भीष्मपर्व
अध्यायः ७७
सञ्जय उवाच।
आत्मदोषात्त्वया राजन्प्राप्तं व्यसनमीदृशम् ।
न हि दुर्योधनस्तानि पश्यते भरतर्षभ ।।
यानि त्वं पश्यसे राजन्धर्मसंकरकारणात्।
तव दोषात्पुरा वृत्तं द्यूतमेतद्विशांपते ।।
तव दोषेण युद्दं च प्रवृत्तं सह पाण्डवैः ।
त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना ।।
आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते।
इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम् ।।
तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत्।
शृणु युद्धं यथा वृत्तं शंसतो मे नराधिप ।।
भीमसेनः सुनिशितैर्बाणैर्भित्त्वा महाचमूम् ।
आससाद ततो वीरः सर्वान्दुर्योधनानुजान् ।।
दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम्।
जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम् ।।
चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च ।
एतांश्चान्यांश्च सुबहून्समीपस्थान्महारथान् ।।
धार्तराष्ट्रान्सुसंक्रुद्धान्दृष्ट्वा भीमो महारथः ।
भीष्मेण समरे गुप्तां प्रविवेश महाचमूम् ।।
अथालोक्य प्रविष्टं तमूचुस्ते सर्व एव तु ।
जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः ।।
स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः ।
प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः ।।
संप्राप्य मध्यं सैन्यस्य न भीः पाण्डवमाविशत्।
यथा देवासुरे युद्धे महेन्द्रं प्राप्य दानवान् ।
ततः शतसहस्राणि रथिनां सर्वशः प्रभो ।
उद्यतानि शरैस्तीव्रैस्तमेकं परिवव्रिरे ।।
स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः ।
जघान समरे शूरो धार्तराष्ट्रानचिन्तयन् ।।
तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम्।
समस्तानां वधे राजन्मतिं चक्रे महामनाः ।।
ततो रथं समुत्सृज्य गदामादाय पाण्डवः ।
उवाच सारथिं भीमं स्थीयतामिति भारत ।।
यावदेतान्हनिष्यामि धार्तराष्ट्रान्सहानुगान् ।
इत्युक्त्वा भीमसेनस्तु प्रविश्य महतीं चमूम् ।
जघान धार्तराष्ट्राणां तद्बलौघमहार्णवम् ।।
गदया भिमसेनेन ताडिता वारणोत्तमाः ।
भिन्नकुम्भा महाकाया भिन्नपृष्ठास्तथैवच ।।
भिन्नगात्राः सहारोहैः शेरते पर्वता इव।
रथाश्च भग्नास्तिलशः सयोधाः शतशो रणे ।।
अश्वाश्च सादिनश्चैव पादातैः सह भारत ।
तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् ।।
यदेकः समरे राजन्बहुभिः समयोधयत् ।
अन्तकाले प्रजाः सर्वा दण्डपाणिरिवान्तकः ।।
भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः ।
द्रोणमुत्सृज्य तरसा ययौ यत्र वृकोदरः ।।
विदार्य महतीं सेनां तावकानां नरर्षभः ।
आससाद रथं शून्यं भीमसेनस्य संयुगे ।।
दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् ।
धृष्टद्युम्नो महाराज दुर्मना गतचेतनः ।।
अपृच्छद्बाष्पसंरुद्धो निःश्वसन्वाचमीरयन् ।
मम प्राणैः प्रियतमः क्व भीम इति दुःखितः ।।
विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः ।
संस्थाप्य मामिह बली पाण्डवेयः पराक्रमी ।।
प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम् ।
मामुक्त्वा पुरुषव्याघ्रः प्रीतियुक्तमिदं वचः ।।
प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम्।
यावदेवान्निहन्म्यद्य य इमे मद्वधोद्यताः ।
अभ्यधावद्गदापाणिस्तद्बलं स महाबलः ।।
ततो दृष्ट्वा प्रधावन्तं गदाहस्तं महाबलम् ।
