पुत्रा महाबलाः ।।

तान्नामृष्यत कौन्तेयो जीवमाना गता इति ।
अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत् ।।

अथाभिमन्युः समरे भीमसेनेन संगतः ।
पार्षतेन च ते सर्वे कैकया द्रौपदीसुताः ।।

तादृष्ट्वा समरे क्रुद्धांस्तव सैन्ये महारथाः।
दुर्योधनप्रभृतयः प्रगृहीतशरासनाः।
भृशमर्श्वैः प्रजवितैः प्रययुर्यत्र ते रथाः ।।

अपराह्णे महाराज प्रावर्तत महारणः।
तावकानां च बलिनां परेषां चैव भारत ।।

अभिमन्युर्विकर्णस्य हयान्हत्वा महाहवे।
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ।।

हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः ।
आरुरोह रथं राजंश्चित्रसेनस्य भारत ।
योधयामास समरे तदद्भुतमिवाभवत् ।।

स्थितावेकरथे तौ तु भ्रातरौ कुलवर्धनौ।
आर्जिनिः शरजालेन च्छादयामास भारत ।।

चित्रसेनो विकर्णश्च कार्ष्णिं पञ्चभिरायसैः ।
विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिव स्थितः ।।

दुःशासनस्तु समरे केकयान्पञ्च मारिप ।
योधयामास राजेन्द्र तदद्भुतमिवाभवत् ।।

द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन् ।
शरैराशीविषाकारैः पुत्रं तव विशांपते ।।

पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान्रणे ।
सायकैर्निशितै राजन्नाजघान पृथक्पृथक् ।।

तैश्चापि विद्धः शुशुभे रुधिरेम समुक्षितः ।
गिरिः प्रस्रवणैर्यद्वद्गैरिकादिविमिश्रितैः ।।

भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम् ।
कालयामास बलवान्पालः पशुगणानिव ।।

ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशांपते ।
दक्षिणेन वरूथिन्याः पार्थस्यरीन्विनिघ्नतः ।।

उत्तस्थुः समरे तत्र कबन्धानि समन्ततः।
कुरूणां चैव सैन्येषु पाण्डवानां च भारत ।।

शोणितोदं शरावर्तं गजद्वीपं हयोर्मिणम् ।
रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम् ।।

छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः ।
दृश्यन्ते पतितास्तत्र शतशोऽथ सहस्रशः ।।

निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः ।
भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा ।।

तत्राद्भुतमपश्याम तव तेषां च भारत ।
न तत्रासीत्पुमान्कश्चिद्यो युद्धं नाभिकाङ्क्षति ।।

एवं युयुधिरे वीराः प्रार्थयाना महद्यशः।
तावकाः पाण्डवैः सार्धमाकाङ्क्षन्तो जयं युधि ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
षष्ठदिवसयुद्धे अष्टसप्ततितमोऽध्यायः ।।