भीष्मपर्व

अध्यायः ७१

Bhishma Parva (Sanskrit) · Adhyaya 71
अक्षर का आकार

सञ्जय उवाच।

दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान् ।
समभ्यधावद्गांङ्गेयमुद्यतास्त्रो धनञ्जयः ।।

पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च।
ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् ।।

सिंहलाङ्गूलमाकाशे ज्वलन्तमिव पर्वतम्।
असञ्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् ।।

बहुवर्णं विचित्रं च दिव्यं वानरलक्षणम् ।
अपश्याम महाराज ध्वजं गाण्डीवधन्वनः ।।

सुवर्णपृष्ठं गाण्डीवं रणे द्रक्ष्यामि भारत।
विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे ।
ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महामृधे ।।

आशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः।
सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् ।।

चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान् ।
दिशः संप्लावयन्सर्वाः शरवर्षैः समन्ततः ।।

समभ्यधावद्गाङ्गेयं भैरवास्त्रो धनञ्जयः ।
दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः ।।

कान्दिग्भूता श्रान्तपत्रा हताश्वा हतचेतसः।
अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ ।।

भीष्ममेवाभ्यलीयन्त सह सर्वैस्तवात्मजैः ।
तेषामार्तायनमभूद्भीष्मः शान्तनवो रणे ।।

समुत्पतन्ति वित्रस्ता रथेभ्यो रथिनस्तथा ।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ।।

श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः ।
सर्वसैन्यानि भीतानि व्यवालीयन्त भारत ।।

अथ काम्भोजैजरश्वैर्महद्भिः शीघ्रगामिभिः ।
गोपानां बहुसाहस्त्रैर्बालैर्गापायनैर्वृतः ।।

मद्रसौवीरगान्धारैस्त्रैगर्तैश्च विशांपते ।
सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः ।।

नानानरगणौघैश्च दुःशासनपुरःसरः ।
जयद्रथश्च नृपतिः सहितः सर्वराजभिः ।।

हयारोहवराश्चैव तव पुत्रेण चोदिताः ।
चतुर्दशसहस्राणि सौबलं पर्यवारयन् ।।

ततस्ते सहिताः सर्वे विभक्तरथवाहनाः ।
अर्जुनं समरे जघ्नुस्तावका भरतर्षभ ।।

चेदिकाशिपदातैश्च रथैः पाञ्चालसृञ्जयैः ।
पाण्डवाः सहिताः सर्वे धृष्टद्युम्नपुरोगमाः।
तावकान्समरे जघ्नुर्धर्मपुत्रेण चोदिताः ।।

रथिभिर्वारणैरश्वैः पादातैश्च समीरितम् ।
घोरमायोधनं चक्रे महाभ्रसदृशं रजः ।।

तोमरप्रासनाराचगजाश्वरथयोधिनाम् ।
बलेन महता भीष्मः समसञ्जत्किरीटिना ।।

आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः ।
अजातशत्रुर्मद्राणामृषभेण यशश्विना ।।

सहपुत्रः सहामात्यः शल्येन समसञ्जत।
विकर्णः सहदेवेन चित्रसेनः शिखण्डिना ।।

मत्स्या दुर्योधनं जग्मुः शंकुनिं न विशांपते।
द्रुपदश्चेकितानश्च सात्यकिश्चक महारथः ।।

द्रोणेन समसञ्जन्त सपुत्रेण महात्मना ।
कृपश्च कृतवर्मा च धृष्टद्युम्नमभिद्रुतौ ।।

एवं प्रव्रजिताश्वानि भ्रान्तनागरथानि च।
सैन्यानि समसञ्जन्त प्रयुद्धानि समन्ततः ।।

निरभ्रे विद्युतस्तीव्रा दिशश्च रजसा वृताः ।
प्रादुरासन्महोत्काश्च सनिर्घाता विशांपते ।।

प्रादुर्भूतो महावातः पांसुवर्षं पपात च ।
नभस्यन्तर्दधे सूर्यः सैन्येन सजसा वृतः ।।

प्रमोहः सर्वसत्वानामतीव समपद्यत।
रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम् ।।

वीरबाहुविसृष्टानां सर्वावरणभेदिनाम् ।
संघातः शरजालानां तुमुलः समपद्यत ।।

प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः ।
नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ ।।

आर्षभाणि विचित्राणि रुक्मजालावृतानि च ।
संपेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ ।।

सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः ।
दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च ।

भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः ।
हताश्वाः पृथिवीं जग्मुस्तत्रतत्र महारथाः ।।

परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः ।
रथान्विपरिकर्षन्तो हतेषु रथयोधिषु ।।

शराहता भिन्नदेहा बद्धयोक्रा हयोत्तमाः ।
युगानि पर्यकर्षन्त तत्रतत्र स्म भारत।

अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः ।
एकेन बलिना राजन्वारणेन विमर्दिताः ।।

गन्धहस्तिमदस्रावमाघ्राय बहवो रणे।
सन्निपाते बलौघानां गजैर्ममृदिरे गजाः ।।

सतोमरैर्महामात्रैर्निपतद्भिर्गतासुभिः ।
बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः ।।

सन्निपाते बलौघानां प्रेषितैर्वरवारणैः ।
निपेतुर्युधि संभग्नाः सयोधाः सध्वजा गजाः ।।

नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे ।
व्यदृश्यन्त महाराज संभग्ना रथकूबराः ।।

विशीर्णरथसङ्घाश्च केशेष्वाक्षिप्य दन्तिभिः ।
द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे ।।

रथेषु च रथान्युद्धे संसक्तान्वरवारणाः ।
विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः ।।

तेषां तथा कर्षतां तु गजानां रूपमाबभौ ।
सरःसु नलिनीजालं विषक्तमिव कर्षताम् ।।

एवं संछादितं तत्र बभूवायोधनं महत्।
सादिभिश्च पदातैश्च सध्वजैश्च महारथैः ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
पञ्चमदिवसयुद्धे एकसप्ततितमोऽध्यायः ।।