सर्वेषामेव सैन्यानां संहर्षः समजायत ।।
तस्मिन्सुतुमुले युद्धे वर्तमाने भयानके ।
भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव ।।
विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽथ पार्षतः ।
प्रत्युवाच ततः सूतं रणमध्ये महाबलः ।।
न हि मे जीवितेनापि विद्यतेऽद्य प्रयोजनम् ।
भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः ।।
यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति।
एकायनगते भीमे मयि चावस्थिते युधि ।।
तस्य न स्वस्ति कुर्वन्ति देवाः शक्रपुरोगमाः ।
यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहम् ।।
`रौरवे नरके मञ्जेदप्लवे दुस्तरे नृभिः ।'
मम भीमः सखा चैव संबन्धी च महाबलः ।
भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम् ।।
सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः ।
निघ्नन्तं मां रिपून्पश्य दानवानिव वासवम् ।।
एवमुक्त्वा ततो वीरो ययौ मध्येन वाहिनीम् ।
भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः ।।
स ददर्श तदा भीमं दहन्तं रिपुवाहिनीम्।
वातो वृक्षानिव बलात्प्रभञ्जन्तं रणे रिपून् ।।
ते वध्यमानाः समरे रथिनः सादिनस्तथा ।
पादाता दन्तिनश्चैव चक्रुरात्स्वरं महत् ।।
हाहाकारश्च संजज्ञे तव सैन्यस्य मारिष ।
वध्यतो भीमसेनेन कृतिना चित्रयोधिना ।।
ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम् ।
अभीताः समवर्तन्त शस्त्रवृष्ट्या परंतप ।।
अभिद्रुतं शस्त्रभृतां वरिष्ठं
समन्ततः पाण्डवं लोकवीरः।
सैन्येन घोरेण सुसंहितेन
दृष्ट्वा बली पार्षतो भीमसेनम् ।।
अथोपगच्छच्छरविक्षताङ्गं
पदातिनं क्रोधविषं वमन्तम्।
आश्वासयन्पार्षतो भीमसेनं
गदाहस्तं कालमिवान्तकाले ।।
विशल्यमेनं च चकार तूर्ण-
मारोपयच्चात्मरथे महात्मा।
भृशं परिष्वज्य च भीमसेन-
माश्वासयामास स शत्रुमध्ये ।।
तथा तस्मिन्वर्तमानेऽतिवेगं
भ्रातॄनथोपेत्य तवापि पुत्रः ।
तस्मिन्विमर्दे तव संप्रवृत्ते
दृष्ट्वा रणे वाक्यमिदं बभाषे ।।
अयं दुरात्मा द्रुपदस्य पुत्रः
समागतो भीमसेनेन सार्धम् ।।
तं याम सर्वे महता बलेन
मा वो रिपुः प्रार्थयतामनीकम्।
श्रुत्वा तु वाक्यं तममृष्यमाणा
ज्येष्ठज्ञया नोदिता धार्तराष्ट्राः ।।
वधाय निष्पेतुरुदायुधास्ते
युगक्षये केतवो यद्वदुग्राः।
प्रगृह्य चास्त्राणि धनूंषि वीरा
ज्यां नेमिघोषैः प्रविकम्पयन्तः ।।
शरैरवर्षन्द्रुपदस्य पुत्रं
यथाम्बुदा भूधरं वारिजालैः ।
निहत्य तांश्चापि शरैः सुतीक्ष्णै-
र्न विव्यथे समरे चित्रयोधी ।।
न्दैत्येषु यद्वत्समरे महेन्द्रः ।।
`स वै ततोऽस्त्रं सुमहाप्रभावं'
प्रमोहनं द्रोणदत्तं महात्मा।
प्रयोजयामास उदारकर्मा
तस्मिन्रणे तव सैन्यस्य राजन्।।'
न्मोहोपेतांस्तव पुत्रान्निशम्य ।।
एतस्मिन्नेव काले तु भीमः प्रहरतां वरः।
विश्रम्य च तदा राजन्पीत्वाऽमृतरसं जलम् ।।
पुनः सन्नह्य संक्रुद्धो योधयामास संयुगे।
धृष्टद्यम्नेन सहितः कालयामास भारत ।।
एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः।
द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः ।।
सोऽतिविद्धस्ततो राजन्रणे द्रोणेन पार्थिवः ।
अपायाद्द्रुपदो राजन्पूर्ववैरमनुस्मरन् ।
जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान् ।
तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः ।।
अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः।
