भीष्मपर्व

अध्यायः ६९

Bhishma Parva (Sanskrit) · Adhyaya 69
अक्षर का आकार

सञ्जय उवाच।

व्युषितायां तु शर्वर्यामुदिते च दिवाकरे।
उभे सेने महाराज युद्धायैव समीयतुः ।।

अभ्यधावन्त संक्रुद्धाः परस्परजिगीषवः ।
ते सर्वे सहिता युद्धे समालोक्य परस्परम् ।।

पाण्डवा धार्तराष्ट्राश्च राजन्दर्मन्त्रिते तव।
व्यूहौ च व्यूह्य संरब्धाः संप्रहृष्टाः प्रहारिणः ।।

अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः ।
तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः ।।

`अजातशत्रुः शत्रूणां मनांसि समकम्पयत्।'
श्येनवद्व्यूह्य तं व्यूहं धौम्यस्य वचनात्स्वयम् ।।

स हि तस्य सुविज्ञात अग्निचित्येषु भारत।
मकरस्तु महाव्यूहस्तव पुत्रस्य धीमतः ।।

स्वयं सर्वेण सैन्येन द्रोणेनानुमतस्तदा ।
यथाव्यूहं शान्तनवः सोऽन्ववर्तत तत्पुनः ।।

स निर्ययौ महाराज पिता देवव्रतस्तव ।
महता रथवंशेन संवृतो रथिनां वरः ।।

इतरेतरमन्वीयुर्यथाभागमवस्थिताः ।
रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा ।।

तान्दृष्ट्वाऽभ्युद्यतान्सङ्ख्ये पाण्डवा हि यशस्विनः ।
श्येनव्यूहेन संव्यूह्य समनह्यन्त संयुगे ।।

अशोभत मुखे तस्य भीमसेनो महाबलः ।
नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः ।।

शीर्षे तस्याभवद्वीरः सात्यकिः सत्यविक्रमः ।
विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा ।।

अक्षौहिण्या समं तत्र वामपक्षोऽभवत्तदा ।
महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे ।।

दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः ।
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान् ।।

पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरःक ।
भ्रातृभ्यां सहितो वीरो यमाभ्यां चारुविक्रमः ।।

प्रविश्य तु रणे भीमो मकरं मुखतस्तदा।
भीष्ममासाद्य संग्रामे च्छादयामास सायकैः ।।

ततो भीष्मो महास्राणि पातयामास भारत।
मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे ।।

संमुह्यति तदा सैन्ये त्वरमाणो धनंजयः ।
भीष्मं शरसहस्रेण विव्याध रणमूर्धनि ।।

प्रतिसंवार्य चास्राणि भीष्ममुक्तानि संयुगे।
स्वेनानीकेन हृष्टेन युद्धाय समुपस्थितः ।।

ततो दुर्योधनो राजा भारज्वाजमभाषत ।
पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः ।।

भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः।
आचार्यः सततं हि त्वं हितकामो ममानघ ।।

वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् ।
देवानपि रणे जेतुं प्रार्थयामो न संशयः ।।

किमु पाण्डुसुताकन्युद्धे हीनवीर्यपराक्रमान् ।
स तथा कुरु भद्रं ते यथा वध्यन्ति पाण्डवाः ।।

एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष ।
तत्र संप्रेक्ष्य राजनं संक्रुद्ध इव निश्चसन् ।।

बालिशस्त्वं न जानीषे पाण्डवानां पराक्रमम् ।
न शक्या हि यथा जेतुं पाण्डवा हि महाबलाः ।।

यथाबलं यथावीर्यं कर्म कुर्यामहं हि ते।
इत्युक्तवा ते सुतं राजन्नभ्यपद्यत वाहिनीम् ।
अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः ।।

सात्यकिस्तु ततो द्रौणं वारयामात भारत।
तयोः प्रववृते युद्धं घोररूपं भयावहम् ।।

शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापावान्।
अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव ।।

भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत ।
संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात् ।।

ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष।
भीमसेनं रणे क्रुद्धाश्छादयांचक्रिरे शरैः ।।

तत्राभिमन्युः संक्रुद्धो द्रौपदेयाश्च मारिष ।
विव्यधुर्निशितैर्बैणैः सर्वांस्तानुद्यतायुधान् ।।

द्रोणभीष्मौ तु संक्रुद्धावापतन्तौ महाबलौ ।
प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे ।।

प्रगृह्य बलवद्वीरो धनुर्जलदनिःश्वनम् ।
अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम् ।।

शिखण्डिनं समासाद्य भरतानां पितामहः ।
अवर्जयत संग्रामं स्त्रीत्वं तस्यानुसंस्मरन् ।।

ततो द्रोणो महाराज अभ्यद्रवत तं रणे।
रक्षमाणस्तदा भीष्मं तव पुत्रेण चोदितः ।।

शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम्।
अवर्जयत संत्रस्तो युगान्ताग्निमिवोल्बणम् ।।

ततो बलेन महता पुत्रस्तव विशांपते ।
जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः ।।

तथैव पाण्डवा राजन्पुरुस्कृत्य धनञ्जयम्।
भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम् ।।

तद्युद्धमभवद्धोरं देवानां दानवैरिव।
जयमाकाङ्क्षतां सङ्क्ष्ये यशश्च सुमहाद्भुतम् ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
पञ्चमदिवसयुद्धे एकोनसप्ततितमोऽध्यायः ।।