भीष्मपर्व
अध्यायः ७६
धृतराष्ट्र उवाच।
एवं बहुगुणं सैन्यमेवं बहुविधं परम्।
व्यूढमेवं यथाशास्त्रममोघं चैव सञ्जय ।।
जुष्टमस्माकमत्यन्तमभिकामं च नः सदा ।
प्रहृष्टं व्यसनोपेतं पुरस्ताद्दृष्टविक्रमम् ।।
नातिवृद्धमबालं च न कृशं न च पीवरम् ।
लघुवृत्तायतप्रायं सागराकारमव्ययम् ।।
आत्तसन्नाहशस्त्रं च बहुशस्त्रपरिग्रहम् ।
असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् ।।
प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च ।
भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः ।।
कम्पनेषु च चापेषु कणपेषु च सर्वशः ।
क्षेणणीयेषु चित्रेषु मुष्टयुद्धेषु च क्षमम् ।।
अपरोक्षं च विद्यासु व्यायामे च कृतश्रमम् ।
शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम् ।।
आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते ।
सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ।।
नागाश्वरथयानेषु बहुशः सुपरीक्षितम् ।
परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ।।
न गोष्ठ्या नोपकारेण न च बन्धुनिमित्ततः ।
न सौहृदबलैर्वापि नाकुलीनपरिग्रहैः ।।
समृद्धजनमार्यं च तुष्टसंबन्धिबान्धवम् ।
कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च ।।
स्वजनैस्तु नरैर्मुख्यैर्बहुशो दृष्टकर्मभिः ।
लोकपालोपमैस्तात पालितं लोकविश्रुतम् ।।
बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः ।
अस्मानभिगतैः कामात्सबलैः सपदानुगैः ।।
महोदधिमिवापूर्णमापगाभिः समन्ततः ।
अपक्षपक्षिसंकाशै रथैर्नागैश्च संवृतम् ।।
नानायोधजलं भीमं वाहनोर्मितरङ्गिणम्।
क्षेपण्यसिगदाशक्तिशरप्राससामाकुलम् ।।
ध्वजभूषणसंबाधं रत्नपट्टसुसंचितम् ।
परिधावद्भिरश्वैश्च वायुवेगविकम्पितम् ।।
अपारमिव गर्जन्तं सागरप्रतिमं महत्।
द्रोणभीष्मासिसंगप्तं गुप्तं च कृतवर्मणा ।।
कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा ।
भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः ।।
गुप्तं प्रवीरैर्लौकैश्च सारवद्भिर्महात्मभिः ।
यदहन्यत सैन्यं मे दिष्टमत्र परायणम् ।।
नैतादृशं समुद्योगं दृष्टवन्तो हि मानुषाः ।
ऋषयो वा महाभागाः पुराणा भुवि सञ्जय ।।
ईदृशोऽपि बलौघस्तु संयुक्तः शस्त्रसंपदा ।
वध्यते यत्र संग्रामे किमन्यद्भागधेयतः ।।
विपरीतमिदं सर्वं प्रतिभाति हि सञ्जय ।
यत्रेदृशं बलं घोरं नावधीद्युधि पाण्डवान् ।।
पाण्डवार्थाय नियतं देवास्तत्र समागताः ।
युध्यन्ते मामकं सैन्यं यथाऽवध्यत सञ्जय ।।
उक्तोऽपि विदुरेणाहं हितं पथ्यं च नित्यशः ।
न च जग्राह तन्मन्दः पुत्रो दुर्योधनो मम ।।
तथ्यां मन्ये मतिं तस्य सर्वज्ञस्य महात्मनः ।
आसीत्तथाऽऽगतं तात येन दृष्टमिदं पुरा ।।
अथवा भाव्यमेवं हि संजयैतेन सर्वथा ।
पुरा धात्रा यथा दिष्टं तत्तथा न तदन्यथा ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
षष्ठदिवसयुद्धे षट्सप्ततितमोऽध्यायः ।।