भीष्मपर्व

अध्यायः ७३

Bhishma Parva (Sanskrit) · Adhyaya 73
अक्षर का आकार

सञ्जय उवाच।

विराटोऽय त्रिभिर्बाणैर्भीष्ममार्च्छन्महारथम् ।
विव्याध तुरमांत्रास्य त्रिभिर्बाणैर्महारथः ।।

तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवः शरैः।
रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः ।।

द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः ।
अविध्यदिषुभिः षङ्भिर्दृढहस्तः स्तनान्तरे ।।

कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा ।
अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः ।।

सोऽन्यत्कार्मुकमादाय वेगवान्क्रोधमूर्च्छितः।
अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे ।।

अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः ।
वासुदेवं च सप्तत्या विव्याध परमेषुभिः ।।

ततः क्रोधाभिताम्राक्षः कृष्णेन सह फल्गुनः ।
दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा पुनःपुनः ।।

धनुः प्रपीड्य वामेन करेणामित्रकर्शनः ।
गाण्डीवधन्वा संक्रुद्धः शितान्सन्नतपर्वणः ।।

जीवितान्तकरान्घोरान्समादत्त शिलीमुखान्।
तैस्तूर्णं समरेऽविध्यद्रौणिं बलवतां वरः ।।

तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे।
न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना ।।

तथैव च शरान्द्रौणिः प्रविमुञ्चन्नविह्वलः ।
तस्थौ च समरे राजंस्त्रातुमिच्छन्महाव्रतम् ।।

तस्य तत्सुमहत्कर्म शशंसुः कुरुसत्तमाः ।
यत्कृष्णाभ्यां समेताभ्यामभ्यापतत संयुगे ।।

स हि नित्यमनीकेषु युध्यतेऽभयमास्तितः।
अस्त्रग्रामं ससंहारं द्रोणात्प्राप्य सुदुर्लभम् ।।

ममैष आचार्यसुतो द्रोणस्यापि प्रियः सुतः ।
ब्राह्मणश्च विशेषेण माननीयो ममेति च ।।

समास्थआय मतिं वीरो बीभत्सुः सत्रुतापनः ।
कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति ।।

द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः श्वेतवाहनः।
युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी ।।

दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः ।
भीमसेनं महेष्वासं रुक्मपुङ्खैः समार्पयत् ।।

भीमसेनः सुसंक्रुद्धः परासुकरणं दृढम् ।
चित्रं कार्मुकमादत्त शरांश्च निशितान्दश ।।

आकर्णप्रहितैस्तीक्ष्णैर्वेगवद्भिरजिह्मगैः।
अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि ।।

तस्य काञ्चनसूत्रस्थः शरैः संछादितो मणिः।
रराजोरसि खे सूर्यो ग्रहैरिव समावृतः।।

पुत्रस्तु तव तेजस्वी भीमसेनेन ताडित।
नामृष्यत यथा नागस्तलशब्दं मदोत्कटः ।।

ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः ।
भीमं विव्याध संक्रुद्धस्त्रासयानो वरूथिनीम् ।।

तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ ।
पुत्रौ ते देवसंकाशौ व्यरोचेतां महाबलौ ।।

चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा।
अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः ।।

सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि।
नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् ।।

तं प्रत्यविध्यद्दशभिश्चित्रसेनः शिलीमुखैः ।
सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः ।।

स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत्।
चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः ।।

भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् ।
ततस्ते तावका वीरा राजपुत्रा महारथाः ।।

समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः।
तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित् ।।

तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव।
दहन्तं समरे सैन्यं वने कक्षं यथोल्बणम् ।।

अपेतशिशिरे काले समिद्धमिव पावकम् ।
अत्यरोचत सौभद्रस्तव सैन्यानि नाशयन् ।।

तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशांपते ।
लक्ष्मणोऽभ्यपतत्तूर्णं सात्तीपुत्रमाहवे ।।

अभिमन्युस्तु संक्रुद्धो लक्ष्मणं शुभलक्षणम् ।
विव्याध निशितैः षङभिः सारथिं च त्रिभिः शरैः ।।

तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः।
अविध्यत महाराज तदद्भुतमिवाभवत् ।।

तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः ।
अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः ।।

हताश्वे तु रथे तिष्ठँल्लक्ष्मणः परवीरहा ।
शक्तिं चिक्षेप संक्रुद्धः सौभद्रस्य रथं प्रति।।

तामापतन्तीं सहसा घोररूपां दुरासदाम्।
अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् ।।

ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा।
अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः ।।

ततः समाकुले तस्मिन्वर्तमाने महाभये ।
अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः ।।

तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः ।
जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम् ।।

मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः ।
बाहुभइः समयुध्यन्त सृञ्जयाः कुरुभिः सह ।।

ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् ।
सेनां जघान संक्रुद्धो दिव्यैरस्त्रैर्महाबलः ।।

हतेश्वरैर्गजैस्तत्र नरैरश्वैश्च पातितैः ।
रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
पञ्चमदिवसयुद्धे त्रिसप्ततितमोऽध्यायः ।।