प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव ।।
ततो द्रोणो महाराज त्वरितोऽभ्याययौ रणात्।
तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान् ।।
धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे ।
मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः ।।
ततः प्रज्ञांस्त्रमदाय मोहनास्त्रं व्यनाशयत् ।
ततः प्रत्यागतप्राणास्तव पुत्रा महारथाः ।।
पुनर्युद्धाय समरे प्रत्युद्याता जिगीषवः ।
ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान् ।।
गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि।
सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः ।।
प्रवृत्तिमधिगच्छन्तु न हि शुद्ध्यति मे मनः ।
प्रवृत्तिर्भिमसेनस्य पार्षतस्य च संयुगे ।।
विज्ञेया समरे शीघ्रं प्रविशध्वं रथार्णवम् ।
गच्छन्तु परया शक्त्या भवन्त इति मे मतिः ।।
त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः ।
बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः ।
मध्यंदिनगते सूर्ये प्रययुः सर्व एव हि ।।
केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान् ।
अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः ।।
ते कृत्वा समरे व्यूहं सूचीमुखमरिन्दमम् ।
बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे ।।
तान्प्रयातान्महेष्वासानभिमन्युपुरोगमान्।
भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता ।।
न संवारयितुं शक्ता तव सेना जनाधिप ।
मदमूर्च्छन्वितात्मा वै प्रमदेवाध्वनि स्थिता ।।
तेऽभिजाता महेष्वासाः सुवर्णविकृतध्वजाः ।
परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्रवृकोदरौ ।।
तौ च दृष्ट्वा महेष्वासावभिमन्युपुरोगमान् ।
बभूवतुर्मुदायुक्तौ निघ्नन्तौ तव वाहिनीम् ।।
`द्रोणमिष्वस्त्रकुशलं सर्वविद्यासु पारगम्।'
दृष्ट्वा तु सहसायान्तं पाञ्चाल्यो गुरुमात्मनः ।
नाशंसत वधं वीरः पुत्राणां तव पार्षतः ।।
ततो रथं समारोप्य कैकेयस्य वृकोदरम् ।
अभ्यधावत्सुसंक्रुद्धो द्रोणमिष्वस्त्रपारगम् ।।
तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान्।
क्रुद्धश्चिच्छेद बाणेन धनुः शत्रुनिबर्हणः ।।
अन्यांश्च शतशो बाणान्प्रेषयामास पार्षते ।
दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन् ।।
अथान्यद्धनुरादाय पार्षतः परवीरहा ।
द्रोणं विव्याध विंशत्या रुक्मपुङ्खैः शिलाशितैः ।।
तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनःक ।
हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः ।।
वैवस्वतक्षयं घोरं प्रेषयामास भारत ।
सारथिं चास्य भल्लेन प्रेषयामास भारत ।
हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः ।
आरुरोह महाबाहुरभिमन्योर्महारथम् ।।
ततः सरथनागाश्वा समकम्पत वाहिनी ।
पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः ।।
तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा ।
नाशक्रुवन्वारयितुं समस्तास्ते महारथाः ।।
वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः ।
व्यभ्रमत्तत्रतत्रैव क्षोभ्यमाण इवार्णवः ।।
तथा दृष्ट्वा च तत्सैन्यं जहृषे तावकं बलम् ।
दृष्ट्वाचार्यं सुसंक्रुद्धं तपन्तं रिपुवाहिनीम् ।
तुष्टुवुः सर्वतो योधाः साधुसाध्विति भारत ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
षष्ठदिवसयुद्धे सप्तसप्ततितमोऽध्यायः ।।