भीष्मपर्व

अध्यायः ७४

Bhishma Parva (Sanskrit) · Adhyaya 74
अक्षर का आकार

सञ्जय उवाच।

अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः।
विकृष्य चापं समरे भारसाहमनुत्तमम् ।।

यत्तत्सख्युस्तु पूर्वेण अर्जुनादुपशिक्षितम् ।
प्रगाढं लघु चित्रं च दर्शयन्हस्तलाघवम्।
प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान् ।।

तस्य विक्षिपतस्छापं शरानन्यांश्च मुञ्चतः।
आददानस्य भूयश्च संदधानस्य चापरान् ।।

क्षिपतश्च परांस्तस्य रणे शत्रून्विनिघ्नतः।
ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः ।।

तमुदीर्यन्तमालोक्य राजा दुर्योधस्ततः ।
रथानामयुतं तस्य प्रेषयामास भारत ।।

तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः ।
जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् ।।

स कृत्कवा दारुणं कर्म प्रगृहीतशरासनः।
आससाद ततो वीरो भूरिश्रवसमाहवे।।

स हि संदृश्य सेनां ते युयुधानेन पातिताम् ।
अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः ।।

इन्द्रायुधसवर्णं तु विस्फार्य सुमहद्धनुः ।
सृष्टवान्वज्रसंकाशाञ्शरानाशीविषोपमान् ।।

सहस्रशो माहाराज दर्शयन्पाणिलाघवम् ।
शरांस्तान्मृत्युसंस्पर्शान्सात्यकेश्च पदानुगाः ।।

न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः ।
विहाय सात्यकिं राजन्समरे युद्धदुर्मदम् ।।

तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः ।
महारथाःक समाख्याताश्चित्रवर्मायुधध्वजाः ।।

समासाद्य महेष्वासं भूरिश्रवसमाहवे।
ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे ।।

भोभो कौरवादायाद सहास्माभिर्महाबल ।
एहि युध्यस्व संग्रामे समस्तैः पृथगेव वा ।।

अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे।
वयं वा त्वां पराजित्य प्रीतिं धास्यामहे पितुः ।।

एवमुक्तस्तदा शूरैस्तानुवाच महाबलः ।
वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समवस्थितान् ।।

साध्विदं कथ्यते वीरा यंद्येवं मतिरद्य वः।
युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे ।।

एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः ।
महता शरवर्षेण अभ्यधावन्नरिन्दमम् ।।

सोऽपराह्णे महाराज संग्रामस्तुमुलोऽभवत्।
एकस्य च बहूनां च समेतानां रणाजिरे ।।

तमेकं रथिनां श्रेष्ठं शरैस्ते समवाकिरन् ।
प्रावृषीव यथा मेरुं सिषिचुर्जलदा नृप ।।

तैस्तु मुक्ताञ्शरान्घोरान्यमदण्डाशनिप्रभान् ।
असंप्राप्तानसंभ्राकन्तिश्चिच्छेदाशु महारथः ।।

तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम् ।
यदेको बहुबिर्युद्धे समसञ्जदभीतवत् ।।

विसृज्य शरवृष्टिं तां दश राजन्महारथाः ।
परिवार्य महाबाहुं निहन्तुमुपचक्रमुः ।।

समदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत ।
चिच्छेद समरे राजन्युध्यमानो महारथैः ।।

अथैषां छिन्नधनुषां शरैः सन्नतपर्वभिः ।
चिच्छेद समरे राजञ्शिरांसि भरतर्षभ ।।

ते हता न्यपतन्राजन्वज्रभग्ना इव द्रुमाः ।
तान्दृष्ट्वा निहतान्वीरो रणे पुत्रान्महाबलान् ।।

वार्ष्णेयो विनदराजन्भूरिश्रवसमभ्ययात्।
रथं रथेन समरे पीडयित्वा महाबलौ ।।

तावन्योन्यं हि समरे निहत्य रथवाजिनः ।
विरथावभिवल्गन्तौ समेयातां महारथौ ।।

प्रगृहीतमहाखङ्गौ तौ चर्मवरधारिणौ ।
शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ ।।

असह्यमसियुद्धाय भूरिश्रवसमाहवे।
मत्वा वृकोदरस्तूर्णमभिप्लुत्य महारथः ।।

ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् ।
भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा ।।

तवापि तनयो राजन्भूरिश्रवसमाहवे।
आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् ।।

तस्मिस्तथा वर्तमाने रणे भीष्मं महारथम्।
अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ ।।

लोहितायति चादित्ये त्वरमाणो धनञ्जयः ।
पञ्चविंशतिसाहस्रान्निजघान महारथान् ।।

ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे ।
संप्राप्यैव गता नाशं शलभा इव पावकम् ।।

ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः ।
परिवव्रुस्तदा पार्थं सहपुत्रं महारथम् ।।

एवस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति।
सर्वेषां चैव सैन्यानां प्रमोहः समजायत ।।

अवहारं ततश्चक्रे पिता देवव्रतस्तव ।
संध्याकाले महाराज सैन्यानां श्रान्तवाहनः ।।

पाण्डवानां कुरूणां च परस्परसमागमे।
ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् ।।

ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत।
पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधिः ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
प?ञ्चमदिवसयुद्धए चतुःसप्ततितमोऽध्यायः ।।