भीष्मपर्व
अध्यायः ७०
सञ्जय उवाच।
अकरोत्तुमुलं युद्धं भीष्मः शान्तनवस्तदा।
भीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव ।।
पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत ।
कुरूणां पाण्डवानां च मुख्यशूरविनाशनम् ।।
तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये ।
अभवत्तुमुलः शब्दः संस्पृशन्गगनं महत् ।।
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः ।
भेरीशङ्खनिनादैश्च तुमुलं समपद्यत ।।
युयुत्सवस्ते विक्रान्ता विजयाय महाबलाःक ।
अन्योन्यमभिगर्जन्तो गोष्ठिष्विव महर्षभाः ।।
शिरासं पात्यमानानां समरे निशितैः शरैः।
अश्यवृष्टिरिवाकाशे बभूव भरतर्षभ ।।
कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च।
पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ ।।
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः ।
सहस्ताभरणैश्चान्यैरभवच्छादिता मही ।।
कवचोपहितैर्गात्रैर्हस्तैश्च समलङ्कृतैः ।
मुखैश्च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः ।।
गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते ।
आसीत्सर्वा समास्तीर्णा मुहूर्तेन वसुंधराः ।।
रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशिभिः ।
आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत् ।।
स संप्रहारस्तुमुलःक कटुकः शोणितोदकः।
प्रावर्तत कुरूणां च पाण्डवानां च भारत ।।
तस्मिन्महाभये घोरे तुमुले रोमहर्षणे।
ववृषुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः ।।
आक्रोशन्कुञ्जरास्तत्र शरवर्षप्रतापिताः ।
तावकानां परेषां च संयुगे भरतर्षभ ।।
संरब्धानां च वीराणां धीराणाममितौजसाम् ।
धनुर्ज्यातलशब्देन न प्राज्ञायत किंचन ।।
उत्थितेषु कबन्धेषु सर्वतः शोमितोदके।
समरे पर्यधावन्त नृपा रिपुवधोद्यताः ।।
शरशक्तिगदाभिस्ते खङ्गैश्चामिततेजसः ।
निजघ्नुः समरेऽन्योन्यं शूराः परिघबाहवः ।।
बभ्रमुः कुञ्जराश्चात्र शरैर्विद्धा निरङ्कुशाः ।
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ।।
उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः।
तावकानां परेषां च योधा भरतसत्तम ।।
वाहानामुत्तमाङ्गानां कार्मुकाणां च भारत।
गदानां परिघाणां च हस्तानां चोरुभिः सह ।।
पादानां भूषणानां च केयूराणां च सङ्घशः।
राशयस्तत्र दृश्यन्ते भीष्मभीमसमागमे ।।
अश्वानां कुञ्जराणां च रथानां चानिवर्तिनाम् ।
सङ्घाताः स्म प्रदृश्यन्ते तत्रतत्र विशांपते ।।
गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः ।
जघ्नुः परस्पर तत्र क्षत्रियाः काल आगते ।।
अपरे बाहुभिर्वीरा नियुद्धकुशला युधि।
बहुधा समसञ्जन्त आयसैः परिघैरिव ।।
मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशांपते ।
अन्योन्यं जघ्रिरे वीरास्तावकाः पाण्डवैः सह ।।
पतितैः पात्यमानैश्च विचेष्टद्भिश्च भूतले।
घोरमायोधनं जज्ञे तत्रतत्र जनेश्वर ।।
विरथा रथिनश्चात्र निस्त्रिंशवरधारिणःक ।
अन्योन्यमभिधावन्तः परस्परवधैषिणः ।।
ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः।
पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत ।।
तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम्।
भीष्ममभ्यद्रवन्क्रुद्धास्ततो युद्धमवर्तत ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
पञ्चमदिवसयुद्धे सप्ततितमोऽध्यायः ।।