भीष्मपर्व

अध्यायः ७२

Bhishma Parva (Sanskrit) · Adhyaya 72
अक्षर का आकार

सञ्जय उवाच।

शिखण्डी सह मत्स्येन विराटेन विशांपते।
भीष्ममाशु महेष्वासमाससाद सुदुर्जयम् ।।

द्रोणं कृपं विकर्णं च महेष्वासं महाबलम् ।
राज्ञश्चान्यान्रणे शूरान्बहूनार्च्छद्धनंजयः ।।

सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः ।
प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ ।।

पुत्रं च ते महेष्वासं दुर्योधनममर्षणम् ।
दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत ।।

सहदेवस्तु शकुनिमुलूकं च महारथम् ।
पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ ।।

युधिष्ठिरो महाराज गजानीकं महारथः ।
समवर्तत संग्रामे पुत्रेण निकृतस्तव ।।

माद्रीपुत्रस्तु नकुलः शूरसंक्रन्दनो युधि ।
त्रिगर्तानां बलैः सार्धं समसञ्जत पाण्डवः ।।

अभ्यवर्तन्त संक्रुद्धाः समरे साल्वकेकयान्।
सात्यकिश्चेकितानश्च सौभद्रश्च महारथः ।।

धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः ।
नाकुलिश्च शतानीकः समरे रथपुङ्गवः ।
पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः ।।

सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः ।
द्रोणेन समरे राजन्समियायोग्रकर्मणा ।।

एवमेते महेष्वासास्तावकाः पाण्डवैः सह ।
समेत्य समरे शूराः संप्राहारं प्रचक्रिरे ।।

मध्यंदिनगते सूर्ये नभस्याकुलतां गते ।
कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम् ।।

ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे ।
सपताका रथा रेजुर्वैयाघ्रपरिवारणाः ।।

समेतानां च समरे जिगीषूणां परस्परम् ।
बभूव तुमुलः शब्दः सिंहानामिव नर्दताम् ।।

तत्राद्भुतमपश्यास संप्रहारं सुदारुणम्।
यदकुर्वन्रणे शूराः सृञ्जयाः कुरुभिः सह ।।

नैव खं न दिशो राजन्न सूर्यं शत्रुतापन।
विदिशो वापि पश्यामः शरैर्मुक्तैः समन्ततः ।।

शक्तीनां विमलाग्राणां तोमराणां तथास्यताम् ।
निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः ।।

कवचानां विचित्राणां भूषणानां प्रभास्तथा ।
खं दिशः प्रदिशश्चैव भासयामासुरोजसा ।।

वपुर्भिश्च नरेन्द्राणां चन्द्रसूर्यसमप्रभैः ।
विरराज तदा राजंस्तत्रतत्र रणाङ्गणम् ।।

रथसङ्घा नरव्याघ्राः समायान्तश्च संयुगे।
विरेजुः समरे राजन्ग्रहा इव नभस्तले ।।

भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् ।
अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः ।।

ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः।
अभ्यङ्गन्तमरे भीमं तैलघौताः सुतेजनाः ।।

तस्य शक्तिं महावेगं भीमसेनो महाबलः ।
क्रुद्धाशीविषसंकाशं प्रेषयामास भारत ।।

तामापतन्तीं सहसा रुक्मदण्डं दुरासदाम्।
चिच्छेद समरे भीष्मः शरैः सन्नतपर्वभिः ।।

ततोऽपरेण भल्लेन पीतेन निशितेन च।
कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत ।।

अपास्य तु धनुश्छिन्नं भीमसेनो महाबलः ।
शरैर्बहुभिरानर्च्छद्भीष्मं शान्तनवं युधि ।।

सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे ।
आकर्णप्रहितैस्त्रीक्ष्णैर्निशितैस्तिग्मतेजनैः ।।

शरैर्बहुभिरानर्च्छत्पितरं ते जनेश्वर ।
ततः संधाय वै तीक्ष्णं शरं परमदारुणम् ।।

वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम्।
तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ ।।

तेन तेनैव धावन्ति मनोमारुतरंहसः।
ततः सर्वस्य सैन्यस्य निःस्वनस्तुमुलोऽभवत् ।।

हाहाकारश्च संजज्ञे पाण्डवानां महात्मनाम् ।
अभ्यद्रवत गृह्णीत हयान्यच्छत धावत ।।

इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति ।
एतस्मिन्नेव काले तु भीष्मः शान्तनवस्तदा ।।

न्यहनत्पाण्डवीं सेनामासुरीमिव वृत्राहा ।
ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह ।
स्थिरां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः ।।

धृष्टद्युम्नमुखाश्चापि पार्थाः शान्तनवं रणे।
अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम् ।।

तथैव कौरवा राजन्भीष्मद्रोणपुरोगमाः।
अभ्यधावन्त वेगेन ततो युद्धमवर्तत ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
पञ्चमदिवसयुद्धे द्विसप्ततितमोऽध्यायः ।।